श्रीदक्षिणामूर्त्यष्टकम् PDF संस्कृत
Download PDF of Dakshinamurtyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीदक्षिणामूर्त्यष्टकम् संस्कृत Lyrics
|| श्रीदक्षिणामूर्त्यष्टकम् ||
अगणितगुणगणमप्रमेमाद्यं
सकलजगत्स्थितिसम्यमादिहेतुम् ।
उपरतमनोयोगिहृन्मन्दिरम्तं
सततमहं दक्षिणामूर्तिमीडे ॥ १॥
निरवधिसुखमिष्टदातारमीड्यं
नतजनमनस्तापभेदैकदक्षम् ।
भवविपिनदवाग्निनामधेयं
सततमहं दक्षिणामूर्तिमीडे ॥ २॥
त्रिभुवनगुरुमागमैकप्रमाणं
त्रिजगत्कारणसूत्रयोगमायम् ।
रविशतभास्वरमीहितप्रधानं
सततमहं दक्षिणामूर्तिमीडे ॥ ३॥
अविरतभवभावनादिदूरं
पदपद्मद्वयभाविनामदूरम् ।
भवजलधिसुतारणमङ्घ्रिपोतं
सततमहं दक्षिणामूर्तिमीडे ॥ ४॥
कृतनिलयमनिशं वटाकमूले
निगमशिखाव्रातबोधितैकरूपम् ।
धृतमुद्राङ्गुळिगम्यचारुरूपं
सततमहं दक्षिणामूर्तिमीडे ॥ ५॥
द्रुहिणसुतपूजिताङ्घ्रिपद्मं
पदपद्मानतमोक्षदानदक्षम् ।
कृतगुरुकुलवासयोगिमित्रं
सततमहं दक्षिणामूर्तिमीडे ॥ ६॥
यतिवरहृदये सदा विभान्तं
रतिपतिशतकोटिसुन्दराङ्गमाद्यम् ।
परहितनिरतात्मनं सुसेव्यं
सततमहं दक्षिणामूर्तिमीडे ॥ ७॥
स्मितधवळविकासिताननाब्जं
श्रुतिसुलभं वृषभाधिरूढगात्रम् ।
सितजलजसुशोभिदेहकान्तिं
सततमहं दक्षिणामूर्तिमीडे ॥ ८॥
वृषभकृतमिदमिष्टसिद्धिदं
गुरुवरदेवसन्निधौ पठेद्यः ।
सकलदुरितदुःखवर्गहानिं
व्रजति चिरं ज्ञानवान् शम्भुलोकम् ॥ ९॥
इति श्रीव्ऱ्^षभदेवविरचितं श्रीदक्षिणामूर्त्यष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीदक्षिणामूर्त्यष्टकम्
READ
श्रीदक्षिणामूर्त्यष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
