परमात्माष्टकम् PDF संस्कृत
Download PDF of Paramatmashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
परमात्माष्टकम् संस्कृत Lyrics
|| परमात्माष्टकम् ||
श्रीगणेशाय नमः ॥
परमात्मँस्तव प्राप्तौ कुशलोऽस्मि न संशयः ।
तथापि मे मनो दुष्टं भोगेषु रमते सदा ॥ १॥
यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहम् ।
तदैव मे मनो मूढं पुनर्भोगेषु गच्छति ॥ २॥
भोगान्भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो ।
तव स्मृतिर्यदाऽऽयाति तदा भाति बहिर्मुखम् ॥ ३॥
प्रत्यहं शास्त्रनिचयं चिन्तयामि समाहितः ।
तथापि मे मनो मूढं त्यक्त्वा त्वां भोगमिच्छति ॥ ४॥
शोकमोहौ मानमदौ तवाज्ञ्नाद्भवन्ति वै ।
यदा बुद्धिपथं यासि यान्ति ते विलयं तदा ॥ ५॥
कृपां कुरु तथा नाथ त्वयि चित्तं स्थिरं यथा ।
मम स्याज्ज्ञानसंयुक्तं तव ध्यानपरायणम् ॥ ६॥
मायया ते विमूढोऽस्मि न पश्यामि हिताहितम् ।
संसारपारपाथोधौ पतितं मां समुद्धर ॥ ७॥
परमात्मँस्त्वयि सदा मम स्यान्निश्चला मतिः ।
संसारदुःखगहनात्त्वं सदा रक्षको मम ॥ ८॥
परमात्मन इदं स्तोत्रं मोहविच्छेदकारकम् ।
ज्ञानदं च भवेन्नॄणां योगानन्देन निर्मितम् ॥ ९॥
इति श्रीयोगानन्दतीर्थविरचितं परमात्माष्टकं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowपरमात्माष्टकम्
READ
परमात्माष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
