श्रीअनुभवानन्दाचार्याष्टकम् PDF संस्कृत
Download PDF of Anubhavanandacharyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीअनुभवानन्दाचार्याष्टकम् संस्कृत Lyrics
|| श्रीअनुभवानन्दाचार्याष्टकम् ||
रक्षकं वैष्णवानां च धर्मवारिधिवर्धकम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ १॥
रामानन्दकृतानन्दभाष्याब्जस्य प्रभाकरम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ २॥
भक्तिगङ्गाप्रवाहेण मुक्तिदं लोकपावनम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
विशिष्टान्द्वैतवादेन वादिवादापसारकम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
सर्वसिद्धिप्रदातारं सिद्धेन्द्रं सिद्धसेवितम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
मुद्रोर्ध्वपुण्ड्रमालादे रक्षकं परमं बुधम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
श्रीगीतार्थसुधाकारं सदाचारोपदेशकम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
त्रयाणा च रहस्यानां भव्यव्याख्याविधायिनम् ।
नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीअनुभवानन्दाचार्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीअनुभवानन्दाचार्याष्टकम्
READ
श्रीअनुभवानन्दाचार्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
