आपदुन्मूलन दुर्गा स्तोत्र
|| आपदुन्मूलन दुर्गा स्तोत्र || लक्ष्मीशे योगनिद्रां प्रभजति भुजगाधीशतल्पे सदर्पा- वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च। दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतामाशु तौ नाशयन्तीं दुर्गां देवीं प्रपद्ये शरणमहमशेषा- पदुन्मूलनाय। युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलं यस्तदीयेषु धिष्ण्ये- ष्वास्थाप्य स्वान् विधेयान् स्वयमगमदसौ शक्रतां विक्रमेण। तं सामात्याप्तमित्रं महिषमभिनिहत्या- स्यमूर्धाधिरूढां दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय। विश्वोत्पत्तिप्रणाश- स्थितिविहृतिपरे देवि घोरामरारि- त्रासात् त्रातुं कुलं नः…



