श्रीऐरावतेश्वराष्टोत्तरशतनामवालिः PDF संस्कृत
Download PDF of Airavateshvarashtottarashatanamavali Sanskrit
Misc ✦ Ashtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह) ✦ संस्कृत
श्रीऐरावतेश्वराष्टोत्तरशतनामवालिः संस्कृत Lyrics
|| श्रीऐरावतेश्वराष्टोत्तरशतनामवालिः ||
ॐ श्रीगणेशाय नमः ।
ॐ गौरीप्राणवल्लभाय नमः ।
ॐ देव्यै कथितचरिताय नमः ।
ॐ हालाहलगृहीताय नमः ।
ॐ लोकशङ्कराय नमः ।
ॐ कावेरीतीरवासिने नमः ।
ॐ ब्रह्मणा सुपूजिताय नमः ।
ॐ ब्रह्मणो वरदायिने नमः ।
ॐ ब्रह्मकुण्डपुरस्थिताय नमः ।
ॐ ब्रह्मणा स्तुताय नमः ।
ॐ कैलासनाथाय नमः ।
ॐ दिशां पतये नमः ।
ॐ सृष्टिस्थितिविनाशानां कर्त्रे नमः ।
ॐ गङ्गाधराय नमः ।
ॐ सोमाय नमः ।
ॐ रुद्राय नमः ।
ॐ अमिततेजसे नमः ।
ॐ पशूनां पतये नमः ।
ॐ पार्वतीपतये नमः ।
ॐ अन्तकारये नमः ।
ॐ नागाजिनधराय नमः । २०
ॐ पुरुषाय नमः ।
ॐ महेशाय नमः ।
ॐ पुष्टानां पतये नमः ।
ॐ साम्बाय नमः ।
ॐ गुरवे नमः ।
ॐ कैवल्यपददायिने नमः ।
ॐ भवाय नमः ।
ॐ शर्वाय नमः ।
ॐ सदसस्पतये नमः ।
ॐ शम्भवे नमः ।
ॐ गिरिशन्ताय नमः ।
ॐ नीलग्रीवाय नमः ।
ॐ कपर्दिने नमः ।
ॐ वरिष्ठाय नमः ।
ॐ महीयसे नमः ।
ॐ विश्वम्भराय नमः ।
ॐ विश्वाय नमः ।
ॐ जगतां पतये नमः ।
ॐ सच्चिदानन्दरूपाय नमः ।
ॐ समस्तव्यस्तरूपिणे नमः । ४०
ॐ सोमविभूषाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ समस्तमुनिवन्द्याय नमः ।
ॐ देवदेवाय नमः ।
ॐ महादेवाय नमः ।
ॐ भर्गाय नमः ।
ॐ मायातीताय नमः ।
ॐ कर्पूरधवलाङ्गाय नमः ।
ॐ मेरुकोदण्डधारिणे नमः ।
ॐ कुबेरबन्धवे नमः ।
ॐ कुमारजनकाय नमः ।
ॐ भूतिभूषितगात्राय नमः ।
ॐ त्रिनेत्राय नमः ।
ॐ भवरोगविनाशाय नमः ।
ॐ भक्ताभीष्टप्रदायिने नमः ।
ॐ पञ्चास्याय नमः ।
ॐ इन्द्रदोषनिवृत्तिदाय नमः ।
ॐ इन्द्रेण अमृताभिषिक्ताय नमः ।
ॐ सुधाकूपजलाभिषिक्ताय नमः ।
ॐ रम्भया सुपूजिताय नमः । ६०
ॐ रम्भालिङ्गितगात्राय नमः ।
ॐ इन्द्रेण स्तुताय नमः ।
ॐ कारणकारणाय नमः ।
ॐ पिनाकपाणये नमः ।
ॐ देवेशाय नमः ।
ॐ गिरीन्द्रशायिने नमः ।
ॐ अनन्तमूर्तये नमः ।
ॐ शिवया समेताय नमः ।
ॐ प्रपञ्चविस्तारविशेषशून्याय नमः ।
ॐ त्रयीमयेशाय नमः ।
ॐ सर्वप्रधानाय नमः ।
ॐ सतां मताय नमः ।
ॐ मृत्युञ्जयाय नमः ।
ॐ त्रिपुरान्तकाय नमः ।
ॐ जटाभारविभूषिताय नमः ।
ॐ अखिललोकसाक्षिणे नमः ।
ॐ सुसूक्ष्मरूपाय नमः ।
ॐ दिगम्बराय नमः ।
ॐ शूलपाणये नमः ।
ॐ सुरवन्दिताय नमः । ८०
ॐ विष्णुसुपूजिताय नमः ।
ॐ अखिललोकवन्द्याय नमः ।
ॐ कल्याणरूपाय नमः ।
ॐ सदाशिवाय नमः ।
ॐ सर्वज्ञमूर्तये नमः ।
ॐ सकलागमाय नमः ।
ॐ भीमाय नमः ।
ॐ नित्याय नमः ।
ॐ कृपालवे नमः ।
ॐ भक्तपरायणाय नमः ।
ॐ समस्तार्तिहराय नमः ।
ॐ रम्भाशापविमोचकाय नमः ।
ॐ ऐरावतदोषनिवृत्तिकराय नमः ।
ॐ गजोत्तमवरदायिने नमः ।
ॐ पञ्चमुनिभिः प्रशस्तवैभवाय नमः ।
ॐ पञ्चमूर्तिस्वरूपाय नमः ।
ॐ पञ्चामृताभिषेकसुप्रीताय नमः ।
ॐ पञ्चपुष्पसुपूजिताय नमः ।
ॐ पञ्चाक्षरजपसिद्धिप्रदायकाय नमः ।
ॐ पञ्चपातकनाशकाय नमः । १००
ॐ भक्तरक्षणदीक्षिताय नमः ।
ॐ दर्शनादेव भुक्तिमुक्तिदाय नमः ।
ॐ पञ्चानाम्ना प्रसिद्धवैभवाय नमः ।
ॐ पारिजातवनेशाय नमः ।
ॐ ब्रह्मेशाय नमः ।
ॐ इन्द्रपुरीशाय नमः ।
ॐ पुष्पवनेशाय नमः ।
ॐ श्रीअलङ्कारवल्लीसमेत श्रीऐरावतेश्वराय नमः । १०८
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीऐरावतेश्वराष्टोत्तरशतनामवालिः
READ
श्रीऐरावतेश्वराष्टोत्तरशतनामवालिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
