शास्तासूक्तम्
|| शास्तासूक्तम् || धा॒ता वि॑धा॒ता प॑र॒मोतसं॒दृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚ । स्तोमा॒श्छंदा॑ꣳसि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सं न॑माम ॥ अ॒भ्याव॑र्तध्व॒मुप॒ मेत॑ सा॒कम॒यꣳ शा॒स्ताऽधि॑पतिर्वो अस्तु । अ॒स्य वि॒ज्ञान॒मनु॒ सꣳर॑भध्वमि॒मं प॒श्चादनु॑ जीवाथ॒ सर्वे᳚॥ भूत॑ना॒थाय॑ वि॒द्महे॑ भव॑पु॒त्राय॑ धीमही । तन्नः॑ शास्ता प्र॒चो॑द॒या᳚त् । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ तैत्तिरीय-संहिता ॥ ५। ७। ४॥ धाता विधाता परमोतसंदृक् प्रजापतिः परमेष्ठी विराजा…