श्रीमहाबलेशाष्टकम्

|| श्रीमहाबलेशाष्टकम् || विशालकरुणं विभुं तरुणचन्द्र सद्भूषणं धराधरसुतापतिं तरुणचन्द्रकोटिप्रभम् । मनोरथविवर्धनं दुरितवर्गविध्वंसनं महाबलशिवं भजे महितसर्वकल्याणदम् ॥ १॥ समाहितमनोनुतं शमितदैत्यदम्भं प्रभुं भवार्णवविशोषणं विहितभक्तसन्तोषणम् । चराचरसुमन्दिरं विधृतबालचन्द्रं शिवं नमामि गिरिजापतिं नलिननेत्रमित्रं परम् ॥ २॥ पराभवविवर्जितं जय जयेति देवैर्नुतं नमामि जगतां गुरुं जननमृत्युदूरं हरम् । जनार्दनसहोदरीनयनपद्मभानूपमं पुराणपुरुषार्चितं शरणलोकसंरक्षकम् ॥ ३॥ दुराचरणभीषणं दुरितवर्गसंहारिणं महागिरिवराश्रयं मुनिवरेण्यसंसेवितम् । हिरण्यनिधिदायकं करुणयैव संरक्षकं…

श्रीमहादेवाष्टकम्

|| श्रीमहादेवाष्टकम् || मोक्षलक्ष्मीगृहद्वारकवाटोद्धाटनध्वनिः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ १॥ वैवस्वतमहाराजमौलिसङ्कुट्टनध्वनिः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ २॥ कैलासनगरद्वारमहाघण्टारवध्वनिः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ३॥ महापातकमत्तेभत्रासकण्ठीरवध्वनिः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ४॥ महेश्वरमहोक्षस्य घण्टाघणघणध्वनिः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ५॥ मुक्त्यङ्गनाकरस्पर्शविवाहपटहध्वनिः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ६॥ मत्सेवनासमायातजयश्रीदुन्दुभिध्वनिः । महादेव…

महादेवाष्टकम्

|| महादेवाष्टकम् || श्रीगणेशाय नमः ॥ शिवं शान्तं शुद्धं प्रकटमकलङ्कं श्रुतिनुतं महेशानं शम्भुं सकलसुरसंसेव्यचरणम् । गिरीशं गौरीशं भवभयहरं निष्कलमजं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ १॥ सदा सेव्यं भक्तैर्हृदि वसन्तं गिरिशय- मुमाकान्तं क्षान्तं करधृतपिनाकं भ्रमहरम् । त्रिनेत्रं पञ्चास्यं दशभुजमनन्तं शशिधरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ २॥ चिताभस्मालिप्तं भुजगमुकुटं विश्वसुखदं धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम् । करोटीखट्वाङ्गे ह्यरसि च दधानं मृतिहरं महादेवं…

श्रीमध्यार्जुनेशाष्टकम्

|| श्रीमध्यार्जुनेशाष्टकम् || मध्यार्जुनेशं भजेहं साम्बमध्यार्जुनेशं महालिङ्गमाद्यं मध्यार्जुनेशं भजेहम् ॥ ध्रुवपदम् ॥ ज्योतिर्महालिङ्गरूपं कॢप्तभूपं भुजङ्गेन कृत्तारिवृन्दम् । भक्तार्ति संहार्यपाङ्गं ब्रह्मविष्ण्वादिवृन्दैर्मुदापूजिताङ्घ्रिम् ॥ १॥ रुद्राक्षमालां धरन्तं ब्रह्महत्यादि पापानि सन्नाशयन्तम् । रक्षन्तमापत्सु भक्तान् भ्रान्तचित्तस्थदोषान् समुन्मूलयन्तम् ॥ २॥ पुण्याश्वमेधप्रचारैः भूतपातादिचोरैः भवाम्भोधितारैः । कुर्वन्ति भक्ताः प्रसन्नं पुत्रपौत्राद्यभीष्टान् सदा पूरयन्तम् ॥ ३॥ भस्मादिभूषाविशेषं पुष्पविल्वादिपत्रैर्जुषाणं सुतोषम् । सर्वार्थदायिप्रदोषं विप्रवर्यौघ सम्प्रोक्तसामादिघोषम् ॥ ४॥…

