|| श्री आर्तत्राणपरायणस्तोत्रम् ||
वात्सल्यादभयप्रदानसमयादार्तार्ति निर्वापणा-
दौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् ।
सेव्यः श्रीपतिरेक एव जगतां सन्त्यत्र षट् साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः ॥ १॥
प्रह्लाद प्रभुरस्ति चेत्तव हरिः सर्वत्र मे दर्शय
स्तम्भे चेत्यवदद्धिरण्यकशिपुस्तत्राविरासीद्धरिः ।
वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमावेदयन्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २॥
श्रीरामोऽत्र विभीषणोऽयमनघो रक्षोभयादागतः
सुग्रीवानय पालयामि कृपया पौलस्त्यमप्यागतम् ।
इत्युक्त्वाभयमस्य सर्वविदितो यो राघवो दत्तवान्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३॥
नक्रग्रस्तपदं समुद्धृतकरं ब्रह्मेशदेवेश्वराः
पान्त्वित्यार्तरवं निशम्य करिणं देवेष्वशक्तेष्वपि ।
मा भैषीरिति यो ररक्ष मकराच्चक्रेण तं सहरन्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४॥
हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां सखे
क्वासि क्वासि सुयोधनाद्यपहृतां हा रक्ष मां द्रौपदीम् । (सुयोधनादवगतां)
इत्युक्तेऽक्षयवस्त्रसंवृततनुं योऽरक्षदर्धक्षणा- (वस्त्ररक्षिततनुं योऽरक्षदापद्गणाद्-)
दार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५॥
यत्पादाब्जनखोदकं त्रिजगतां पापौघविच्छेदनं
यन्नामामृतपूरमस्तु पिबतां संसारसन्तारकम् ।
पाषाणोऽपि यदङ्घ्रितो मुनिव धू रूपं परं प्राप्तवान्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ६॥
पित्रा भ्रातरमुत्तमासनगतं भक्तोत्तमः स ध्रुवो
दृष्ट्वा तत्सममारुरुक्षुरुदितो मात्रावमानं गतः ।
यं गत्वा शरणं जगाम तपसा हेमाद्रिसिंहासनं
ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ७॥
योऽरक्षद्वसनादिभिर्विरहितं विप्रं कुचेलाभिधं
दीनं दीनचकोरपालनविधुः श्रीशङ्खचक्रोज्ज्वलः ।
यज्जीर्णाम्बरमुष्टिमेयपृथुकानादाय भुक्त्वा क्षणात्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ८॥
यं कल्याणगुणाभिरामममलं शास्त्राणि सञ्चक्षते ।
यस्मिन् योगयुते प्रतिष्ठितमिदं विश्वं वदन्त्यागमाः ।
यो योगीन्द्रमनःसरोरुहतमःप्रध्वंसने भानुमान्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २॥
योऽत्रासीदरविन्दगर्भजनुषं ब्रह्माणमार्तिं गतं
भीतं कैटभराक्षसेन मधुना कल्पान्तकाले महान् ।
हत्वा तौ मधुकैटभौ रणमुखे भक्तार्तिसंशोषणात्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १०॥
यन्नामस्मरणादघौघरहितो विप्रः पुराजामिलः
प्रायान्मुक्तिमशेषतो विरहितः संसारदावानलात् ।
सोऽयं भागवतोत्तमावन इति प्राप्तप्रतिष्ठोऽचिरात्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ११॥
कावेरीहृदयाभिरामपुलिने पुण्ये जगन्मण्डले
चन्द्रार्काख्यसरित्तटीपरिसरे धात्रा समाराधिते ।
श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमान्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १२॥
वक्त्रेन्दुद्युतिमण्डिताब्जनयनो गण्डोल्लसत्कुण्डलः
श्रीवत्सोरुमणिश्रियाप्तहृदयः स्वर्णाम्बरो यो भुजैः ।
शङ्खं चक्रगदाभयानि बिभृते पद्माङ्घ्रिरत्युन्नतो
ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १३॥
कर्मब्रह्मनिदानवेदनिकरं हृत्वा महीमण्डलं
