अग्नेः अष्टोत्तरशतनामस्तोत्रम् PDF संस्कृत
Download PDF of Agnyashtottarashatanamastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
अग्नेः अष्टोत्तरशतनामस्तोत्रम् संस्कृत Lyrics
|| अग्नेः अष्टोत्तरशतनामस्तोत्रम् ||
ॐ श्रीगणेशाय नमः ।
अथ अग्नेः अष्टोत्तरशतनामस्तोत्रम् ।
अकारदिक्रमेण
अजोऽजरोऽजिरोऽजुर्योऽतन्द्रोऽग्निरद्भुतक्रतुः ।
अङ्कूयन्नङ्गिरा अर्वन्नुञ्जानः सप्तहोतृभिः ॥ १॥
आशृण्वन्नाशुहेमोऽप्य आसन्नासुर आहुतः ।
आदित्य आपिराबाध आकूतिराघृणीवसुः ॥ २॥
इधान इद्ध इन्धानो दधत्सहस्रिणीरिषः ।
ईड्य ईळेन्य ईशान ईषयन्निळ ईळितः ॥ ३॥
उक्थ्य उक्षन्नुक्षमाण उक्षान्नो दिवमुत्पतन् ।
ऊर्जःपुत्र ऊर्जसन ऊर्ध्व ऊर्जोनपादूशन् ॥ ४॥
ऋजूयमानः पृथिवीमुतद्यामृत ऋत्वियः ।
ऋतप्रवीत ऋतचिदृतावदृन्ध ऋग्मियः ॥ ५॥
ऋषूणां पुत्र ऋषिकृदृतवृधृतुपा ऋभुः ।
ऋषीणां पुत्र ऋषभ ऋभ्व ऋतुपतिरृषिः ॥ ६॥ ऋतुपाति
ओषधीनां गर्भ एक ओजिष्ठश्चर्षणीसदाम् ।
ककुत्ककुद्मान्क्रतुवित् कृष्णयामः कनिक्रदत् ॥ ७॥
कण्वतमः कण्वसखः केवलः कृष्णवर्तनिः ।
कपिः कविः कवितमः कविशस्तः कविक्रतुः ॥ ८॥
कविप्रशस्तः कृष्णाध्वा क्रव्यादः क्रव्यवाहनः ।
क्षत्राणि धारयन् क्षत्रः क्षपावान् क्षत्रभृत् क्षयः ॥ ९॥
गणश्रीश्चरथां गर्भोऽपां गर्भो गातुवित्तमः ।
बह्वीनामपसां गर्भस्थातां गर्भो गुहाहितः ॥ १०॥
गृत्सो गृहपतिर्गृध्नुर्गोपा घोरश्चनोहितः ।
जातवेदास्तपुर्मूर्धा दीर्घतन्तुर्धृतव्रतः ॥ ११॥
बृहद्भानुर्मधुवचा यज्ञो रण्वो वनस्पतिः ।
देवानामवगम्याग्नेः नाम्नामष्टोत्तरं शतम् ॥ १२॥
॥ अग्नेः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअग्नेः अष्टोत्तरशतनामस्तोत्रम्
READ
अग्नेः अष्टोत्तरशतनामस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
