आमन्त्रणोत्सवस्तोत्रम् PDF संस्कृत
Download PDF of Amantranotsavastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
आमन्त्रणोत्सवस्तोत्रम् संस्कृत Lyrics
|| आमन्त्रणोत्सवस्तोत्रम् ||
आमन्त्रणं ते निगमोक्तमन्त्रैस्तन्त्रप्रवेशाय मनोहराय ।
श्रीरामचन्द्राय सुखप्रदाय करोम्यहं त्वं कृपया गृहाण ॥ १॥
सत्याधिराजार्चितपादपद्म श्रीमध्वसम्पूजित सुन्दराङ्ग ।
श्रीभार्गवीसन्नुतमन्दहास श्रीव्यासदेवाय नमो नमस्ते ॥ २॥
अनन्तरूपैरजितादिभिश्च परादिभिश्श्रीबृहतीसहस्रः ।
विश्वादिभिश्चैव सहस्ररूपैर्नारायणाद्यष्टशतैरजाद्यैः ॥ ३॥
एकाधिपञ्चाशदितैश्च रूपैश्श्रीकेशवाद्यैश्च चतुर्स्सुविंशैः ।
मत्स्यादिभिस्स्वच्छदशस्वरूपैर्विश्वादिभिश्चाष्टभिरग्ररूपैः ॥ ४॥
तथाऽनिरुद्धादिचतुस्स्वरूपैर्गोब्राह्मणश्रीतुलसीनिवासैः ।
मन्त्रेशरूपैः परमाणुपूर्वसंवत्सरान्तामलकालरूपैः ॥ ५॥
ज्ञानादिन्दैस्स्थावरजङ्गमस्थैरव्याकृताकाशविहाररूपैः ।
नारायणाख्येन तथाऽनिरुद्धरूपेण सक्ष्मोदगतेन तुष्टैः ॥ ६॥
प्रद्युम्नसङ्कर्षणनामकाभ्यां भोक्तृस्थिताभ्यां भुजिशक्तिदाभ्याम् ।
श्रीवासुदेवेन नभःस्थितेन ह्यभीष्टदेनाखिलसद्गुणेन ॥ ७॥
अश्वादिसद्यानगतेन नित्यमारूढरूपेण सुसौख्यदेन ।
विश्वादिजाग्रद्विनियामकेन स्वप्नस्थपालेन च तेजसेन ॥ ८॥
प्राज्ञैन सौषुप्तिकपालकेन तुर्येण मूर्ध्नि स्थितियुक्परेण ।
आत्मान्तरात्मेत्यभिधेन हृत्स्थरूपद्वयेनाखिलसारभोक्त्रा ।
हृत्पद्ममूलाग्रगसर्वगैश्च रूपत्रयेणाखिलशक्तिभाजा ।
कृद्धोल्करूपैर्हृदयादिसंस्थैः प्राणादिगैरन्नमयादिगैश्च ॥ १०॥
इलावृताद्यामलखण्डसंस्थैः प्लक्षादिसद्द्वीपसमुद्रधिष्ण्यैः ।
मेरुस्थकिंस्तुघ्नगकालचक्रग्रहग्रहानुग्रहिभिश्च लोकैः ॥ ११॥
नारायणीपूर्ववधूरुरूपैस्त्रिधामभिर्भारसुरधामभिश्च ।
श्रीमूलरामप्रतिमादिसंस्थश्रीरामचन्द्रखिलसद्गुणाब्धे ॥ १२॥
सीतापते श्रीपरमावतार माबादिभिऱ्ब्राह्ममुखैश्च देवैः ।
दिक्पालकैस्साकमनन्तसौख्यसम्पूर्णसद्भक्तदयाम्बुराशे ॥ १३॥
सत्याधिराजार्यहृदब्जवास श्रीमध्वहृत्पङ्कजकोशवास ।
मद्विम्बरूपेण भवैक्यशाली चामन्त्रितस्त्वद्य नमो नमस्ते ॥
वराक्षतान् काञ्चनमुद्रिकाश्च मन्त्रेण हेम्नश्चषके निधाय ।
सीतापते ते पुरतश्श्रुतेस्तु प्रदध्युरेवं भगवत्स्वरूपम् ॥ १५॥
हिरण्यरूपस्सहिरण्यसंवृदगपान्नपास्तेदुहिरण्यवर्णः ।
हिरण्ययात्परियोने निषध्या हिरण्यदाददत्यन्नमस्मे ॥ १६॥
वसिष्योत्तमवस्त्राणि भूषणैरप्यलङ्कुरु ।
कुर्वन्नुत्सवमत्यन्तमस्मदीयं मखं यज ॥ १७॥
वसिष्यामि येध्रवस्त्राण्यूर्जापते सोमनो अध्वरं यज ।
मन्त्रितोऽसि देवेश पुराणपुरुषोत्तम ।
मन्त्रेशैर्लोकपालैश्च सार्धं देवगणैः श्रिया ॥ १८॥
त्रिकालपूजासु दयार्द्रदृष्ट्या मयार्पितं चार्हणमाशु सत्त्वम् ।
गृहाण लोकाधिपते रमेश ममापराधान् सकलान् क्षमस्व ॥ १९॥
श्रीमत्सत्यप्रमोदार्यहृन्निवास्यनिलेशिता ।
सत्यज्ञानानन्तगुणः प्रीयतां बादरायणः ॥ २०॥
इति आमन्त्रणोत्सवस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowआमन्त्रणोत्सवस्तोत्रम्
READ
आमन्त्रणोत्सवस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
