अनाहतेश्वरसम्मोहन अथवा ईश्वरसम्मोहनकवचम् PDF संस्कृत
Download PDF of Anahateshvarasammohanakavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
अनाहतेश्वरसम्मोहन अथवा ईश्वरसम्मोहनकवचम् संस्कृत Lyrics
|| अनाहतेश्वरसम्मोहन अथवा ईश्वरसम्मोहनकवचम् ||
अथ त्रिषष्टितमः पटलः
आनन्दभैरवी उवाच
कवचं शृणु चास्यैव लोकनाथ शिवापते ।
ईश्वरस्य परं ब्रह्म निर्वाणयोगदायकम् ॥ ६३-१॥
कवचं दुर्लभं लोके नामसम्मोहनं परम् ।
कवचं ध्यानमात्रेण निर्वाणफलभाग्भवेत् ॥ ६३-२॥
अस्य किं(पु)त्वत्रमाहात्म्यं तथापि तद्वदाम्यहम् ।
केवलं ग्रन्थिभेदाय निजदेहानुरक्षणात् ॥ ६३-३॥
सर्वेषामपि योगेन्द्र देवानां योगिनां तथा ।
भावादि सिद्धिलाभाय कायनिर्मलसिद्धये ॥ ६३-४॥
प्रकाशितं महाकाल तव स्नेहवशादपि ।
सर्वे मन्त्राः प्रसिद्ध्यन्ति सम्मोहकवचाश्रयाः ॥ ६३-५॥
कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहृतम् ।
ईश्वरो देवता प्रोक्तस्तथा शक्तिश्च काकिनी ॥ ६३-६॥
कीलकं क्रूं तथा ज्ञेयं ध्यानसाधनसिद्धये ।
हृदब्जभेदनार्थे तु विनियोगः प्रकीर्तितः ॥ ६३-७॥
एतच्छ्रीसम्मोहनमहाकवचस्य ब्रह्मा ऋषिरनुष्टुप् छन्दः
ईश्वरो देवता काकिनी शक्तिः क्रूं कीलकं
ध्यानसाधनसिद्धये हृदब्जभेदार्थे जपे विनियोगः ।
प्रणवो मे पातु शीर्षं ललाटं च सदाशिवः ।
प्रासादो हृदयं पातु बाहुयुग्मं महेश्वरः ॥ ६३-८॥
पृष्ठं पातु महादेव उदरं कामनाशनः ।
पार्श्वौ पातु कामराजो बालः पृष्ठतलान्तरम् ॥ ६३-९॥
कुक्षिमूलं महावीरो ललितापतिरीश्वरः ।
मृत्युञ्जयो नीलकण्ठो लिङ्गदेशं सदावतु ॥ ६३-१०॥
लिङ्गाधो मुद्रिका पातु पादयुग्ममुमापतिः ।
अङ्गुष्ठं पातु सततं पार्वतीप्राणवल्लभः ॥ ६३-११॥
गुल्फं पातु त्र्यम्बकश्च जानुनी युवतीपतिः ।
ऊरुमूलं सदा पातु मञ्जुघोषः सनातनः ॥ ६३-१२॥
सिमनी देशमापातु भैरवः क्रोधभैरवः ।
लिङ्गदेशोद्गमं पातु लिङ्गरूपी जगत्पतिः ॥ ६३-१३॥
हृदयाग्रं सदा पातु महेशः काकिनीश्वरः ।
ग्रीवां पातु वृषस्थश्च कण्ठदेशं दिगम्बरः ॥ ६३-१४॥
लम्बिकां पातु गणपो नासिकां भवनाशकः ।
भ्रूमध्यं पातु योगीन्द्रः महेशः पातु मस्तकम् ॥ ६३-१५॥
मूर्ध्निदेशं मुनीन्द्रश्च द्वादशस्थो महेश्वरः ।
द्वादशाम्भोरुहं पातु काकिनीप्राणवल्लभः ॥ ६३-१६॥
नाभिमूलाम्बुजं पातु महारुद्रो जगन्मयः ।
स्वाधिष्ठानाम्बुजं पातु सदा हरिहरात्मकः ॥ ६३-१७॥
मूलपद्मं सदा पातु ब्रह्मेन्द्रो डाकिनीश्वरः ।
कुण्डलीं सर्वदा पातु डाकिनी योगिनीश्वरः ॥ ६३-१८॥
