अरुणगिरिध्यानस्तुतिः

|| अरुणगिरिध्यानस्तुतिः || अरुणगिरिरिहेड्यः स्कन्द सत्कीर्तिसूक्ति प्रकटितनिजभक्तिः निस्पृहः शुद्धसत्वः । अनुदिनमगजातासूनुधामाटनोद्यद्- रतिरखिल सुपूज्यः साञ्जलिर्भूतिभूषः ॥ इति अरुणगिरिध्यानस्तुतिः समाप्ता ।

गौरीकृता अम्बिकेशशिवस्तुतिः

|| गौरीकृता अम्बिकेशशिवस्तुतिः || (अम्बिकेशशिवस्तुतिः) हर हर शङ्कर चन्द्रशेखर प्रमथाधीश्वर विश्वनाथ शम्भो । करुणारससारशोभिताङ्गाङ्गदकाहीश्वर देवदेव पाहि (देव पाहि पाहि) ॥ ५४॥ अम्बिकेश गगनातिगमौले लम्बितोरुजटयाखिलकाश । व्योमकेश विनतार्तिविनाश नागभूषणक (नागभूष नग) कार्मुकपाणे ॥ ५५॥ हरिबाणामलपद्मनेत्र शम्भो कृतदक्षाध्वरशिक्षवीक्षण । दग्धकामपुरवर्ग मदोद्यत्कुम्भिकुम्भदलनामलपाद ॥ ५६॥ गिरिराजसुता(सुतां)जटोरुबन्ध ह्यव (अव) मां घोरतपोभिरुग्रदेहाम् । भव भीमोग्र कपालमालजालिन्करशूलामलभूतिभूषिताङ्ग ॥ ५७॥ त्यद(त्वद)पाङ्गततिप्रभूतकामा किमिहेहामि तवावृतेर्ममाद्य…

श्रीवेङ्कटेश्वरनवरत्नमालिकास्तुतिः

|| श्रीवेङ्कटेश्वरनवरत्नमालिकास्तुतिः || श्रीमानम्भोधिकन्याविहरणभवनीभूतवक्षःप्रदेशः भास्वद्भोगीन्द्रभूमीधरवरशिखरप्रान्तकेलीरसज्ञः । शश्वद्ब्रह्मेन्द्रवह्निप्रमुखसुरवराराध्यमानाङ्घ्रिपद्मः पायान्मां वेङ्कटेशः प्रणतजनमनःकामनाकल्पशाखी ॥ १॥ यस्मिन् विश्वं समस्तं चरमचरमिदं दृश्यते वृद्धिमेति भ्रश्यत्यन्ते च तादृग्विभवविलसितस्सोऽयमानन्दमूर्तिः । पद्मावासामुखाम्भोरुहमद धु मधुविद्विभ्रमोन्निद्रचेताः शश्वद्भूयाद्विनम्राखिलमुनिनिवहो भूयसे श्रेयसे मे ॥ २॥ वन्दे देवं महान्तं दरहसितलसद्वक्त्रचन्द्राभिरामं नव्योन्निद्रावदाताम्बुजरुचिरविशालेक्षणद्वन्द्वरम्यम् । राजन्मार्ताण्डतेजःप्रसितशुभमहाकौस्तुभोद्भास्युरस्कं शान्तं श्रीशङ्खचक्राद्यमलकरयुतं भव्यपीताम्बराढ्यम् ॥ ३॥ पायाद्विश्वस्य साक्षी प्रभुरखिलजगत्कारणं शाश्वतोऽयं पादप्रह्वाघराशिप्रशमननिभृताम्भोधरप्राभवो माम् । ब्यक्ताव्यक्तस्वरूपो दुरधिगमपदः प्राक्तनीनां च वाचां…

श्रीमधुरापुरीस्तुतिः

|| श्रीमधुरापुरीस्तुतिः || श्वेतद्वीपमधिष्ठिता सुविपुला सा सत्यलोकस्थिता चायोध्या च कुशस्थली मधुपुरीत्यत्युज्ज्वला निस्तुलाः । पञ्च श्रीकमितुः प्रपञ्चकुहरे पुर्यः स्फुरन्ति स्फुटं तासां मध्यगता विभाति मधुरा सा हन्त सर्वोत्तरा ॥ १॥ काञ्ची काशिपुरी च सा पुनरयोध्या सापि चावन्तिका मायाख्या च कुशस्थली मधुपुरीत्यत्यन्तपुण्योत्तराः । पुर्यः सप्त समुल्लसन्ति परितः क्षोणीतले तास्वहो मध्यस्था मधुरा विराजति सरोमध्ये यथाम्भोरुहम् ॥ २॥ वृन्दारण्यबृहद्वनं मधुवनं…

प्रेमवतीकृता श्रीहरिस्तुतिः

|| प्रेमवतीकृता श्रीहरिस्तुतिः || निगमागमगीतदिव्यकीर्ते करुणाद्याखिलसद्गुणैकधामन् । धृतमानुषनाटने कृपालो त्वयि नित्यं मनसो गतिर्ममास्तु ॥ १॥ वरवक्त्रवितर्जिताब्जशोभे शुभनासापरिभूतकीरचञ्चौ । सहचन्द्रकपुण्ड्रशोभिभाले त्वयि नित्यं मनसो गतिर्ममास्तु ॥ २॥ अमितात्महितार्थमत्र नाथ करुणाविष्कृतनैजदिव्यमूर्ते । अवितर्क्यमनोहरस्वरूपे त्वयि नित्यं मनसो गतिर्ममास्तु ॥ ३॥ निजभक्तमदादिशत्रुहारिन् निजभक्ताखिलकष्टनाशकारिन् । निगमागमशास्त्रसारवक्तस्त्वयि नित्यं मनसो गतिर्ममास्तु ॥ ४॥ शरणागतरक्ष यत्कथायाः श्रवणं च स्मरणं यदीयमूर्तेः । प्रपुनाति जनान् द्रुतं…