त्यक्त्वा निर्मितमन्दिरोऽभवदथो मध्येमहासागरम् ।
हन्तुं सोमकनानकं तमसुरं मत्स्यस्वरूपं दधा-
वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १४॥
कृत्वा मन्दरनामकं गिरिवरं मन्थानदण्डं पुरा
क्षीराब्धौ मथनं चितेनुरधिकं सर्वेऽपि देवासुराः ।
मज्जन्तं नगमुद्दिधीर्षुरभवद्यः कच्छपाकारवान्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १५॥
भूलोकं प्रलये महार्णवजले तान्तं नितान्तं चिरं
ब्रह्माद्यैरखिलैरशक्यममरैर्धर्तुं महोपद्रवे ।
वाराही तनुरत्र धर्तुमनसा येनास्थिता लीलया
ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १६॥
missing in the manuscript ॥ १७॥
स्वाराज्ये बलिचक्रवर्त्यपहृते दारिद्र्यसम्पीडितै
रिन्द्राद्यैरमरैरशेषमुनिभिः संस्तुत्य सम्प्रार्थितः ।
तानेतान् सफलान् विधातुमखिलान् यो वामनाकारवान्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १८॥
कर्मब्रह्मविचारदक्षमनसो धर्मार्थकामेषु च ।
प्रोत्साहं नितरामसक्तमनसः कुर्वन्ति ये ब्राह्मणाः ।
इत्वा क्षत्त्रमपालयद् द्विजवरान् यो भार्गवाकारवान्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १९॥
इन्द्रादीनमरांस्तथा मुनिवरान् यो रावणो बाधते
भागान् हन्ति तथैव यो दिविषदामाग्नेयागादिषु ।
जित्वा तं सकलांश्च रक्षितुमना यो रामरूपं दधा-
वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २०॥
गोपालानतिपामरानविदुषो मायावृतान् रक्षितुं
यः प्रापानकदुन्दुभेश्च सदने श्रीकृष्णरूपं हरिः ।
तज्ज्येष्ठो बलराम इत्यजनि यो ह्यन्वर्थनामा महान्
आर्तत्राणपरायणः स भगवान्नारयणो मे गतिः ॥ २१॥
इन्द्रादीनमरांस्तथा मुनिवरान् सम्पीडितान् राक्षसै-
स्त्रातुं मन्त्रगुरूपदेशविधिना भूतानि सम्मोहयन् ।
नित्यं धर्मपरायणः स्वयमपि श्रीबौद्धरूपं दधा-
वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २२॥
वर्णाचारविवर्जिते कलियुगे दुष्टस्वभावैर्जनै-
गर्वेणोद्धतमानसैर्मुनिगणान् सम्पीड्यमानांस्तथा ।
त्रातुं कल्क्यवतारमाप भगवान् यः सर्वसाक्षी पुमान्
आर्तत्राणपरायणः स भगवन्नारायणो मे गतिः ॥ २३॥
शैलारातिनियुक्तभीषणमहाकादम्बिनीमण्डले
रुद्ध्वा खं विदिशो दिशोऽशनिशिलासारान् भृशं वर्षति ।
योऽरक्षद्व्रजगोकुलं करतलेनोद्धृत्य गोवर्धनं
ह्यातत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २४॥
कारावेश्मनि भीमविक्रमजरासन्धेन बन्दीकृतान्
भूपालानखिलाननन्यगतिकान् विज्ञपितस्वव्यथान् ।
बन्धान्मोचयितुं प्रभञ्जनभुवा योऽजीघनत्तं समि-
त्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २५॥
क्षुत्तृष्णार्तसहस्रयोगिसहितं दुर्वाससं क्रोधिनं
द्रौपद्या विघसाणुमभ्यवहरन् शाकं स्वहस्तार्पितम् ।
तृप्त्यातर्पयदात्मनोऽस्य जगतस्तृप्तिं समावेदयन्
आर्तत्राणपराणः स भगवान्नारायणो मे गतिः ॥ २६॥
सीताया अपचारिणं हरिहरब्रह्मादिभिर्दुर्ग्रहं
बाणेनाभिहतं निजेन पुनरप्यायातमङ्घ्रिद्वयम् ।
काकाकारनिशाचरं करुणयारक्षद्विपन्नं भया-
दार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २७॥
वालिप्राप्तकलत्रराज्यविभवं दीनं कुशं निर्दशं
सुग्रीवं स्वपदग्रहैकशरणं कृत्वा कटाक्षास्पदम् ।
तद्दुःखान्यहिते सरोषमकरोद्यः स्वप्रतिज्ञाबलात्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २८॥