कुण्डली मातृका पातु वटुकेशः शिरोहरः ।
राकिणीविग्रहं पातु वामदेवो महेश्वरः ॥ ६३-१९॥
पञ्चाननः सदा पातु लाकिनीवज्रविग्रहम् ।
स्वस्थानं द्वादशारञ्च वीरः पातु सुकाकिनीम् ॥ ६३-२०॥
वीरेन्द्रः कर्णिकां पातु द्वादशारं विषाशनः ।
षोडशारं सदा पातु क्रोधवीरः सदाशिवः ॥ ६३-२१॥
मां पातु वज्रनाथेशोऽरिभयात् क्रोधभैरवः ।
षट्चक्रं सर्वदा पातु लाकिनीश्रीसदाशिवः ॥ ६३-२२॥
षोडशाम्भोरुहान्तस्थं पातु धूम्राक्षपालकः ।
दिङ्नाथेशो महाकायो मां पातु परमेश्वरः ।
आकाशगङ्गाजटिलो द्विदलं पातु मे परम् ।
गङ्गाधरः सदा पातु हाकिनीं परमेश्वरः ॥ ६३-२३॥
हाकिनी परशिवो मे भ्रूपद्मं परिरक्षतु ।
दण्डपाणीश्वरः पातु मनोरूपं द्विपत्रकम् ॥ ६३-२४॥
साधुकेशः सदा पातु मनोन्मन्यादिवासिनम् ।
पिङ्गाक्षेशः सदा पातु भयभूमौ तनूं मम ॥ ६३-२५॥
उन्मनीस्थानकं पातु रोधिनीसहितं मम ।
सुधाघटः सदा पातु ममानन्दादिदेवताम् ॥ ६३-२६॥
आनन्दभैरवः पातु गूढदेशाधिदेवताम् ।
मायामयोपहा पातु सुषुम्नानाडिकाकलाम् ॥ ६३-२७॥
इडाकलाधरं पातु कोटिसूर्यप्रभाकरः ।
पिङ्गलामिहिरं पातु चन्द्रशेखर ईश्वरः ॥ ६३-२८॥
कोटिकालानलस्थानं सुषुम्नायां सदावतु ।
सुधासमुद्रो मां पातु रत्नकोटिमणीश्वरः ॥ ६३-२९॥
शिवनाथः सदा पातु कुण्डलीचक्रमेव मे ।
विष्णुचक्रं महादेवः कालरात्रः कुलान्वितम् ॥ ६३-३०॥
मृत्युजेता सदा पातु सहस्रारं सदा मम ।
सहस्रदलगं शम्भुं स्वयम्भूः पातु सर्वदा ॥ ६३-३१॥
सर्वरूपिणमीशानं पातु शर्वो हि सर्वदा ।
सर्वत्र सर्वदा पातु श्रीनीलकण्ठ ईश्वरः ॥ ६३-३२॥
सर्वबीजस्वरूपो मे बीजमालां सदावतु ।
मातृकां सर्वबीजेशो मातृकार्णं शिवो मम ॥ ६३-३३॥
अहङ्कारं हरः पातु करमालां सदा मम ।
जलेऽरण्ये महाभीतौ पर्वते शून्यमण्डपे ॥ ६३-३४॥
व्याघ्रभल्लूकमहिषपश्वादिभयदूषिते ।
महारण्ये घोरयुद्धे गगने भूतलेऽतले ॥ ६३-३५॥
अत्युत्कटे शस्त्रघाते शत्रुचौरादिभीतिषु ।
महासिंहभये क्रूरे मत्तहस्तिभये तथा ॥ ६३-३६॥
ग्रहव्याधिमहाभीतौ सर्पभीतौ च सर्वदा ।
पिशाचभूतवेतालब्रह्मदैत्यभयादिषु ॥ ६३-३७॥
अपवादापवादेषु मिथ्यावादेषु सर्वदा ।
करालकालिकानाथः प्रचण्डः प्रखरः परः ॥ ६३-३८॥
उग्रः कपर्दी भीदंष्ट्री कालाच्छन्नकरः कविः ।
क्रोधाच्छन्नो महोन्मत्तो गरुडीशो महेशभृत ॥ ६३-३९॥
पञ्चाननः पञ्चरश्मिः पावनः पावमानकः ।
शिखा मात्रामहामुद्राधारकः क्रोधभूपतिः ॥ ६३-४०॥
द्रावकः पूरकः पुष्टः पोषकः पारिभाषिकः ।
एते पान्तु महारुद्रा द्वाविंशतिमहाभये ॥ ६३-४१॥