गोपालयोगिकृता श्रीहरिस्तुतिः

|| गोपालयोगिकृता श्रीहरिस्तुतिः || महातेजःपुञ्जस्फुरदमलसिंहासनवरे स्थितं सर्वाधीशं विमलतरतेजोमयतनुम् । भृशं धन्योऽहं त्वां दृशि समधिगम्याक्षर शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ १॥ यतः सर्वं जातं वियदनिलमुख्यं जगदिदं स्थितौ निःशेषं योऽवति निजसुखांशेन बहुधा । ये सर्वं स्वस्मिन् हरति कलया यस्तु स प्रभुः शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ २॥ असूनाम्यादौ यमनियममुख्यैः सुकरणै- निरुध्येदं…

अक्षरादिदेवकृता श्रीहरिस्तुतिः

|| अक्षरादिदेवकृता श्रीहरिस्तुतिः || सत्यप्रतिज्ञमविकारिणमादिदेवं गूढाशयं भयहरं विमलं परात्मन् । सच्चित्सुखं त्वभयदं परतः परञ्च त्वां धर्मदेवतनयं वयमानमामः ॥ १॥ जन्मादि चास्य जगतो भवतो यतो वै वेदैः सदाऽपरिमितादिगुणैर्विगीतम् । ध्यातं सदा मुनिवरैश्च समाधिनिष्ठे- स्त्वां धर्मदेवतनयं वयमानमामः ॥ २॥ सत्यव्रतं परमसत्यमचिन्त्यमाद्यं सत्यस्य योनिमथ सत्यपराक्रमञ्च । सत्यात्मकं त्रियुगसत्यपदं पुराणं त्वां धर्मदेवतनयं वयमानमामः ॥ ३॥ प्राकट्यमेतदिह नाथ वसुन्धरायां नैवास्ति…

देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः

|| देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः || देवक्युवाच । रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ २४॥ नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु । व्यक्तेऽव्यक्तं कालवेगेन याते भवानेकः शिष्यते शेषसंज्ञः ॥ २५॥ योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम् । निमेषादिर्वत्सरान्तो महीयां स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६॥ मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान्निर्भयं…

सिद्धशारदास्तुतिः

|| सिद्धशारदास्तुतिः || सरस्वतीं शारदां च कौमारीं ब्रह्मचारिणीम् । वागीश्वरीं बुद्धिदात्रीं भारतीं भुवनेश्वरीम् ॥ १॥ चन्द्रघण्टां मरालस्थां जगन्मातरमुत्तमाम् । वरदायिनीं सदा वन्दे चतुर्वर्गफलप्रदाम् ॥ २॥ द्वादशैतानि नामानि सततं ध्यानसंयुतः । यः पठेत् तस्य जिह्वाग्रे नूनं वसति शारदा ॥ ३॥ इति श्री “द्विजेन्द्र”कविकृता सिद्धशारदास्तुतिः समाप्ता ।

सिद्धिलक्ष्मीस्तुतिः

|| सिद्धिलक्ष्मीस्तुतिः || आकारब्रह्मरूपेण ओंकारं विष्णुमव्ययम् । सिद्धिलक्ष्मि! परालक्ष्मि! लक्ष्यलक्ष्मि नमोऽस्तु ते ॥ याः श्रीः पद्वने कदम्बशिखरे राजगृहे कुंजरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते । शंखे देवकुले नरेन्द्रभवने गंगातटे गोकुले या श्रीस्तिष्ठति सर्वदा मम गृहे भूयात् सदा निश्चला ॥ या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया । लक्ष्मिर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भै- र्नित्यं…

बृहद्बलकृता शिवगिरिजास्तुतिः

|| बृहद्बलकृता शिवगिरिजास्तुतिः || सुरेश्वरं निरीश्वरं गिरीश्वरं नटेश्वरं महेश्वरं मयस्करं शिवं भजेय शङ्करम् । भुजङ्गराजहारकं सुमारमारहारकं महाविषाग्निधारकं भजे विमुक्तिदायकम् ॥ १॥ सुरारिवृन्ददुःखदं शुभाङ्गदं शुभास्पदं सुबद्धकर्ममोक्षदं भजे शिवं विमुक्तिदम् । विधीन्द्रविष्णुसन्मुखं महागिरीन्द्रजासखं धनेशमुख्यसत्सखं भजे शिवं मदुन्मुखम् ॥ २॥ उमापतिं सभापतिं दिशाम्पतिं पशोर्पतिं गिराम्पतिं पतेर्पतिं भजे शिवं दिवस्पतिम् ॥ ३॥ दन्वित्वक्परिधान शङ्कर महादेवेश मा मा जहि विभ्रन्मेरुशरासनं…

