नवग्रह पीड़ाहर स्तोत्रम्
॥ नवग्रहपीडाहर स्तोत्रम् ॥ ग्रहाणामादिरादित्यो लोकरक्षणकारकः । विषमस्थानसंभूतां पीडां हरतु मे रविः ॥ रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः । विषमस्थानसंभूतां पीडां हरतु मे विधुः ॥ भूमिपुत्रो महातेजा जगतां भयकृत् सदा । वृष्टिकृद्वृष्टिहर्ता च पीडां हरतु मे कुजः ॥ उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः । सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः ॥ देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।…