एते सर्वे शक्तियुक्ता मुण्डमालाविभूषिताः ।
अहङ्कारेश्वराः क्रुद्धा योगिनस्तत्त्वचिन्तकाः ॥ ६३-४२॥
चतुर्भुजा महावीराः खड्गखेटकधारकाः ।
कपालशङ्खमालाढ्या नानारत्नविभूषिताः ॥ ६३-४३॥
किङ्किणीजालमालाढ्या हेमनूपुरराजिताः ।
नानालङ्कारशोभाढ्याश्चन्द्रचूडाविभूषिताः ॥ ६३-४४॥
सदानन्दयुताः श्रीदा मोक्षदाः कर्मयोगिनाम् ।
सर्वदा भगवान् पातु ईश्वराः पान्तु नित्यशः ॥ ६३-४५॥
ब्रह्मा पातु मूलपद्मं श्रीविष्णुः पातु षड्दलम् ।
रुद्रः पातु दशदलमीश्वरः पात्वनाहतम् ॥ ६३-४६॥
सदाशिवः पातु नित्यं षोडशारं सदा मम ।
परो द्विदलमापातु षट्शिवाः पान्तु नित्यशः ॥ ६३-४७॥
अपराः पान्तु सततं मम देहं कुलेश्वराः ।
पूर्णं ब्रह्म सदा पातु सर्वाङ्गं सर्वदेवताः ॥ ६३-४८॥
कालरूपी सदा पातु मनोरूपी शिरो मम ।
आत्मलीनः सदा पातु ललाटं वेदवित्प्रभुः ॥ ६३-४९॥
वाराणसीश्वरः पातु मम भ्रूमध्यपीठकम् ।
योगिनाथः सदा पातु मम दन्तावलिं दृढम् ॥ ६३-५०॥
ओष्ठाधरौ सदा पातु झिल्टीशो भौतिकेश्वरः ।
नासापुटद्वयं पातु भारभूतीशोऽतिथीश्वरः ॥ ६३-५१॥
गण्डयुग्मं सदा पातु स्थाणुकेशो हरेश्वरः ।
कर्णदेशं सदा पातु अमरोऽर्धीश्वरो मम ॥ ६३-५२॥
महासेनेश्वरस्तुण्डं मम पातु निरन्तरम् ।
श्रीकण्ठादिमहारुद्राः स्वाङ्गग्रन्थिषु मातृकाः ॥ ६३-५३॥
मां पातु कालरुद्रश्च सर्वांङ्ग कालसंक्षयः ।
अकाल तारकः पातु उदरं परिपूरकः ॥ ६३-५४॥
अगस्त्यादिमुनिश्रेष्ठाः पान्तु योगिन ईश्वराः ।
श्रीनाथेश्वर ईशानः पातु मे सूक्ष्मनाडिकाः ॥ ६३-५५॥
त्रिशूली पातु पूर्वस्यां दक्षिणे मृत्युनाशनः ।
पश्चिमे वारुणीमत्तो महाकालः सदाऽवतु ॥ ६३-५६॥
उत्तरे चावधूतेशो भैरवः कालभैरवः ।
ईशाने पातु शान्तीशो वायव्यां योगिवल्लभः ॥ ६३-५७॥
मरुत्कोणे दैत्यहन्ता पातु मां सततं शिवः ।
वह्निकोणे सदा पातु कालानलमुखाम्बुजः ॥ ६३-५८॥
ऊर्ध्वं ब्रह्मा सदा पातु अधोऽनन्तः सदाऽवतु ।
सर्वदेवः सदा पातु सर्वदेहगतं सुखम् ॥ ६३-५९॥
इहार्हा वल्लभः पातु कालाख्येशो गुणो मम ।
रविनाथः सदा पातु हृदयं मानसं मम ॥ ६३-६०॥
चन्द्रेशः पातु सततं भ्रूमध्यं मम कामदः ।
वज्रदण्डधरः पातु रक्ताङ्गेशस्त्रिलोचनम् ॥ ६३-६१॥
बुधश्यामसुन्दरेशः पातु मे हृदयस्थलम् ।
सुवर्णवर्णगुर्वीशो मम कण्ठं सदाऽवतु ॥ ६३-६२॥
सिन्दूरजलदच्छन्नाद्यर्कशुक्रेश्वरो गलम् ।
नाभिदेशं सदा पातु शनिश्यामेश ईश्वरः ॥ ६३-६३॥
राहुः पातु महावक्त्रः केवलं मुखमण्डलम् ।
केतुः पातु महाकायः सदा मे गुह्यदेशकम् ॥ ६३-६४॥
इन्द्रादिदेवताः पान्तु परिवारगणैर्युताः ।