पार्वतीकृता शिवस्तुतिः ३

|| पार्वतीकृता शिवस्तुतिः ३ || (शिवरहस्यान्तर्गते सदाशिवाख्ये) पार्वती (उवाच) शम्भो रसालवरमूलग हस्तशूल व्यालाङ्गमाल जितकाल ललामसोम । गङ्गाविशालरयचुम्बि जटालवाल श्रीकण्ठमूल भजतामघहारशील ॥ ४०॥ एकाम्रमूलनिरयं भुजगाधिराज राजत्किरीटवलयं सदयं सदैव । अत्यन्तमेव भजमान जनान्तरङ्गे नृत्यन्तमाशु गिरिशं परिशीलयामि ॥ ४१॥ एकाम्रमूलनिलयं भजतामनेक जन्मार्जिताघविनिवारणकारणं तत् । तेजः श्रयामि शिवमद्य शिवेतराणां- निर्णोदनैकनिरतं भरितं जगत्याम् ॥ ४२॥ एकाम्रमूलनिलयाय दयालयाय संसारघोर वरुणालयतारणाय ।…

मत्स्यस्तुति

|| मत्स्यस्तुति || मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दौ अन्तर्लीने जलधिसलिले व्याकुले देवलोके । मात्स्यं रूपं मुखपुटतटाकृष्टनिर्मुक्तवार्धि श्रीकान्तस्य स्थलजलगतं वेत्यलक्ष्यं पुनातु ॥ १॥ वियत्पुच्छातुच्छोच्छलितजलगर्भं निधिरपां अपान्नाथः पाथः पृथुललवदुस्थो वियदभूत् । निधिर्भासामौर्वो दिनपतिरभूदौर्वदहनः चलत्काये यस्मिन्स जयति हरिर्मीनवपुषा ॥ २॥ जीयासुः शकुलाकृतेर्भगवतः पुच्छच्छटाच्छोटनात् उद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः । यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटालं वपुः पानाध्मानवशादरोचकरुजां चक्रे चिरायास्पदम् ॥ ३॥ दिश्याद्वः…

पार्वतीकृता ४ शिवस्तुतिः

|| पार्वतीकृता ४ शिवस्तुतिः || (शिवरहस्यान्तर्गते ईशाख्ये) पार्वत्युवाच । प्रभाकरनिशाकरज्वलनलोचनं शङ्करं वतंसितसुधाकरं गरधरं च गङ्गाधरम् । भजामि च मयस्करं वरगुणौधरत्नाकरं यमान्धकहरं हरं फणिगणेशहारं शिवम् ॥ ६१॥ अरुणाभरणं महेश शम्भो शरणं त्वां समुपैमि देव देव । करुणावरुणालयोऽसि शम्भो प्रणमन्तीमभिवीक्ष्य देव पाहि ॥ ६२॥ कुम्भीन्द्रकुम्भस्थितपादपद्मं मत्तेभकृत्त्यम्बरमाशुतोषम् । कुम्भ्यास्यसूनुमथ कुम्भभवादिपूज्यं कुम्भेश्वरं भवभयापहरं प्रपद्ये ॥ ६३॥ केदारेश महेश शङ्कर…

श्रीशिवास्तुतिकदम्बम्

|| श्रीशिवास्तुतिकदम्बम् || कमलानि साम्यमाप्तुं तप्यन्त्यद्यापि कण्ठदघ्नजले यत्पादयोरहर्निशमनिशं नौमि तां राजराजेशीम् ॥ १॥ कमलासखकमलोद्भवकामारिप्रमुखनिर्जरैःसेव्याम् । विमलामतिलघुधिषणां ददतीं नौमि नम्राय कामाक्षीम् ॥ २॥ वलमानकदम्बमालिकां ललनामिन्दुशिखामणेः पराम् । तुलनारहितास्यपङ्कजां कलये चेतसि शैलराट्सुताम् ॥ ३॥ तामरसतुल्यचरणां श्यामपयोवाहकान्तिकचलसिताम् । सामनुतदिव्यचरितां सोमसमास्यां नमामि गिरिबालाम् ॥ ४॥ नयनजितपद्मगर्वे नय नतमेनं महापदवीम् । मतिमति महेशमानिनि मतिमन्मनुजार्च्यमानपदपद्मे ॥ ५॥ नारदमुखमुनिचिन्त्यां नीरदगर्वापहारिकेशततिम् । पारदसमानवर्णां…

सिद्धिलक्ष्मीस्तुति

|| सिद्धि लक्ष्मी स्तुति || आकारब्रह्मरूपेण ओंकारं विष्णुमव्ययम् । सिद्धिलक्ष्मि! परालक्ष्मि! लक्ष्यलक्ष्मि नमोऽस्तु ते ॥ याः श्रीः पद्वने कदम्बशिखरे राजगृहे कुंजरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते । शंखे देवकुले नरेन्द्रभवने गंगातटे गोकुले या श्रीस्तिष्ठति सर्वदा मम गृहे भूयात् सदा निश्चला ॥ या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया । लक्ष्मिर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता…

