श्रीराधाष्टकम् PDF

Download PDF of Shriradhaashtakam Sanskrit

Shri RadhaBhajan (भजन संग्रह)संस्कृत

|| श्रीराधाष्टकम् || श्रीश्रीवृन्दावनेश्वर्यै नमः । दिशि दिशि रचयन्ती सञ्चरन्नेत्रलक्ष्मी विलसितखुरलीभिः खञ्जरीटस्य खेलाम् । हृदयमधुपमल्लीं वल्लवाधीशसूनो- रखिलगुणगभीरां राधिकामर्चयामि ॥ पितुरिह वृषभानोरन्ववायप्रशस्तिं जगति किल समस्ते सुष्ठु विस्तारयन्तीम् । व्रजपतिकुमारं खेलयन्तीं सखीभिः सुरभिणि निजकुण्डे राधिकामर्चयामि ॥ शरदुपचितराकाकौमुदीनाथकीर्ति प्रकरदमनदीक्षादक्षिणस्मेरवक्त्राम् । नटदघभिदपाङ्गोत्तुङ्गितानङ्गरङ्गां कलितरुचितरङ्गां राधिकामर्चयामि ॥ विविधकुसुमवृन्दोत्फुल्लधम्मिल्लघाटी विघटितमदघूर्णत्केकिपिच्छप्रशस्तिम् । मधुरिपुमुखबिम्बोद्गीर्णताम्बूलराग स्फुरदमलकपोलां राधिकामर्चयामि ॥ अमलिनललितान्तःस्नेहसिक्तान्तराङ्गां अखिलविधविशाखासख्यविख्यातशीलाम् । स्फुरदघभिदनर्घप्रेममाणिक्यपेटीं धृतमधुरविनोदां राधिकामर्चयामि ॥...

READ WITHOUT DOWNLOAD
श्रीराधाष्टकम्
Share This
Download this PDF