शूद्रे घोरतपस्समाचरति तद्दोषेण मृत्युं गते
कस्मिंश्चित् पृथुके तदीयजननीपित्रोर्महादुःखयोः ।
हत्वा शू द्रशिरो मृतस्य च शिशोः प्राणान् पुनर्योऽददात्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २९॥
यस्माद्रक्तपिपीलिकादिरचनादेवेशपर्यन्तकं
यो रक्षत्यखिलं चराचरमिदं नित्यं जगन्निर्मितम् ।
कर्मब्रह्मविचारदक्षमनसामैक्येन यो रक्षिता
ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३०॥
तत्सृष्ट्वा तदनुप्रविश्य सदभूत्त्यच्चाभवद्यः पुमान्
एषा ह्येव मुखाच्छ्रुतिश्च सकला यं बोधयत्यादरात् ।
यो गृह्णाति यथोर्णनाभिरुदरे सर्वं जगन्निर्मितं
ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३१॥
सत्यं ज्ञानमनन्तमादिसकलश्रुत्यर्थमीमांसया
सत्योऽहं चिदहं (तथान्तरहितो) ब्रह्मास्म्यहं सर्वदा ।
एवं वृत्तिभिरर्दितानविदुषो यो बोधयत्याख्यया
ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३२॥
चिद्रूपी च समस्तभेदरहितो यश्चाभवन्निर्ममो-
यः स्थूलादिशरीरबन्धरहितो यः सत्यरूपः सदा ।
कर्तुं स्वीयमुपासकं फलयुतं यः कल्पिताकारवान्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३३॥
शब्दात् सर्पमृतिस्तथा गजमृतिः स्पर्शात्तथा रूपतो
नष्टोऽभूच्छलभस्तथैव रसतो मत्स्याश्च गन्धादलिः ।
सर्वैः स्वैर्विषयैर्निपीडिततनून् यः पालयत्याश्रितान्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३४॥
भूलोकादिसमस्तलोकनिचयं कृत्वागजातं तनोः
स्वीयायाः सकलं चराचरमिदं पादादिशीर्षान्तकम् ।
यो ब्रह्माण्डसमष्टिरूपतनुभृद्वैराजनामा बभा-
वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३५॥
श्रोत्रत्वासनादिधीन्द्रियचयो वागादिकर्मेन्द्रिय-
स्तोमः प्राणचयश्च सप्तदशकं लिङ्गं मनो धीरपि ।
तादृग्लिङ्गसमष्टिरूपतनुमान् हैरण्यगर्भो बभू-
वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३६॥
अव्यक्तं प्रकृतिः प्रधानमपि चाविद्या च माया तथा-
निर्वाच्या गुरुमूर्तिरादिरहिता चिच्छक्तिरित्युच्यते ।
तादृग्घेतुसमष्टिरूपतनुभृत् सर्वेश्वरो यो बभू-
वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३७॥
एको दीव्यति यश्चराचरजगद्गूढोऽखिलव्यापक-
श्चान्तर्यामितया स्थितश्च जगतां यः कर्मणामीश्वरः ।
आवासो निखिलस्य पश्यति च विद्यः केवलो निर्गुण-
श्चार्तन्त्राणपरायणः स भगवान्नारायणो में गतिः ॥ ३८॥
यो देवो निजमायया जगदिदं निर्माय सम्पोषयन्
अन्ते स्वात्मनि सन्दधाति नितरामानन्दपूर्णो हरिः ।
सत्यात्मा विभुरादिमध्यरहितो गम्भीरकर्मा महान्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३९॥
सर्वात्मानमजं चिदम्बरपरिज्ञेयं मनोऽगोचरं
वागर्वाचि गतं जराकृतितनुं चैतन्यसम्पादकम् ।
एकं नैकविधस्वरूपममलं यं वेद पङ्केजभू-
रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४०॥
निर्भेद निरुपद्रवं निरुपमं निर्वाणदं निर्मलं
निष्कम्पं निरुपाधिकं निरशनं नित्यामृतोद्दायकम् ।
निर्वेलं निरतोदयं निरुदयं यं वेद दुर्गाधिराट्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४१॥
सत्यं ज्योतिरनादि यञ्च कलयन्नात्मन्यजस्त्रं जग-
न्निर्द्वैतो विचचार चारणगणैः संस्तूयमानः शुकः ।
लोको बुद्बुदतौल्यमेति किल यत्राम्भोनिधौ चाञ्चलन्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४२॥
