श्री गदाधर स्तोत्रम् (वराह पुराणे)
|| श्री गदाधर स्तोत्रम् (वराह पुराणे) || रैभ्य उवाच । गदाधरं विबुधजनैरभिष्टुतं धृतक्षमं क्षुधित जनार्तिनाशनम् । शिवं विशालाऽसुरसैन्यमर्दनं नमाम्यहं हतसकलाऽशुभं स्मृतौ ॥ १ ॥ पुराणपूर्वं पुरुषं पुरुष्टुतं पुरातनं विमलमलं नृणां गतिम् ।a त्रिविक्रमं हृतधरणिं बलोर्जितं गदाधरं रहसि नमामि केशवम् ॥ २ ॥ विशुद्धभावं विभवैरुपावृतं श्रियावृतं विगतमलं विचक्षणम् । क्षितीश्वरैरपगतकिल्बिषैः स्तुतं गदाधरं प्रणमति यः सुखं वसेत्…