ஶ்ரீ ஹனுமத³ஷ்டகம்

|| ஶ்ரீ ஹனுமத³ஷ்டகம் || ஶ்ரீரகு⁴ராஜபதா³ப்³ஜநிகேதந பங்கஜலோசந மங்க³ளராஶே சண்ட³மஹாபு⁴ஜத³ண்ட³ ஸுராரிவிக²ண்ட³நபண்டி³த பாஹி த³யாளோ । பாதகிநம் ச ஸமுத்³த⁴ர மாம் மஹதாம் ஹி ஸதாமபி மாநமுதா³ரம் த்வாம் ப⁴ஜதோ மம தே³ஹி த³யாக⁴ந ஹே ஹநுமந் ஸ்வபதா³ம்பு³ஜதா³ஸ்யம் ॥ 1 ॥ ஸம்ஸ்ருதிதாபமஹாநலத³க்³த⁴தநூருஹமர்மதநோரதிவேலம் புத்ரத⁴நஸ்வஜநாத்மக்³ருஹாதி³ஷு ஸக்தமதேரதிகில்பி³ஷமூர்தே꞉ । கேநசித³ப்யமலேந புராக்ருதபுண்யஸுபுஞ்ஜலவேந விபோ⁴ வை த்வாம் ப⁴ஜதோ மம தே³ஹி த³யாக⁴ந ஹே ஹநுமந் ஸ்வபதா³ம்பு³ஜதா³ஸ்யம் ॥ 2 ॥ ஸம்ஸ்ருதிகூபமநல்பமகோ⁴ரநிதா³க⁴நிதா³நமஜஸ்ரமஶேஷம் ப்ராப்ய ஸுது³꞉க²ஸஹஸ்ரபு⁴ஜங்க³விஷைகஸமாகுலஸர்வதநோர்மே । கோ⁴ரமஹாக்ருபணாபத³மேவ…

श्रीपञ्चनदीशाष्टकम्

|| श्रीपञ्चनदीशाष्टकम् || महादेव भवाकार नीलकण्ठ त्रिलोचन । शिवशङ्कर सर्वात्मन् पाहि पञ्चनदीपते ॥ १॥ त्रिपुरान्तक सर्वेश चन्द्रशेखर धूर्जटे । वामदेव क्रतुध्वंसिन् रक्ष पञ्चनदीपते ॥ २॥ देवदेव जगन्नाथ पार्वतीरमणप्रभो । भूतेश शर्व (सर्व) कामारे पाहि पञ्चनदीपते ॥ ३॥ शम्भो पशुपते स्थाणो गङ्गाधर मृडाव्यय । नागाभरण विश्वेश पाहि पञ्चनदीपते ॥ ४॥ पिनाकपाणे श्रीकण्ठ कपालकृतशेखर (कपालधृतशेखर) । अघोर…

श्रीनीलकण्ठ नमश्शिवायाष्टकम्

|| श्रीनीलकण्ठ नमश्शिवायाष्टकम् || नमो नमः कारणकारणाय जगन्मयायाहितपाशकाय । त्वत्पादपद्माश्रितरक्षकाय श्रीनीलकण्ठाय नमः शिवाय ॥ १॥ ध्यायन्ति ये त्वां यतयः स्तुवन्ति हृदम्बुजे दीपसमप्रकाशम् । नासाग्रविन्यस्तविलोचनाय श्रीनीलकण्ठाय नमः शिवाय ॥ २॥ सर्गस्थितिध्वंसनकारणाय यमादियोगाष्टकसिद्धिदाय । तपस्विनां शीघ्रफलप्रदाय । श्रीनीलकण्ठाय नमः शिवाय ॥ ३॥ वेदादिरूपाय त्रिलोचनाय वेदान्तवेद्याय दिगम्बराय । विभूतिशुभ्राय जटाधराय श्रीनीलकण्ठाय नमः शिवाय ॥ ४॥ उग्राय संसारभयापहाय ज्ञानप्रदायशुसुखप्रदाय…

निराश्रयाष्टकम्

|| निराश्रयाष्टकम् || हे नीलकण्ठ प्रियदेवदेव कैलासवासिन्नटराजराज । गौरीपते हे करुणावतार निराश्रयं मां जगदीश रक्ष ॥ १॥ हे लिङ्गराजेश्वर विश्वनाथ श्मशानवासिन्भवभीतिहन्त । हे रोगशोकापह मुक्तिदातः निराश्रयं मां जगदीश रक्ष ॥ २॥ हे व्याघ्रचर्मावृतयोगिराज कारुण्यपात्राखिललोकबन्धो । मुक्तेश्वर प्रेममयादिदेव निराश्रयं मां जगदीश रक्ष ॥ ३॥ हे पार्वतीवल्लभवामदेव त्रिशूलधारिन् शवभस्मलिप्त । मृत्युञ्जयग्रामपते महात्मन् निराश्रयं मां जगदीश रक्ष ॥…