सुवर्णमुक्तावलीस्तुतिः

|| सुवर्णमुक्तावलीस्तुतिः || अद्वैतमक्षरमनन्तमभक्तलोकै- रज्ञेयतत्त्वमनुमेयमतीन्द्रियज्ञैः । अव्यक्तमर्चयदनुग्रहणात्तरूप- मन्तःपुरं पुररिपोररुणं भजामः ॥ १॥ आताम्रमात्तधनुरङ्कुशपाशबाण- मादर्शनिर्मलकपोलकमायताक्षम् । आनन्दचिन्मयमहः स्तुतमागमान्तै- रार्याख्यमार्तिहरमाशु ममान्तरास्ताम् ॥ २॥ इन्द्रादिदिव्यपददामियतीत्यमेया- मिन्दीवराक्षियुगलीमितिहासवेद्याम् । इन्दुप्रकाशवदनामिभराजयाता- मिष्टार्थदां भगवतीमिह चिन्तयामि ॥ ३॥ ईशित्वमुख्यफलदां जगदीश्वरीं ता- मीशानवामनिलयामियतीदृशीति । ईक्षावतामविषयं महदीहिताङ्घ्रि- मीडे परां सुरगवीमहमीप्सितानाम् ॥ ४॥ उन्निद्रपङ्कजमुखीमुदितारुणाभा- मुद्वृत्तपीवरकुचामुपगीयमानाम् । उच्चैस्तरामुपनिषद्भिरूपासकाना- मुच्चावचेष्टफलहेतुमुमामुपासे ॥ ५॥ ऊरीकृतात्मचरणार्पितचित्तवृत्ति- मूर्धस्थितां निगममौलिभिरूह्यमानाम् । ऊनेतरार्थफलदां परमेश्वरोढा-…

हिमालयराजकृत शैलपुत्रीस्तुतिः

|| हिमालयराजकृत शैलपुत्रीस्तुतिः || हिमालय उवाच । मातस्त्वं कृपयागृहे मम सुता जातासि नित्यापि यद्भाग्यं मे बहुजन्मजन्मजनितं मन्ये महत्पुण्यदम् । दृष्टं रूपमिदं परात्परतरां मूर्तिं भवान्या अपि माहेशीं प्रति दर्शयाशु कृपया विश्वेशि तुभ्यं नमः ॥ १॥ श्रीदेव्युवाच । ददामि चक्षुस्ते दिव्यं पश्य मे रूपमैश्वरम् । छिन्धि हृत्संशयं विद्धि सर्वदेवमयीं पितः ॥ २॥ श्रीमहादेव उवाच । इत्युक्त्वा तं…

श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः

|| श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः || वक्ष्येऽहं नव दुर्गायाः स्वरूपाण्यधुना क्रमात् । प्रथमा वन दुर्गा स्यात् शूलिन्याख्या द्वितीयिका ॥ १॥ तृतीया जातवेदास्तु शान्तिदुर्गा चतुर्थिका । पञ्चमी शबरी दुर्गा ज्वलद् दुर्गा च षष्ठिका ॥ २॥ सप्तमी लवणाभिख्या दीपदुर्गा तथाऽष्टमी । नवमी ह्यासुरी दुर्गा प्रोक्ता एता नवाम्बिकाः ॥ ३॥ पुरा भण्डमहायुद्धे ललिताम्बाऽट्टहासतः । आविर्भूता इमा देव्यः मध्वाद्यसुरभीकराः ॥ ४॥…

नवदुर्गास्तुतिः

|| नवदुर्गास्तुतिः || शैले वसन्ती परमेश्वरस्य प्रिया शिवानी गिरिराजपुत्री । विद्या प्रशस्ता जगदम्बिका सा चाद्या नमस्ते खलु शैलपुत्री ॥ १॥ शङ्खेन्दुकुन्दसङ्काशां कमण्डलुधरां शिवाम् । चाक्षमालाधरां वन्दे ब्रह्मचारिणीमातरम् ॥ २॥ तप्तकाञ्चनवर्णाभां पूर्णचन्द्राननत्रयाम् । चन्द्रघण्टामहं वन्दे क्रूरदृष्टिसमन्विताम् ॥ ३॥ सुराकुम्भधरां रौद्रीमष्टबाहुसमन्विताम् । हरसिद्धामहं वन्दे शत्रुसंहारकारिणीम् ॥ ४॥ पद्मपुष्पधरां गौरीं महासिंहोपरिस्थिताम् । स्वाङ्के स्कन्दधरां वन्दे शर्वाणीं स्कन्दमातरम् ॥…

श्रीचामुण्डा स्तुतिः

|| श्रीचामुण्डा स्तुतिः || जयस्व देवि चामुण्डे जय भूताऽपहारिणि । जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥ विश्वमूर्तियुते शुद्धे विरूपाक्षी त्रिलोचने । भीमरूपे शिवे विद्ये महामाये महोदरे ॥ २॥ मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये । महामारि विचित्राङ्गि गीतनृत्यप्रिये शुभे ॥ ३॥ विकरालि महाकालि कालिके पापहारिणि । पाशहस्ते दण्डहस्ते भीमहस्ते भयानके ॥ ४॥ चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे…

ऋषिकृता कात्यायनीस्तुतिः

|| ऋषिकृता कात्यायनीस्तुतिः || अन्य दुर्गाध्यानानि । ॥ कात्यायनी ॥ कात्यायनी दशभुजा देवी ही महिषासुर मर्दिनी है । प्रथम कल्प में उग्रचण्डा रूप में, द्वितीय कल्प में १६ भुजा भद्रकाली रूप में तथा तृतीय कल्प में कात्यायनी ने दश भुजा रूप धारण करके महिषासुर का वध किया । कात्यायनी मुनि के द्वारा स्तुति करने पर…

