श्रीअनन्तानन्दाचार्याष्टकम् PDF संस्कृत
Download PDF of Anantanandacharyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीअनन्तानन्दाचार्याष्टकम् संस्कृत Lyrics
|| श्रीअनन्तानन्दाचार्याष्टकम् ||
रामानन्दाग्रणीशिष्यं श्रीरामानन्दमठेश्वरम् ।
अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ १॥
आनन्दभाष्यतत्त्वज्ञमात्मानात्मेशबोधकम् ।
अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ २॥
ऐहिकामुष्मिकैश्वर्यदातारं भक्तिदानतः ।
अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
चन्द्रवत् सम्प्रदायाब्धेर्वर्धकं राममन्त्रदम् ।
अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
वादिनां विदुषां चासत्सिद्धानां मानमर्दकम् ।
अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
सदाचारोपदेष्टारं सदाचार्यसुरेश्वरम् ।
अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
शिष्याणां पञ्चसंस्कारकारकं हितकारिणम् ।
अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
मन्त्रार्थकोविदं चाथ मन्त्रत्रयार्थदं नृणाम् ।
अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीअनन्तानन्दाचार्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीअनन्तानन्दाचार्याष्टकम्
READ
श्रीअनन्तानन्दाचार्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