निग्रहाष्टकम्

|| निग्रहाष्टकम् || श्रीमदप्पय्यदीक्षितविरचितम् । मार्गे सहायं भगवन्तमेव विश्वस्य विश्वाधिक निर्गतोऽस्मि । शास्त्रं प्रमाणं यदि सा विपत्स्या- त्तस्यैव मन्दो मयि यां चिकीर्षेत् ॥ १॥ कान्तारे प्रान्तरे वा मदकुशलकृतौ सान्तरं सान्तरङ्गं मह्यं द्रुह्यन्तमन्तं गमयतु भगवानन्तकस्यान्तकारी । क्षिप्रं विप्राधमस्य क्षिपतु तदुदरस्येव मायाविवर्ता नार्तान्बन्धूनबन्धूनिव मम शिशिराभ्यन्तरान्सन्तनोतु ॥ २॥ सहस्रं वर्तन्तां पथिपथि परे साहसकृतं प्रवर्तन्तां बाधं मयि विविधमप्यारचयितुम् ।…

श्रीत्यागराजाष्टकम्

|| श्रीत्यागराजाष्टकम् || चन्द्रार्धचूडाय सदाशिवाय साम्बाय लक्ष्मीपतिसेविताय । भक्तानुरक्षा(क्ता)य महेश्वराय त्यागाधिराजाय नमः शिवाय ॥ १॥ सुमेरुचापाय सुशोभनाय ब्रह्मेन्द्रनारायणवन्दिताय । वाचामतीताय मनोन्मनाय त्यागाधिराजाय नमः शिवाय ॥ २॥ देवादिदेवाय जगत्त्रयाय जन्मादिहीनाय निरञ्जनाय । राजाधिराजाय सुरेश्वराय त्यागाधिराजाय नमः शिवाय ॥ ३॥ वेदान्तवेद्याय विभूषणाय विराजमानाय सुरस्मिताय । शुद्धान्तसूक्ष्माय सुरार्चिताय त्यागाधिराजाय नमः शिवाय ॥ ४॥ रत्नादिभूषाय जटाधराय कल्पान्तहीनाय कलाधराय ।…

Shri Hanuman Ashtak

|| Hanuman Ashtak || Baal samay Ravi bhakshi liyo tab, Teenahum lok bhayo andhiyaron. Taahi so traas bhayo jag ko, Yeh sankat kahu so jaat na taaro. Devan aani kari binati tab, Chhadi diyo Ravi kasht nivaaro. Ko nahin jaanat hai jag mein kapi, Sankatamochan naam tiharo. Bali ki traas kapisa basain giri, Jaata mahaprabhu…

जम्बुनाथाष्टकम्

|| जम्बुनाथाष्टकम् || । श्री श्रीधरवेङ्कटेशार्येण विरचितम् । कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः । जयति ज्ञानमहीन्दुर्जन्ममृतिक्लांतिहरदयाबिन्दुः ॥ १॥ श्रितभृतिभद्धपताकः कलितोत्पलवननवमदोद्रेकः । अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः ॥ २॥ कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः । श्रीमान् दमितत्रिपुरः श्रितजंभूपरिसरश्चकास्तु पुरः ॥ ३॥ शमितस्मरदवविसरश्शक्राद्याशास्यसेवनावसरः । करिवनघनभाग्यभरो गिरतु मलं मम मनस्सरश्शफरः ॥ ४॥ गृहिणीकृतवैकुण्ठं गेहितजंभूमहीरुडुपकण्ठम् । दिव्यं किमप्यकुण्ठं तेजः स्तादस्मदवनसोत्कण्ठम् ॥ ५॥ कृतशमनदर्पहरणं कृतकेतरफणितिचारिरथचरणम् ।…

