श्रीगणेशद्वादशनामस्तोत्रम् नामावलीसहितम्
|| श्रीगणेशद्वादशनामस्तोत्रम् नामावलीसहितम् || ब्रह्मोवाच । सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ ३६॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ ३७॥ विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ३८॥ शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ३९॥ कोटिकन्याप्रदानानि कोटियज्ञं व्रतानि च…