दुर्गाचन्द्रकलास्तुतिः

|| दुर्गाचन्द्रकलास्तुतिः|| वेधोहरीश्वरस्तुत्यां विहर्त्रीं विन्ध्यभूधरे । हरप्राणेश्वरीं वन्दे हन्त्रीं विबुधविद्विषाम् ॥ १॥ अभ्यर्थनेन सरसीरुहसम्भवस्य त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् । विश्वेश्वरी विपदपागमने पुरस्तात् माता ममास्तु मधुकैटभयोर्निहन्त्री ॥ २॥ प्राङ्निर्जरेषु निहितैर्निजशक्तिलेशैः एकीभवद्भिरुदिताखिललोकगुप्त्यै । सम्पन्नशस्त्रनिकरा च तदायुधस्थैः माता ममास्तु महिषान्तकरी पुरस्तात् ॥ ३॥ प्रालेयशैलतनया तनुकान्तिसम्पत्- कोशोदिता कुवलयच्छविचारुदेहा । नारायणी नमदभीप्सितकल्पवल्ली सुप्रीतिमावहतु शुम्भनिशुम्भहन्त्री ॥ ४॥ विश्वेश्वरीति महिषान्तकरीति यस्याः नारायणीत्यपि च नामभिरङ्कितानि…

गोकर्ण गणाधिपस्तुती

|| गोकर्ण गणाधिपस्तुती || श्रीमत्परमहंसेत्यादि समस्तबिरुदालङ्कृत श्रीजगद्गुरु सार्वभौम श्रीश्री शिवाभिनव नृसिंह भारती महास्वामिरनुग्रहीता । कुक्षिस्फुरन्नागभीत्या मूषिकः प्रपलायते । इति मत्वा मयूरं किमारूढोऽसि गनाधिप ॥ १॥ मत्कुक्षिसुस्थमखिलजगदिति सर्वान् प्रबोधयितुम् । बृहदुदरतां कृपाब्धे धत्से किम् करिवरास्य त्वम् ॥ २॥ त्वद्दर्शनकृतहासं चन्द्रमसं हन्तुमुद्युक्तम् । त्वामनुनेतुं ताराः कुसुमव्याजेन सेवन्ते ॥ ३॥ यज्जातुर्येण हि लोकानुद्धर्तुमम्बिकानाथः । गोकर्णे स्थितिमकरोल्लोकहितं तं प्रणौमि…

स्वायम्भुवकृता श्रीगणेशस्तुतिः

|| स्वायम्भुवकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ स्वायम्भुव उवाच । नमस्ते गजवक्त्राय हेरम्बाय नमो नमः । ओङ्काराकृतिरूपाय सगुणाय नमो नमः ॥ ४२॥ नैर्गुण्ये गजरूपाय सदा ब्रह्मसुखात्मने । गणेशाय सदा भक्तपोषकाय नमो नमः ॥ ४३॥ नरकुञ्जररूपाय योगाभेदाय ते नमः । चतुर्बाहुधरायैव पुरुषार्थप्रसिद्धये ॥ ४४॥ नानाभोगधरायैवानन्तलीलास्वरूपिणे । विघ्नराजाय देवाय भक्तविघ्नविदारिणे ॥ ४५॥ सत्यासत्यमयायैवाव्यक्तभेदात्मने नमः । स्वानन्दपतये…

ससर्वस्वानन्दकृता श्रीगणेशस्तुतिः

|| ससर्वस्वानन्दकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ससर्वस्वानन्द उवाच । अजं पुराणं परमव्ययं तं निवृत्तिमात्रं ह्यसमाधिसंस्थम् । अयोगरूपं गणनाथमाद्यं नमामि निर्मायिकमप्रमेयम् ॥ २१॥ न जारजं स्वेदजमण्डजं न न चोद्भिदं स्थावरजङ्गमं न । अनादिमध्यान्तममोघरूपं नमामि निर्मायिकमप्रमेयम् ॥ २२॥ न भूस्वरूपं न जलं प्रकाशं न वायुरूपं न खमेव ढुण्ढिम् । न राजसं सत्त्वतमोयुतं न नमामि निर्मायिकमप्रमेयम्…

सर्वेकृता श्रीगणेशस्तुतिः

|| सर्वेकृता श्रीगणेशस्तुतिः || सर्वे ऊचुः । यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेयाद् गुणास्ते । यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ ४४॥ यतश्चाविरासीज्जगत् सर्ववेत्तुस्तथाऽब्जासनो विश्वगो विश्वगोप्ता । तथेन्द्रादयो दैत्यसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥ ४५॥ यतो वह्निभानू भवो भूर्जलं चयतः सागराश्चन्द्रमा व्योम वायुः । यतः स्थावरा जङ्गमा वृक्षसङ्घाः सदा तं…

श्र्योङ्काराकृता श्रीगणेशस्तुतिः

|| श्र्योङ्काराकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ श्र्योङ्कारावूचतुः । नमस्ते गणनाथाय सर्वसिद्धिप्रदायक । सिद्धिबुद्धियुतायैव गणानां पतये नमः ॥ ४९॥ स्वानन्दपतये तुभ्यं कर्तॄणां कर्तृरूपिणे । अनाथाय सनाथानां नमो नाथाय ते नमः ॥ ५०॥ परेशाय परेषां च पालकाय परात्मने । आत्मनाममृतायैव विघ्नेशाय नमो नमः ॥ ५१॥ लम्बोदराय देवाय देवदेवेशरूपिणे । देवेभ्यो देवतां दात्रे गजाननाय ते नमः…