चन्द्रचूडालाष्टकम्

|| चन्द्रचूडालाष्टकम् || श्रीगणेशाय नमः ॥ यमनियमाद्यङ्गयुतैर्योगैर्यत्पादपङ्कजं द्रष्टुम् । प्रयतन्ते मुनिवर्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥ १॥ यमगर्वभञ्जनचणं नमतां सर्वेष्टदानधौरेयम् । शमदमसाधनसम्पल्लभ्यं ग्रणमामि, चन्द्रचूडालम् ॥ २॥ यं द्रोणबिल्वमुख्यैः पूजयतां द्वारि मत्तमातङ्गाः । कण्ठे लसन्ति विद्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥ ३॥ नलिनभवपद्मनेत्रप्रमुखामरसेव्यमानपदपद्मम् । नतजनविद्यादानप्रवणं प्रणमामि चन्द्रचूडालम् ॥ ४॥ नुतिभिर्देववराणां मुखरीकृतमन्दिरद्वारम् । स्तुतमदिमवाक्ततिभिः सततं प्रणमामि चन्द्रचूडालम् ॥ ५॥ जन्तोस्तव पादपूजनकरणात्करपद्मगाः…

चतुष्षष्ट्यष्टकम्

|| चतुष्षष्ट्यष्टकम् || सूर्योवाच देवेदेव जगताम्पते विभो भर्ग भीम भव चन्द्रभूषण । भूतनाथ भवभीतिहारक त्वां नतोऽस्मि नतवाञ्छितप्रद ॥ १॥ चन्द्रचूड मृड दूर्जटे हर त्र्यक्ष दक्षशततन्तुशातन । शान्त शाश्वत शिवापते शिव त्वां नतोऽस्मि नतवाञ्छितप्रद ॥ २॥ नीललोहित समीहितार्थद द्व्येकलोचन विरूपलोचन । व्योमकेश पशुपाशनाशन त्वां नतोऽस्मि नतवाञ्छितप्रद ॥ ३॥ वामदेव शितिकण्ठ शूलभृच्चन्द्रशेखर फणीन्द्रभूषण । कामकृत्पशुपते महेश्वर त्वां…

गोष्ठेश्वराष्टकम्

|| गोष्ठेश्वराष्टकम् || सत्यज्ञानमनन्तमद्वयसुखाकारं गुहान्तःस्थित- श्रीचिद्व्योम्नि चिदर्करूपममलं यद् ब्रह्म तत्त्वं परम् । निर्बीजस्थलमध्यभागविलसद्गोष्ठोत्थवल्मीक- सम्भूतं सत् पुरतो विभात्यहह तद्गोष्ठेशलिङ्गात्मना ॥ १॥ सर्वज्ञत्वनिदानभूतकरुणामूर्तिस्वरूपामला चिच्छक्तिर्जडशक्तिकैतववशात् काञ्चीनदीत्वं गता । वल्मीकाश्रयगोष्ठनायकपरब्रह्मैक्यकर्त्री मुहुः नृणां स्नानकृतां विभाति सततं श्रीपिप्पिलारण्यगा ॥ २॥ श्रीमद्राजतशैलश‍ृङ्गविलसच्छ्रीमद्गुहायां मही- वार्वह्न्याशुगखात्मिकी विजयते या पञ्चलिङ्गाकृतिः । सैवाशक्तजनेषु भूरिकृपया श्रीपिप्पिलारण्यगे वल्मीके किल गोष्ठनायकमहालिङ्गात्मना भासते ॥ ३॥ यत्राद्याप्यणिमादिसिद्धिनिपुणाः सिद्धेश्वराणां गणाः तत्तद्दिव्यगुहासु सन्ति…

श्रीगिरीशाष्टकम्

|| श्रीगिरीशाष्टकम् || क्षीराम्भोराशितूणं धृतपरशुधनुःशूलदीव्यत्कृपाणं गौरीकान्ताभिरामं निटिलहुतवहज्वालनिर्दग्धकामम् । तारक्ष्माभृद्विहारं सकलभुवनभृन्नागराट्कण्ठहारं वीरं रौद्राधिदैवं शरणशिवकरं श्रीगिरीशं भजेऽहम् ॥ १॥ सत्यानन्दस्वरूपं कनकमणिगणप्रस्फुरन्मेरुचापं कृत्याकृत्यादिदूरं चिदमृतसरसीवीचिकान्तर्विहारम् । श्रुत्यन्तस्तूयमानं नतजनसदनासन्नचञ्चन्निधानं प्रत्यद्रि क्रीडमानं प्रणवमयरथं श्रीगिरीशं भजेऽहम् ॥ २॥ कैलासग्रावतुल्योज्ज्वलवृषभकुलाध्यक्षसन्नद्धकेतुं लोलद्दुग्धप्रवाहार्गलमकुटतटीवेष्टिताहीन्द्रसेतुम् । पञ्चाशद्वर्णधातुं हरिकमलभवोत्पत्तिनिष्पत्तिहेतुं पञ्चास्यं श्रुत्युपास्यं निरवधियशसं श्रीगिरीशं भजेऽहम् ॥ ३॥ भीमं सोमं शिवं शङ्करमभवमजं विश्वलोकैकबीजं रुद्रं मुद्रीकृताघं पशुपतिगमनं वीरभद्रं विनिद्रम् । शर्वं…

