अक्षरादिदेवकृता श्रीहरिस्तुतिः PDF संस्कृत
Download PDF of Aksharadidevakrritashriharistutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
अक्षरादिदेवकृता श्रीहरिस्तुतिः संस्कृत Lyrics
|| अक्षरादिदेवकृता श्रीहरिस्तुतिः ||
सत्यप्रतिज्ञमविकारिणमादिदेवं
गूढाशयं भयहरं विमलं परात्मन् ।
सच्चित्सुखं त्वभयदं परतः परञ्च
त्वां धर्मदेवतनयं वयमानमामः ॥ १॥
जन्मादि चास्य जगतो भवतो यतो वै
वेदैः सदाऽपरिमितादिगुणैर्विगीतम् ।
ध्यातं सदा मुनिवरैश्च समाधिनिष्ठे-
स्त्वां धर्मदेवतनयं वयमानमामः ॥ २॥
सत्यव्रतं परमसत्यमचिन्त्यमाद्यं
सत्यस्य योनिमथ सत्यपराक्रमञ्च ।
सत्यात्मकं त्रियुगसत्यपदं पुराणं
त्वां धर्मदेवतनयं वयमानमामः ॥ ३॥
प्राकट्यमेतदिह नाथ वसुन्धरायां
नैवास्ति कर्मवशतस्तव सर्वयन्तुः ।
किन्तु स्वभक्तहितशर्मसुमङ्गलार्थं
त्वां धर्मदेवतनयं वयमानमामः ॥ ४॥
सर्वर्द्धिसद्गुणनिधे करुणैकसिन्धो
नैकाण्डनाथ परिशासक ईश्वरेश ।
भक्तप्रियं सुखकरं तव दासदासा
स्त्वां धर्मदेवतनयं वयमानमामः ॥ ५॥
वृद्धिं गतं बहुतरां भुवि चाप्यधर्मं
दृष्ट्वा विभोऽनुयुगमत्र कृपानिधे त्वम् ।
नाशाय तस्य नु बिभर्षि किलावताराँ-
स्त्वां धर्मदेवतनयं वयमानमामः ॥ ६॥
साक्षाद् विलोक्य परमं पुरुषोत्तमं त्वां
जाता वयं हि भगवन्नितरां कृतार्थाः ।
धन्याश्च मोदमधिगा भृशमेव सर्वे
त्वां धर्मदेवतनयं वयमानमामः ॥ ७॥
त्वां स्तोतुमन्तपरिहीनमगम्यरूपं
शक्ता वयं न पुरुदिव्यविभूतिधामन् ।
यस्मात्तवाङ्घ्रिकमले धृतमानसा हि
त्वां धर्मदेवतनयं वयमानमामः ॥ ८॥
इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे प्रथमप्रवाहे
षष्ठे तरङ्गे-अक्षरादिदेवकृता श्रीहरिस्तुतिः सम्पूर्णा ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअक्षरादिदेवकृता श्रीहरिस्तुतिः
READ
अक्षरादिदेवकृता श्रीहरिस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