शौनकौर्वौकृता श्रीगणेशस्तुतिः

|| शौनकौर्वौकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ शौनकौर्वौ ऊचतुः । नमस्ते गजवक्त्राय विघ्नेशाय परात्मने । अपाराय महेशाय हेरम्बाय नमो नमः ॥ ३४॥ संसारार्णवताराय मायामोहहराय ते । ब्रह्मेशाय शिवादिभ्यो योगदाय नमो नमः ॥ ३५॥ ज्येष्ठानां ज्येष्ठराजाय सर्वेषां पूज्यमूर्तये । आदिपूज्याय देवाय चान्तःस्थाय नमो नमः ॥ ३६॥ अनादये च सर्वेषां मात्रे पित्रे परात्मने । स्वानन्दवासिने तुभ्यं…

शेषकृता श्रीगणेशस्तुतिः

|| शेषकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ शेष उवाच । गणेशाय नमस्तुभ्यं सिद्धिबुद्धिपते नमः । चिन्तामणे महाविघ्ननाशनाय नमो नमः ॥ ७॥ सर्वादिपूज्यरूपाय सर्वपूज्याय ते नमः । ज्येष्ठराजाय ज्येष्ठानां मात्रे पित्रे नमो नमः ॥ ८॥ विनायकाय सर्वेषां नायकाय नमो नमः । नायकानां प्रचालाय नायकैः सेविताय ते ॥ ९॥ विघ्नेशाय च सर्वेषां पदभ्रंशकराय ते । अभक्तानां…

शिवकृता श्रीगणेशस्तुतिः

|| शिवकृता श्रीगणेशस्तुतिः || शिव उवाच । त्वमेव विश्वेश्वर विश्वरूप ! विश्वं सृजस्यत्सि हि पासि देव ! । शुभाशुभं कर्म निरिक्ष्य तस्य ददासि भोगं विविधं गणेश ! ॥ ५॥ ब्रह्मेङ्गितात्ते जगतीं विधत्ते तद्रक्षणं चैव हरिस्थताऽहम् । (ब्रह्मापि सृष्टि कुरुतेङ्गितात्ते) संहारकारीह चराचरस्य विभागकृत्यं हि गुणत्रयस्य ॥ ६॥ तव प्रसादाद्धरिरब्जजोऽपि शिवश्च शक्तो निजकर्मसिद्ध्यै । त्वया विना वेदविधिर्वृथा…

शनिश्चरकृता श्रीगणेशस्तुतिः

|| शनिश्चरकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ शनिरुवाच । नमस्ते गणनाथाय पुष्टिकान्ताय ते नमः । विश्वम्भराय सर्वादिपूज्याय तु नमो नमः ॥ १४॥ सर्वेषां मातृरूपेण स्थितेयं पुष्टिकारिका । पिता त्वं पुष्टिदाता च सत्तारूपेण संस्थितः ॥ १५॥ क्षमस्वैतं चापराधं मदीयं गणनायक । पुत्रोऽहं ते महाभाग प्रार्थये द्विरदानन ॥ १६॥ किं स्तौमि त्वां च हेरम्ब योगरूपं सनातनम्…

Shri Tulsi Stuti

|| Tulsi Stuti || Tulasi Shri Sakhi Shubhe Pāpahāriṇi Puṇyade Namaste Nāradanute Nārāyaṇa-Manahpriye Manah Prasādajanani Sukhasaubhāgyadāyini Ādhivyādhihare Devi Tulasi Tvaṁ Namāmyaham Yanmūle Sarvatīrthāni Yanmadhye Sarvadevatāḥ Yadagre Sarva Vedāśca Tulasi Tvaṁ Namāmyaham Amr̥tāṁ Sarva Kalyāṇīṁ Shoka Santāpanāśinīm Ādhivyādhiharīṁ Nṝṇāṁ Tulasi Tvaṁ Namrāmyaham Devaiscām Nirmītā Pūrvaṁ Arcitāsi Munīśvaraiḥ Namo Namaste Tulasi Pāpaṁ Hara Haripriye Saubhāgyaṁ Santatiṁ Devi…

शक्रकृता श्रीगणेशस्तुतिः

|| शक्रकृता श्रीगणेशस्तुतिः || शक्र उवाच । भूभारहरणार्थं यो जातः कश्यपनन्दनः । अचिन्त्यो महिमा यस्य किमु वर्ण्यो भवेन्मम ॥ २६॥ निर्गमं देहि देवेश ! कुक्षेरत्यन्तविस्तरात् । अदृष्टपाराद् वर्षाणि द्वादश भ्रमता मया ॥ २७॥ तव कुक्षौ मयाऽदर्शि भुवनानि चतुर्दश । स्थाने स्थाने विभक्तानि प्रतिरोमाञ्चमेकराट् ॥ २८॥ समष्टिव्यष्टिरूपाणि महाविस्तारवन्ति च । दृष्टानि तव रूपाणि सुसौम्यानीतराणि च ॥…