श्री हनुमान अष्टक

|| हनुमान अष्टक (Hanuman Ashtak PDF) || बाल समय रवि भक्षी लियो तब, तीनहुं लोक भयो अंधियारों । ताहि सों त्रास भयो जग को, यह संकट काहु सों जात न टारो । देवन आनि करी बिनती तब, छाड़ी दियो रवि कष्ट निवारो । को नहीं जानत है जग में कपि, संकटमोचन नाम तिहारो ॥ बालि…

काश्यष्टकम्

|| काश्यष्टकम् || श्रीगणेशाय नमः । पापौघविध्वंसकरीं प्रसिद्धां श्रीजाह्नवीभूषितदिव्यरूपाम् । निर्वाणदात्रीं निखिलैकपूज्यां शिवप्रियां चैव नमामि काशीम् ॥ १॥ देवासुरैर्वन्दितपादपद्मां गायन्ति मुनयः सुयशश्च दिव्याम् । प्रसिद्धवेदेषु प्रभावमस्याः शिवप्रियां चैव नमामि काशीम् ॥ २॥ मुमुर्षूणां चैव शिवप्रदायिनीं वैकुण्ठश्रेणिं गुणमन्दिरां च । शिवालयां शोकविनाशिनीं च शिवप्रियां चैव नमामि काशीम् ॥ ३॥ विनाशशून्यां शिवरूपिणीं च मोहान्धकारस्य विनाशिनीं च ।…

श्रीकालहस्तीश्वराष्टकम् १

|| श्रीकालहस्तीश्वराष्टकम् १ || श्रीलसद्विलासलोलशेषतल्पसायकं शैलकन्यकास्यचन्दचन्द्रिकाचकोरकम् । भालनेत्रवह्निदग्धपञ्चबाणरूपकं कालहस्तिनायकं सुखप्रदायकं भजे ॥ १॥ कालकूटभीकराग्निकण्ठमध्यधारणं कालकर्मखाम्बुकाशखण्डनोग्रहारिणम् । कालमृत्युगर्ववल्लिकासमूलदारणं कालहस्तिनायकं सुखप्रदायकं भजे ॥ २॥ स्थूलसूक्ष्मनित्यसत्यशोभितं शुभोदितं बालचन्द्रशेखरं कृपासुधारसाकरम् । लालितव्रतार्थिलोकबालकर्णमूलकं कालहस्तिनायकं सुखप्रदायकं भजे ॥ ३॥ बालिकावियोगियोगिभावपद्मवासितं धालधल्यकोटिशीतधामसुप्रकाशितम् । कीलसन्निभाग्रशातशूलवृद्धगाशितं कालहस्तिनायकं सुखप्रदायकं भजे ॥ ४॥ भ्रूलतानिरीक्षणप्रभूतलोकजालकं लोलताद्रिजालसत्कपोल(कन्धरं) शिवम् । खेलसत्प्रकल्पितेन्द्रजालतन्त्रकीलकं कालहस्तिनायकं सुखप्रदायकं भजे ॥ ५॥ व्यालमक्षिकाग्ररत्नमातृकाविभूषणं कालसिन्धुकासुरारिपङ्क (रूप)भूषणम्…

श्रीअघोराष्टकम्

|| श्रीअघोराष्टकम् || कालाभ्रोत्पलकालगात्रमनलज्वालोर्ध्वकेशोज्ज्वलं दंष्ट्राद्यस्फुटदोष्ठबिम्बमनलज्वालोग्रनेत्रत्रयम् । रक्ताकोरकरक्तमाल्यरचितं(रुचिरं)रक्तानुलेपप्रियं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ १॥ जङ्घालम्बितकिङ्किणीमणिगणप्रालम्बिमालाञ्चितं (दक्षान्त्रं)डमरुं पिशाचमनिशं शूलं च मूलं करैः । घण्टाखेटकपालशूलकयुतं वामस्थिते बिभ्रतं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ २॥ नागेन्द्रावृतमूर्ध्निज(र्धज) स्थित(श्रुति)गलश्रीहस्तपादाम्बुजं श्रीमद्दोःकटिकुक्षिपार्श्वमभितो नागोपवीतावृतम् । लूतावृश्चिकराजराजितमहाहाराङ्कितोरस्स्थलं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ३॥ धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि(यत्कृन्तति)प्राणिनां पाशान्ये क्षुरिकास्त्रपाशदलितग्रन्थिं शिवास्त्राह्वयं (?) । विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ४॥ घोराघोरतराननं स्फुटदृशं सम्प्रस्फुरच्छूलकं प्राज्यां(ज्यं)नृत्तसुरूपकं चटचटज्वालाग्नितेजःकचम् ।…

