श्रीसूक्त सार लक्ष्मी स्तोत्र
|| श्रीसूक्त सार लक्ष्मी स्तोत्र || हिरण्यवर्णां हिमरौप्यहारां चन्द्रां त्वदीयां च हिरण्यरूपाम्। लक्ष्मीं मृगीरूपधरां श्रियं त्वं मदर्थमाकारय जातवेदः। यस्यां सुलक्ष्म्यामहमागतायां हिरण्यगोऽश्वात्मजमित्रदासान्। लभेयमाशु ह्यनपायिनीं तां मदर्थमाकारय जातवेदः। प्रत्याह्वये तामहमश्वपूर्वां देवीं श्रियं मध्यरथां समीपम्। प्रबोधिनीं हस्तिसुबृंहितेनाहूता मया सा किल सेवतां माम्। कांसोस्मितां तामिहद्मवर्णामाद्रां सुवर्णावरणां ज्वलन्तीम्। तृप्तां हि भक्तानथ तर्पयन्तीमुपह्वयेऽहं कमलासनस्थाम्। लोके ज्वलन्तीं यशसा प्रभासां चन्द्रामुदामुत देवजुष्टाम्। तां…



