अभयाष्टकम् PDF संस्कृत
Download PDF of Abhayashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
अभयाष्टकम् संस्कृत Lyrics
|| अभयाष्टकम् ||
भो ब्रह्मन् रमणेश ! तावकपदाम्भोजद्वये साम्प्रतं
विज्ञाप्यं रहसीदमेकमधुना श्रोतव्यमित्यर्थये ।
अज्ञातं भुवि नाणुमात्रमपि ते सर्वज्ञचूडामणे-
र्वक्तव्यं त्वननूदितं ननु नृणां मर्माणि निष्कृन्तति ॥ १॥
भीत्या त्वत्पदपङ्कजे श्रितवतां क्लेशप्रहाणैषिणा-
मत्रत्यैरुपचीयमानमनिशं प्रच्छन्नविद्वेषिभिः ।
दुर्वारप्रसरं भयं रमण ! नः क्षोभप्रदं चेतसः
स्वामिन्नाशयमूलतोऽथ वदवाऽभीतिप्रतिज्ञावचः ॥ २॥
संसाराह्वयनाटकस्य च भवान् सत्सूत्रधारायित-
स्स्वामिन् मृत्युभिया मृकण्डुसुतवद्भर्गाकृतिं तावकीम् ।
मूर्तिं भव्यधियो वयं शरणमित्याश्रित्य सेवामहे
किं वास्मास्वपि ते विहीनकरुणं युक्तं भयोत्पादनम् ॥ ३॥
वेदान्ते क्वचिदाश्रुतं भगवतो भीतिप्रदत्वन्तु य-
त्तन्माया परिकल्पितार्थविषयं तत्त्वार्थतां नाश्नुते ।
नोचेद्धन्त ! विजानतां तव कृपालेशाद्विमुक्तात्मनां
नूनं नैव घटेत भीतिरहितावस्थत्वमव्याहतम् ॥ ४॥
मायाकल्पितनामरूपकलना यावन्नृणां वर्तते
तावत्तान्समुपैति भीतिरिति हि प्रोवाच वाग्वैदिकी ।
अद्वैते परिनिष्ठितस्य महसि स्वे ते गतान्दृक्पथं
द्वैतान्नः कथमेतु भीतिरथवा ताः किन्निरर्था गिरः ॥ ५॥
कल्याणानि तनोतु कोऽपि गुरुराट् कैवल्यदानव्रती
व्यापन्नाभयसत्रदीक्षित इति ख्यातः कृपालुः क्षमी ।
सर्वानर्थनिदानमोहकलिलोद्भूतं भयं मानसं
किञ्च श्रीरमणः प्रमार्ष्टु भगवानित्येव नः प्रार्थना ॥ ६॥
रमणभगवत्पादम्भोजे सदा रमतां मनो
रमणभगवद्वक्त्राम्भोजे मनः पिबतान्मधु ।
रमणभगवन्मूर्तिं दिव्यां मुहुस्स्मरतान्मनो
रमणभगवत्पादाचार्यो ममास्तु परायणम् ॥ ७॥
शोणाद्रीश्वरसञ्चराय यमिने मायागृहीतात्मने
स्वात्मस्थाय कृपारसार्द्रमनसे शान्ताय सन्यासिने ।
मग्नानां भवसागरे भुवि नृणामानन्दमुत्सर्जते
तस्मै श्रीरमणाय बोधगुरवे तन्म स्त्रिसन्ध्यं नमः ॥ ८॥
ध्यायेत् पद्मासनस्थं प्रमुदितवदनं दक्षिणामूर्तिरूपं
कौपीनालङ्कृताङ्गं हृदि किमपि महस्सन्ततं चिन्तयन्तम् ।
भासा स्वेनैव भान्तं गुरुकरुणदृशं साधुसंसेविताङ्घ्रिं
सर्वश्रेयोवदान्यं रमणमुनिवरं शोणशैलेशरूपम् ॥ ९॥
कृषीष्ट भगवानिष्टं पठतामभयाष्टकम् ।
विष्टभ्य भुवनं कृत्स्नं य ईष्टे रमणो गुरुः ॥ १०॥
इति अभयाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअभयाष्टकम्
READ
अभयाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
