श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम् PDF संस्कृत
Download PDF of Annapurnashtottarashatanama Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम् संस्कृत Lyrics
|| श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
॥ श्रीअन्नपूर्णाविश्वनाथाभ्यां नमः ॥
अस्य श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रमन्त्रस्य
भगवान् श्रीब्रह्मा ऋषिः ।
अनुष्टुप्छन्दः । श्रीअन्नपूर्णेश्वरी देवता ।
स्वधा बीजम् । स्वाहा शक्तिः । ॐ कीलकम् ।
मम सर्वाभीष्टप्रसादसिद्धयर्थे पाठे विनियोगः ।
ॐ अन्नपूर्णा शिवा देवी भीमा पुष्टिस्सरस्वती ।
सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ १॥
वेदवेद्या महाविद्या विद्यादात्री विशारदा ।
कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी ॥ २॥
भवानी विष्णुजननी ब्रह्मादिजननी तथा ।
गणेशजननी शक्तिः कुमारजननी शुभा ॥ ३॥
भोगप्रदा भगवती भत्ताभीष्टप्रदायिनी ।
भवरोगहरा भव्या शुभ्रा परममङ्गला ॥ ४॥
भवान्नी चञ्चला गौरी चारुचन्द्रकलाधरा ।
विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी ॥ ५॥
आर्या कल्याणनिलया रुद्राणी कमलासना ।
शुभप्रदा शुभावर्ता वृत्तपीनपयोधरा ॥ ६॥
अम्बा संहारमथनी मृडानी सर्वमङ्गला ।
विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता ॥ ७॥
परमानन्ददा शान्तिः परमानन्दरूपिणी ।
परमानन्दजननी परानन्दप्रदायिनी ॥ ८॥
परोपकारनिरता परमा भक्तवत्सला ।
पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका ॥ ९॥
शुभलक्षणसम्पन्ना शुभानन्दगुणार्णवा ।
शुभसौभाग्यनिलया शुभदा च रतिप्रिया ॥ १०॥
चण्डिका चण्डमथनी चण्डदर्पनिवारिणी ।
मार्ताण्डनयना साध्वी चन्द्राग्निनयना सती ॥ ११॥
पुण्डरीकहरा पूर्णा पुण्यदा पुण्यरूपिणी ।
मायातीता श्रेष्ठमाया श्रेष्ठधर्मात्मवन्दिता ॥ १२॥
असृष्टिस्सङ्गरहिता सृष्टिहेतुः कपर्दिनी ।
वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥ १३॥
मन्दस्मिता स्कन्दमाता शुद्धचित्ता मुनिस्तुता ।
महाभगवती दक्षा दक्षाध्वरविनाशिनी ॥ १४॥
सर्वार्थदात्री सावित्री सदाशिवकुटुम्बिनी ।
नित्यसुन्दरसर्वाङ्गी सञ्चिदानन्दलक्षणा ॥ १५॥
नाम्नामष्टोत्तरशतम्बायाः पुण्यकारणम् ।
सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः ॥ १६॥
एतानि दिव्यनामानि श्रुत्वा ध्यात्वा निरन्तरम् ।
स्तुत्वा देवीञ्च सततं सर्वान्कामानवाप्नुयात् ॥ १७॥
॥ इति श्रीब्रह्मोत्तरखण्डे आगमप्रख्यातिशिवरहस्ये
श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम्
READ
श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