पुरीश्वराष्टकम्

|| पुरीश्वराष्टकम् || पतितपावनसुखमहाजनद्रविणसम्भवकारण निखिलपालकभुवनमोहनशमनशासकशासन । सकलसज्जनसवनसज्जितसगुणनिर्गुणकाशन हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ १॥ वलयलोचनसुरतिकोमलमधुरदर्शनहासन नवकलेवरविबुधशेखरजलदसुन्दरवर्षण । मदनमोहनहृदयचन्दनौदयभास्करशोभन हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ २॥ शरणरक्षणसुमतिनायकसुगतिदायककीर्तन प्रभुपदार्चितनिगमवन्दितवचनवाङ्मयनर्तन । शुभशुभाननदशनगौरवहसनसौरभपार्वण हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ ३॥ अगरुचन्दनलसितदारवमुनिमनोहरमोहन कुसुमसज्जितभुजविलम्बितवलयहारसुशोभन । प्रथितशावरपुरितमन्दिरगहनसङ्कटतारण हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ ४॥ रथविराजितसुखदसुन्दरकनकवर्धितवामन परमपावनमयमहेश्वरतरलभक्तिरसायन । श्रुतिकलाकरविधुरगोपनगलितमाध्विकशोषण हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ ५॥ मुकुटमण्डितकनककुण्डलनयनमण्डललोभन नगरनागररसिकशेखरविरलरासविकाशन…

श्रीपादुकाष्टकम्

|| श्रीपादुकाष्टकम् || गोकुलेशपादपद्ममण्डनैकमण्डिते सुरेशशेषसर्वदेशवासिवृन्दवन्दिते । अनन्यभक्तवाञ्छिताखिलार्थसिद्धिसाधिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ १॥ महार्हरत्ननिर्मिते सुहेमपीतसंस्थिते स्वसेवकैकसेविते सुपुष्पवासवासिते । स्वरूपबुद्धिहीनजीवसत्स्वरूपबोधिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ २॥ स्वसेवनैकचेतसामनन्यभक्तिदायिके कृपासुघैकसिक्तभक्तकाममोहनाशिके । महान्धकारलीनजीवहृत्प्रकाशचन्द्रिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ३॥ निजाश्रयस्थिताखिलापदां सदा विदारके ह्यनेकतापतप्तजीवगाङ्गवारिवीचिके । समागतस्य सन्निधौ दुरन्तमोहभञ्जिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ४॥ सदुःखदाववह्निदग्धमुग्धजीवसौख्यदे चण्डकालव्यालग्रस्तत्रस्तविश्वमोक्षिचेके…

पाण्डुरङ्गाष्टकम्

|| पाण्डुरङ्गाष्टकम् || महायोगपीठे तटे भीमरथ्या वरं पुण्डरीकाय दातुं मुनीन्द्रैः । समागत्य तिष्ठन्तमानंदकंदं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ १॥ तटिद्वाससं नीलमेघावभासं रमामंदिरं सुंदरं चित्प्रकाशम् । वरं त्विष्टकायां समन्यस्तपादं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ २॥ प्रमाणं भवाब्धेरिदं मामकानां नितम्बः कराभ्यां धृतो येन तस्मात् । विधातुर्वसत्यै धृतो नाभिकोशः परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ३॥ स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे श्रिया जुष्टकेयूरकं श्रीनिवासम् ।…

परिवृढाष्टकम्

|| परिवृढाष्टकम् || कलिन्दोद्भूतायास्तटमनुचरन्ती पशुपजां रहस्येकां दृष्ट्वा नवसुभगवक्षोजयुगलाम् । दृढं नीवीग्रन्धि श्लथयति मृगाक्ष्या हटतरं रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ १॥ समायाते स्वस्मिन्सुरनिलयसाम्यं गतवति व्रजे वैशिष्ट्यं यो निजपदगताब्जाङ्कुशयवैः । अकार्षीत्तस्मिन्मे यदुकुलसमुद्भासितमणौ रतिप्रादुर्भावो भवतु सततं श्रीपरिवढे ॥ २॥ हिहीहीहीकारान् प्रतिपशु वने कुर्वति सदा नमद्भह्मेशेन्द्रप्रभृतिषु च मौनं धृतवति । मृगाक्षीभिः स्वेक्षानवकुवलयैरर्चितपदे रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ ३॥ सकृत्स्मृत्वा…