शक्तिकृता श्रीगणेशस्तुतिः

|| शक्तिकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ शक्तिरुवाच । विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ४५॥ गणेशाय गणानां वै पालकाय परात्मने । गुणरूपाय सर्वत्र संस्थिताय नमो नमः ॥ ४६॥ अमेयशक्तये चैवामेयमायाप्रचालक । मायाहीनस्वरूपाय मायिभ्यो मोहदायिने ॥ ४७॥ ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणस्पतये नमः । ब्रह्मणे ब्रह्मरूपाय हेरम्बाय नमो नमः ॥ ४८॥…

वृन्दाकृता श्रीगणेशस्तुतिः

|| वृन्दाकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ वृन्दोवाच । नमस्ते विघ्नराजाय भक्तविघ्नहराय च । अभक्तेभ्यो विशेषेण विघ्नदाय नमो नमः ॥ ५॥ परेशाय पराणां ते परात्परतराय च । भक्तेशाय सदा भक्तिप्रियाय ते नमो नमः ॥ ६॥ ब्रह्मेशाय गणाधीश ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणां पतये तुभ्यं गणाधिपतये नमः ॥ ७॥ अमेयायाप्रतर्क्याय सदा स्वानन्दवासिने । शिवविष्णुमुखेभ्यश्च पददात्रे नमो…

वामनकृता श्रीगणेशस्तुतिः

|| वामनकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ वामन उवाच । नमो विघ्नपते तुभ्यं भक्तविघ्नविनाशिने । अभक्तविघ्नादात्रे च गणेशाय नमो नमः ॥ ३५॥ वक्रतुण्डाय सर्वेश पालकाय नमो नमः । नानारूपधरायैव सर्वान्तर्यामिणे नमः ॥ ३६॥ सर्वं चराचरं स्वामिंस्त्वदाज्ञा वशवर्ति च । विभूतिभिर्महाराज कुरुषे सर्वमञ्जसा ॥ ३७॥ ब्रह्मा प्रजापतीनां त्वं यज्ञानां विष्णुरेव च । ईश्वराणां स्वयं शम्भुर्देवानां…

वामदेवकृता श्रीगणेशस्तुतिः

|| वामदेवकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ वामदेव उवाच । गणेशाय नमस्तुभ्यं सदा स्वानन्दवासिने । सिद्धिबुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥ ५४॥ मूषकारूढ हेरम्ब भक्तवाञ्छाप्रपूरक । ढुण्ढिराजाय ते देव रक्ष मां ते नमो नमः ॥ ५५॥ आदिमध्यान्तहीनाय लम्बोदर नमोऽस्तु ते । आदिमध्यान्तरूपाय शङ्करप्रियसूनवे ॥ ५६॥ नानामायाधरायैव मायिभ्यो मोहदायिने । मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः…

वसिष्ठकृता श्रीगणेशस्तुतिः

|| वसिष्ठकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ वसिष्ठ उवाच । अद्येयं धरणी धन्या पितरौ तप आश्रमः । विद्याव्रतादि मे धन्यं दर्शनात्ते पदस्य च ॥ २॥ त्वं कर्ता कारणं चैव कारणानां न संशयः । गम्यागम्यमयः प्रोक्तो वेदे वै वेदवादिभिः ॥ ३॥ सर्वरूपश्च सर्वैस्त्वं हीनः सर्वप्रकाशकः । योगाभेदमयस्त्वं त्वां कथं स्तौमि गणाधिप ॥ ४॥ तथाऽपि भक्तिपाशेन…

रेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः

|| रेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ रेणुकाजमदग्नी उचतुः । नमस्ते विघ्नपालाय भक्तानां विघ्नहारिणे । विघ्नकर्त्रे ह्यभक्तानां ब्रह्मभूताय ते नमः ॥ ६॥ अनादये त्वनाधार वक्रतुण्डस्वरूपिणे । गणेशान अनन्तानां गणानां पतये नमः ॥ ७॥ नानाशक्तियुतायैव नानाभेदकराय ते । नानाभेदविहीनाय हेरम्बाय नमो नमः ॥ ८॥ अमेयमायया चैव खेलकाय च ढुण्ढये । सिद्धिबुद्धिसहायाय सिद्धिबुद्धिवराय च ॥ ९॥…

यमकृता श्रीगणेशस्तुतिः

|| यमकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ यम उवाच । नमो गणपते तुभ्यं नानामायाविलासिने । मायाधारकवेषेण स्थिताय तु नमो नमः ॥ २२॥ मायामोहविहीनाय साक्षिणे जगदादये । ब्रह्मादये ब्रह्मविदे ब्रह्मणे वै नमो नमः ॥ २३॥ अनन्ताय नमस्तुभ्यं हेरम्बाय च ढुण्ढये । विघ्नेशाय त्रिनेत्राय लम्बोदर नमोऽस्तु ते ॥ २४॥ गजाननाय देवाय देवानां पतये नमः । देवानां…

गणेशस्तुतिः मुद्गलकृता

|| गणेशस्तुतिः मुद्गलकृता || श्रीगणेशाय नमः । शौनक उवाच । कथं स्तुतिः कृता तेन गणेशस्य महात्मनः । तां मे वद महाभाग सर्वज्ञोऽसि मतो बुधैः ॥ १॥ सूत उवाच । भवते कथयिष्यामि भावयुक्तेन चेतसा । स्तुतिं कृतां गणेशस्य मुद्गलेन च तां मुने ॥ २॥ मुद्गल उवाच । किं स्तौमि त्वां गणाध्यक्ष वेदैः स्तोतुं न शक्यते ।…