नद्यः स्यन्दनसंयुता जलनिधौ स्वे नामरूपे यथा
सन्त्यज्यैक्यमुपागताश्च सकलास्तद्वत् पुमान् ब्रह्मवित् ।
रूपं नाम विहाय पूर्णतनुमन्नरायणैक्यं गत-
श्चार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४३॥
ब्रंहिष्ठादिपिपीलिकान्तहृदये या प्रीतिरास्ते सदा
सैषार्धोऽभिमतः समस्तविदुषामाद्यस्य वाक्यस्य च ।
सैषानन्दलवो हि यस्य महतो नारायणस्य प्रभो-
रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४४॥
आदित्यादिचतुर्मुखान्तहृदये या प्रीतिरास्ते सदा
सैषार्धोऽभिमतः समस्तविदुषां मध्यस्थवाक्यस्य च ।
अन्त्यात्त्वैक्यपदी ददौ सपदि या नारायणैक्यं तयो-
रार्तत्राणपरायणः स भगवान्दारायणो मे गतिः ॥ ४५॥
येनाघ्राणनिरीक्षणग्रहणधीर्वाग्व्याकृतिर्येन च
स्वाद्वस्वाद्विति येन विन्दति च तत्प्रज्ञानमित्युच्यते ।
प्रज्ञानं मयि तादृशं विजयते यस्य स्वरूपं विभो-
रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४६॥
यच्चैतन्यमशेषदेवनिचये सर्वेषु मर्त्येष्वपि
प्राणिष्वद्य गवादिषु प्रकटितं ब्रह्मेति तत्रोच्यते ।
तादृब्रह्म विराजते मयि सदा यस्यैव धाम प्रभो-
रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४७॥
विद्यार्हे परिपूर्णमत्र निवसन् देवः परात्माभितो
बुद्धेः साक्षितया स्फुरन्नहमिति ज्ञेयः सदा प्रोच्यते ।
सोऽयं तादृगहं बभूव सततं यस्यैव चांशः प्रभो-
रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४८॥
सर्वत्र स्वयमेव पूर्णतनुमान् देवः परात्मा विभुः
सर्वैर्ब्रह्मविदां गणैः सुमनसां ब्रह्मेति संवर्ण्यते ।
तद्ब्रह्माहमिति प्रमास्मि वदतो यः स्वानुभूतिं ददा-
वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४९॥
एकं वास्त्वितरेण शून्यमभितः सन्त्यक्तनाम स्वयं
रूपेणापि विवर्जितं यदभवत्तत्त्वम्पदार्थं विदुः ।
श्रीनारायणमूर्तिरेव भगवान् यत्तत्पदार्थश्रुता-
वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५०॥
श्रोतुः शिष्यजनादपीन्द्रियचयाद्देहत्रयाच्चापि य-
द्वस्त्वेकं नितरां विलक्षणमहो तत्त्वम्पदार्थं विदुः ।
तादृक् त्वं तदसीति देशिकगिरा प्राप्नोति येनैकता-
मार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५१॥
नित्यं वस्तु विराजते स्वयमहो स्वस्यापरोक्षं सदा
साक्षी स्वीयतनोश्च सर्वविबुधैः सोऽयं तदात्मोच्यते ।
आत्मा योऽयमभूतपूर्वमहिमा यस्यैव लेशः स्फुरन्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५२॥
आत्मा यस्तु विराजतेऽस्य जगतो दृश्यस्य सर्वस्य च
स्थित्वा साक्षितया चकास्ति तमिमं ब्रह्मेति सर्वे विदुः ।
ब्रह्मात्मायमिति प्रसन्नहृदये नारायणात्मा बभा-
वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५३॥
चिद्रूपो मधुशासनो मधुहरो मायातिगो निर्गुणो
सन्तो विश्वपरः पुराणपुरुषो नित्योदितो निर्मलः ।
नित्यानन्दवपुर्भवन् भवहरो यो वासुदेवः पुमान्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५४॥
आर्तत्राणपरायणस्तवमिमं धर्मादिमोक्षप्रदं
व्यासाचार्यकृतं परं शुभकरं सर्वाघविध्वंसनम् ।
नित्यं यः पठति प्रभातसमये शृण्वन्नरो भक्तिमान्
श्रीवैकुण्ठपदं स याति विमलं योगीन्द्रलभ्यं पदम् ॥ ५५॥
इति श्री आर्तत्राणपरायणस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now