सरस्वती नदी स्तोत्र
|| सरस्वती नदी स्तोत्र || वाग्वादिनी पापहरासि भेदचोद्यादिकं मद्धर दिव्यमूर्ते। सुशर्मदे वन्द्यपदेऽस्तुवित्तादयाचतेऽहो मयि पुण्यपुण्यकीर्ते। देव्यै नमः कालजितेऽस्तु मात्रेऽयि सर्वभाऽस्यखिलार्थदे त्वम्। वासोऽत्र ते नः स्थितये शिवाया त्रीशस्य पूर्णस्य कलासि सा त्वम्। नन्दप्रदे सत्यसुतेऽभवा या सूक्ष्मां धियं सम्प्रति मे विधेहि। दयस्व सारस्वजलाधिसेवि- नृलोकपेरम्मयि सन्निधेहि। सत्यं सरस्वत्यसि मोक्षसद्म तारिण्यसि स्वस्य जनस्य भर्म। रम्यं हि ते तीरमिदं शिवाहे नाङ्गीकरोतीह…



