श्रीदक्षिणामूर्त्यष्टकम् PDF संस्कृत
Download PDF of Dakshinamurtyashtakam3 Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीदक्षिणामूर्त्यष्टकम् संस्कृत Lyrics
|| श्रीदक्षिणामूर्त्यष्टकम् ||
श्रीव्यास उवाचः ।
श्रीमद्गुरो निखिलवेदशिरोनिगूढ
ब्रह्मात्मबोध सुखसान्द्रतनो महात्मन् ।
श्रीकान्तवाक्पति मुखाखिलदेवसङ्घ
स्वात्मावबोधकपरेश नमो नमस्ते ॥ १॥
सान्निध्यमात्रमुपलभ्यसमस्तमेत-
दाभाति यस्य जगदत्र चराचरं च ।
चिन्मात्रतां निज कराङ्गुलि मुद्रयाय-
स्स्वस्यानिशं वदति नाथ नमो नमस्ते ॥ २॥
जीवेश्वराद्यखिलमत्र विकारजातं
जातं यतस्स्थतमनन्तसुखे च यस्मिन् ।
येनोपसंहृतमखण्डचिदेकशक्त्या
स्वाभिन्नयैव जगदीश नमो नमस्ते ॥ ३॥
यस्स्वांशजीवसुखदुःखफलोपभोग-
हेतोर्वपूंषि विविधानि च भौतिकानि ।
निर्माय तत्र विशता करणैस्सहन्ते
जीवेन साक्ष्यमत एव नमो नमस्ते ॥ ४॥
हृत्पुण्डरीकगतचिन्मणिमात्मरूपम्
यस्मिन् समर्पयति योगबलेन विद्वान् ।
यः पूर्णबोधसुखलक्षण एकरूप
आकाशवद्विभुरुमेश नमो नमस्ते ॥ ५॥
यन्मायया हरिहर द्रुहिणा बभूवु-
स्सृष्ट्यादिकारिण इमे जगतामधीशाः ।
यद्विद्ययैव परयात्रहि वश्यमाया
स्थैर्यं गता गुरुवरेश नमो नमस्ते ॥ ६॥
स्त्रीपुंनपुंसकसमाह्वयलिङ्गहीनो-
ऽप्यास्तेत्रिलिङ्गक उमेशतया य एव ।
सत्यप्रबोध सुखरूपतया त्वरूप-
वत्त्वेन च त्रिजगदीश नमो नमस्ते ॥ ७॥
जीवत्रयं भ्रमति वै यदविद्ययैव
संसारचक्र इह दुस्तर दुःखहेतौ ।
यद्विद्ययैव निजबोधरतं स्ववश्या
विद्यञ्च तद्भवति साम्ब नमो नमस्ते ॥ ८॥
इति श्रीगुरुज्ञानवासिष्ठज्ञानकाण्डस्य द्वितीयपादे प्रथमाध्याये
श्रीव्यासकृतं श्रीदक्षिणामूर्त्यष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीदक्षिणामूर्त्यष्टकम्
READ
श्रीदक्षिणामूर्त्यष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
