श्रीअगस्त्येशलिङ्गाष्टकम् PDF संस्कृत
Download PDF of Agastyeshalingashtakam Sanskrit
Shiva ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीअगस्त्येशलिङ्गाष्टकम् संस्कृत Lyrics
|| श्रीअगस्त्येशलिङ्गाष्टकम् ||
श्रीमत्पर्वतपुत्रिकाश्रितलसद्वामाङ्गमिन्दूज्ज्वल
त्कोटीरं कनकाद्रिकार्मुकधरं कल्पद्रुमालावली
सक्तोरःस्थलमन्तकान्तकमनन्ताहीन्द्रसद्भूषणं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ १॥
भक्ताभीष्टफलप्रदं भवहरं पापौघविच्छेदनं
शक्राद्यष्टदिगीशसन्नुतपदं शुम्भद्गणाधीश्वरम् ।
गङ्गोत्तुङ्गतरङ्गिणीयुतजटाजूटं मुनीन्द्रार्चितं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ २॥
मार्कण्डेयमुनीन्द्ररक्षणमजं मृत्युञ्जयं शाश्वतं
मत्तामर्त्यविरोधिगर्वनगरीदम्भोलिधारायितम् ।
वित्ताधीशसखं वियत्तललसत्केशं त्रिलोकेश्वरं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ३॥
भूम्यापोऽग्निसमीरणा(प्रभञ्जना)म्बरलसत्सोमार्कयज्वा(स्वात्मा)भिधै-
रष्टैरिष्टवरप्रदानचतुरैः स्पष्टैः स्वरूपैः सदा ।
भास्वन्तं जगतीतले गजहरं कर्पूरगौरं शिवं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ४॥
सूर्याग्नीन्दुविलोचनं सुरवरं फालाग्निभस्मीकृत
प्रद्युम्नं परमेश्वरं गुरुवरं कालाग्निरुद्रं हरम् ।
कण्ठाकल्पविलासभासुरमहाहालाहलं शङ्करं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ५॥
श्रीमद्भूमिरथं विरिञ्चिविलसत्सूतं नगाधीशस
च्चापं विष्णुशरं रथाङ्गयुगलीभूतार्कचन्द्रं शिवम् ।
पूर्वामर्त्यपुरत्रयान्तकरणोद्युक्तं शिवालिङ्गितं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ६॥
दक्षाक्षुद्रमखागतामरगणान् तत्रत्यऋत्विग्वरान्
चन्द्रं तच्छ्वशुरं भगं मुनिगणानग्निं च दक्षं लसत् ।
स्वेदोद्भूतविनीलदेहरुचिना वीरेण सन्त्रासितं(त्रासकं)
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ७॥
श्रीलक्ष्मीशविरिञ्चिपूजितपदं शुम्भत्त्रिशूलायुधं
श्रीमद्भृङ्गिकुमारनन्दिगणपश्रीवीरभद्रादिभिः ।
सर्वैर्भक्तियुतैर्महागणवरैः संसेव्यमानं सदा
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ८॥
श्रीकोप्पराजकुलवार्धिनिशाकरेण
स्तोत्रं कृतं जगति सुब्बयनामभाजा
गस्त्येश्वरस्य निजभक्तजनावनस्य
यो वै पठेल्लभति सोऽपि सदा विमुक्तिम् ॥ ९॥
॥ इति श्रीअगस्त्येशलिङ्गाष्टकं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीअगस्त्येशलिङ्गाष्टकम्
READ
श्रीअगस्त्येशलिङ्गाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