पतितपावनाष्टकम्

|| पतितपावनाष्टकम् || सचिन्त इव लक्ष्यसे सपदि मे चरित्रं स्मरन् परं कलितसाहसः पतितपावनत्वव्रतात् । न मामगणयः पुरा न हि विचारकालोऽधुना व्रतं विसृज वाथवा वरद पावयैनं जनम् ॥ १॥ न राघव न वायसो न खलु कृष्ण चैद्योऽस्म्यहम् न खल्वहमजामिलो नरकनाश नारायण । प्रधानमपराधिनां परिवृढं च मां पापिनं क्षमाजलनिधे विदन् सपदि सावधानो भव ॥ २॥ यद्युद्यदघलेखनाकलनजाग्रदग्राङ्गुलि- मिलत्प्रखरलेखनीमुखविघातवीतोद्यमः…

श्रीनीलकण्ठ चिन्तनाष्टकम्

|| श्रीनीलकण्ठ चिन्तनाष्टकम् || (उपजाति वृत्तम्) ब्राह्मे मुहूर्ते शयनं विहाय निजस्वरूपं हृदि चिन्तयित्वा । स्नातं विशुद्धं प्रचुराभिरद्भिः श्रीनीलकण्ठ हृदि चिन्तयामि ॥ १॥ श्वेतं च सूक्ष्मं परिधाय वासः सितं द्वितीयं वसनं वसित्वा । चतुष्क-पीठाद् द्रुतमुत्तरन्तं श्रीनीलकण्ठं हृदि चिन्तयामि ॥ २॥ आशूपविश्या-मलनैजपीठे विधाय सन्नैष्ठिक-कर्म नित्यम् । नारायणं मालिकया स्मरन्तं श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ३॥ सुगन्धिना केसर-चन्दनेन सन्मल्लिका-चम्पकपुष्पहारैः…

नाममाहात्म्याष्टकम्

|| नाममाहात्म्याष्टकम् || कथं बन्धनाशो भवेदाशु देव त्वदीयाङ्घ्रिमूले गतोहं वराकः । सुरोवानरो वायदा जन्मपात्रं ततः किं ततः किं ततः किं नु दुःखम् ॥ १॥ तनोः क्लेशभाजो विचित्रस्य हेतुः कुमोहाम्बरं हि श्रुतेः शास्त्रवाक्यात् । सदैवावृतोहं पठेनैव तेन ततः किं ततः किं ततः किं नु दुःखम् ॥ २॥ हरेर्नाममुक्तिं करं निःसहायं सहोपासनं नोगृहस्थादिधर्मैः । यदा नाम मुक्त्वा…

श्रीनवनीतप्रियाष्टकम्

|| श्रीनवनीतप्रियाष्टकम् || अलकावृतलसदलिके विरचितकस्तूरिकातिलके । चपलयशोदाबाले शोभितभाले मतिर्मेऽस्तु ॥ १॥ मुखरितनूपुरचरणे कटिबद्धक्षुद्रघण्टिकावरणे । द्वीपिकरजकृतभूषणभूषितहृदये मतिर्मेऽस्तु ॥ २॥ करधृतनवनवनीते हितकृतजननीविभीषिकाभिते । रतिमुद्वहताच्चेतो गोपीभिर्वश्यतां नीते ॥ ३॥ बालदशामतिमुग्धे चोरितदुग्धे व्रजाङ्गनाभवनात् । तदुपालम्भवचोभयविभ्रमनयने मतिर्मेऽस्तु ॥ ४॥ व्रजकर्दमलिप्ताङ्गे स्वरूपसुषमाजितानङ्गे । कृतनन्दाङ्गणरिङ्गण विविधविहारे मतिर्मेऽस्तु ॥ ५॥ करवरधृतलघुलकुटे विचित्रमायूरचन्द्रिकामुकुटे । नासागतमुक्तामणिजटितविभूषे मतिर्मेऽस्तु ॥ ६॥ अभिनन्दनकृतनृत्ये विरचितनिजगोपिकाकृत्ये । आनन्दितनिजभृत्ये प्रहसनमुदिते मतिर्मेऽस्तु…