शिरोमण्डलदिग्रूपं पान्तु वैकुण्ठवासिनः ॥ ६३-६५॥
भैरवा भैरवीयुक्ताः सर्वदेहसमुद्भवाः ।
भीमदंष्ट्रा महाकाया मम पान्तु निरन्तरम् ॥ ६३-६६॥
यज्ञभुङ्नीलकण्ठो मे हृदयं पातु सर्वदा ।
उन्मत्तभैरवाः पान्तु ईश्वराः पान्तु सर्वदा ॥ ६३-६७॥
क्रोधभूपतयः पान्तु श्रीमायामदनान्विताः ।
फलश्रुतिकथनं
इत्येतत् कवचं तारं तारकब्रह्ममङ्गलम् ॥ ६३-६८॥
कथितं नाथ यत्नेन कुत्रापि न प्रकाशितम् ।
तव स्नेहवशादेव प्रसन्नहृदयान्विता ॥ ६३-६९॥
कृपां कुरु दयानाथ तवैव कवचाद्भुतम् ।
हिताय जगतां मोहविनाशायामृताय च ॥ ६३-७०॥
पठितव्यं साधकेन्द्रैर्योगीन्द्रैरुपवन्दितम् ।
दुर्लभं सर्वलोकेषु सुलभं तत्त्ववेदिभिः ॥ ६३-७१॥
असाध्यं साधयेदेव पठनात् कवचस्य च ।
धारणात् पूजनात् साक्षात् सर्वपीठफलं लभेत् ॥ ६३-७२॥
काकचञ्चुपुटं कृत्वा सप्तधा पञ्चधापि वा ।
कवचं प्रपठेद्विद्वान् गूढसिद्धिनिबन्धनात् ॥ ६३-७३॥
काकिनीश्वरसंयोगं सुयोगं कवचान्वितम् ।
ईश्वराङ्गं विभाव्यैव कल्पवृक्षसमो भवेत् ॥ ६३-७४॥
एतत्कवचपाठेन देवत्वं लभते ध्रुवम् ।
आरोग्यं परमं ज्ञानं मोहनं जगतां वशम् ॥ ६३-७५॥
स्तम्भयेत् परसैन्यानि पठेद्वारत्रयं यदि ।
शान्तिमाप्नोति शीघ्रं स षट्कर्मकरणक्षमः ॥ ६३-७६॥
आकाङ्क्षारसलालित्यविषयाशाविवर्जितः ।
साधकः कामधेनुः स्यादिच्छादिसिद्धिभाग्भवेत् ॥ ६३-७७॥
सर्वत्र गतिशक्तिः स्यात् स्त्रीणां मन्मथरूपधृक् ।
अणिमालघिमाप्राप्तिगुणादिसिद्धिमाप्नुयात् ॥ ६३-७८॥
योगिनीवल्लभो भूत्वा विचरेत् साधकाग्रणीः ।
यथा गुहो गणेशश्च तथा स मे हि पुत्रकः ॥ ६३-७९॥
श्रीमान् कुलीनः सारज्ञः सर्वधर्मविवर्जितः ।
शनैः शनैर्मुदा याति षोडशारे यतीश्वरः ॥ ६३-८०॥
यत्र भाति शाकिनीशः सदाशिवगुरुः प्रभुः ।
क्रमेण परमं स्थानं प्राप्नोति मम योगतः ॥ ६३-८१॥
मम योगं विना नाथ तव भक्तिः कथं भवेत् ।
एतत्सम्मोहनाख्यस्य कवचस्य प्रपाठतः ॥ ६३-८२॥
वाणी वश्या स्थिरा लक्ष्मीः सर्वैश्वर्यसमन्वितः ।
त्यागिता लभ्यते पश्चान्निःसङ्गो विहरेत् शिवः ।
सदाशिवे मनो याति सिद्धमन्त्री मनोलयः ॥ ६३-८३॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे
षट्चक्रप्रकाशे भैरवीभैरव संवादेऽनाहतेश्वरसम्मोहनाख्यकवचं
नाम त्रिषष्टितमः पटलः ॥ ६३॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअनाहतेश्वरसम्मोहन अथवा ईश्वरसम्मोहनकवचम्
READ
अनाहतेश्वरसम्मोहन अथवा ईश्वरसम्मोहनकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