ममासुरकृता श्रीगणेशस्तुतिः

|| ममासुरकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ममासुर उवाच । नमस्ते गणनाथाय गणानां पतये नमः । गणपदप्रदात्रे ते गणरूपप्रधारिणे ॥ ४३॥ विघ्नानां पतये तुभ्यं विघ्नानां विघ्नरूपिणे । भक्तानां विघ्नहन्त्रे ते इतरेषां प्रहारिणे ॥ ४४॥ अनाथानां प्रणानाथ नाथाय नाथदायिने । नाथानां नाथरूपायानाथाय तु नमो नमः ॥ ४५॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणे ब्राह्मणानां…

श्रीगणेशस्तुतिः मङ्गलाचरणम्

|| श्रीगणेशस्तुतिः मङ्गलाचरणम् || ॥ श्रीगणेशाय नमः ॥ गणाधिपं तं गुण ग्रामवारिधिं शैलेन्द्रकन्यात्मजवाञ्छिप्रदम् । अशेषनिर्विघ्नकरं सुमङ्गलं नमामिविघ्नेश्वर पादपङ्कजम् ॥ १॥ गजाकृतिन्तं गणनाथमेकं शैलेन्द्रजायात्म समुद्भवञ्च । विद्याप्रदं बुद्धिप्रदञ्चलोकान् विघ्नेश्वरं विघ्नहरं नमामि ॥ २॥ चतुर्भुजं सुन्दरमेकदन्तं शङ्खाङ्कुशं मोदकमेक हस्तम् । वक्षायतं तुङ्गमहोदरं शुभं नमामिनित्यं गणनायकं विभुम् ॥ ३॥ पार्वती तनयं देवं कोटि सूर्य सम प्रभाम् । निर्विघ्नं…

भौमकृता श्रीगणेशस्तुतिः

|| भौमकृता श्रीगणेशस्तुतिः || (अङ्गारक चतुर्थी व्रतस्तोत्रम्) भौम उवाच । नमस्ते विघ्ननाशाय नमस्ते विघ्नकारिणे । सुरासुराणामीशाय सर्वशक्त्युपबृंहिणे ॥ २२॥ निरामयाय नित्याय निर्गुणाय गुणच्छिदे । नमो ब्रह्मविदां श्रेष्ठ ! स्थितिसंहारकारिणे ॥ २३॥ नमस्ते जगदाधार ! नमस्त्रैलोक्यपालक ! । ब्रह्मादये ब्रह्मविदे ब्रह्मणे ब्रह्मरूपिणे ॥ २४॥ लक्ष्यालक्ष्यस्वरूपाय दुर्लक्षणभिदे नमः । नमः श्रीगणनाथाय परेशाय नमो नमः । इति स्तुतः…

भानुकृता श्रीगणेशस्तुतिः

|| भानुकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ भानुरुवाच । नमस्ते विघ्ननाथाय विघ्नकर्त्रे दुरात्मनाम् । भक्तानां विघ्नहर्त्रे ते गणेशाय नमो नमः ॥ ४८॥ चतुर्बाहुधरायैव मूषकवाहनाय ते । नागयज्ञोपवीताय नाभिशेषाय ते नमः ॥ ४९॥ महोदराय देवाय सिद्धिबुद्धियुताय ते । शूर्पकर्णाय सर्वाय चैकदन्ताय वै नमः ॥ ५०॥ गजवक्त्रधरायैव भालचन्द्राय ते नमः । चिन्तामणिधरायैव हृदये ते नमो नमः…

ब्रह्माद्याकृता श्रीगणेशस्तुतिः

|| ब्रह्माद्याकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ब्रह्माद्या ऊचुः । नमस्ते गणनाथाय विघ्नानां पतये नमः । अनाथानां सुनाथाय नमो विघ्ननिवारण ॥ २४॥ भक्तेभ्यः सर्वदात्रे ते निराकाराय साक्षिणे । अमेयायाप्रतर्क्याय हेरम्बाय नमो नमः ॥ २५॥ गजाननाय देवाय शूर्पकर्णाय ते नमः । महोदराय सर्वेषामादिपूज्याय वै नमः ॥ २६॥ सर्वादये महादात्रे सर्वपूज्याय वै नमः । सर्वभावस्थितायैव ढुण्ढिराजाय…

ब्रह्माद्यर्षिगणाकृता श्रीगणेशस्तुतिः

|| ब्रह्माद्यर्षिगणाकृता श्रीगणेशस्तुतिः || भृगुरुवाच । नमो नमस्तेऽखिल लोकनाथ ! नमो नमस्तेऽखिललोकधामन् । नमो नमस्तेऽखिललोककारिन् ! नमो नमस्तेऽखिललोकहारिन् ॥ १०॥ नमो नमस्ते सुरशत्रुनाश ! नमो नमस्ते हृतभक्तपोष ! । नमो नमस्ते निजभक्तिपोष ! नमो नमस्ते लघुभक्तितोष ! ॥ ११॥ निराकृते ! नित्यनिरस्तमाय ! परात्परब्रह्ममयस्वरूप ! । क्षराक्षरातीत गुणैर्विहीन ! दीनानुकम्पिन् ! भगवन् ! नमस्ते ॥…

Join WhatsApp Channel Download App