नवनीतकृष्णाष्टकम्

|| नवनीतकृष्णाष्टकम् || मन्दस्मितं मधुरकोमललास्थलीलं कन्दर्पकोटिकमनीयकिशोरमूर्तिम् । कुन्दस्फुरद्दशनकं कुटिलालकान्तं वन्देय नन्दतनयं नवनीतकृष्णम् ॥ १॥ नाट्यावलोकनकुतूहलिभिः प्रदिष्टं कोट्या करस्य नवनीतघनं दधानम् । शाट्या शिशोरुचितया शबलावलमं वीट्या लसन्मुखमिमो नवनीतकृष्णम् ॥ २॥ मञ्जीरमञ्जुचरणं मृदुलाङ्गुलीकं पुञ्जीभवन्मधुपपुष्कलपुष्पमालम् । कञ्जीभवन्नयनमाश्रितिदेहभाजां सञ्जीवनं नम मनो नवनीतकृष्णम् ॥ ३॥ पूरेण नीलमहसां परिपूर्णगात्रं हारेण मौक्तिकजुषा हृतसर्वचित्तम् । चोरेण मोहितमुनिं दधिकुण्डभाजा पारेगिरं स्तुहि मनो नवनीतकृष्णम् ॥…

श्री नन्द नन्दनाष्टकम्

|| श्री नन्द नन्दनाष्टकम् || सुचारुवक्त्रमण्डलं सुकर्णरत्नकुण्डलम् । सुचर्चिताङ्गचन्दनं नमामि नन्दनन्दनम् ॥ १॥ सुदीर्घनेत्रपङ्कजं शिखीशिखण्डमूर्धजम् । अनन्तकोटिमोहनं नमामि नन्दनन्दनम् ॥ २॥ सुनासिकाग्रमौक्तिकं स्वच्छदन्तपङ्क्तिकम् । नवाम्बुदाङ्गचिक्कणं नमामि नन्दनन्दनम् ॥ ३॥ करेणवेणुरञ्जितं गतिः करीन्द्रगञ्जितम् । दुकूलपीतशोभनं नमामि नन्दनन्दनम् ॥ ४॥ त्रिभङ्गदेहसुन्दरं नखद्युतिः सुधाकरम् । अमूल्यरत्नभूषणं नमामि नन्दनन्दनम् ॥ ५॥ सुगन्ध अङ्गसौरभं उरो विराजि कौस्तुभम् । स्फुरत् श्रीवत्सलाञ्छनं…

श्रीनन्दकुमाराष्टकम्

|| श्रीनन्दकुमाराष्टकम् || सुन्दरगोपालं उरवनमालं नयनविशालं दुःखहरं वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् । वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ १॥ सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् । वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ २॥ शोभितमुखधुलं यमुनाकूलं निपटअतूलं सुखदतरं मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् । वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं…

गौराङ्गाष्टकम्

|| गौराङ्गाष्टकम् || मलयसुवासितभूषितगात्रं मूर्तिमनोहरविश्वपवित्रम् । पदनखराजितलज्जितचन्द्रे शुद्धकनक रय गौर नमस्ते ॥ १॥ स्वगात्रपुलकलोचनपूर्णं जीवदयामयतापविदीर्णम् । साङ्ख्यजलपतिनामसहस्रे शुद्धकनक रय गौर नमस्ते ॥ २॥ हुङ्कृततर्जनगर्जनरङ्गे लोचनकलियुगपाप स शङ्के । पदरजताडितदुष्टसमस्ते शुद्धकनक जय गौर नमस्ते ॥ ३॥ सिंहगमन जिति ताण्डवलील दीनदयामयतारणशील । अजभवश्रीहरिपदनखचन्द्रे शुद्धकनक जय गौर नमस्ते ॥ ४॥ गौराङ्गवृतमालतिमाले मेरुविलम्बितगङ्गाधारे । मन्दमधुरहासभासमुखचन्द्रे शुद्धकनक जय गौर नमस्ते…

गोवर्धनधराष्टकम्

|| गोवर्धनधराष्टकम् || गोपनारी मुखांभोजभास्करं वेणुवाद्यकम् । राधिकारसभोक्तारं गोवर्धनधरं भजे ॥ १॥ आभीरनगरीप्राणप्रियं सत्यपराक्रमम् । स्वभृत्यभयभेत्तारं गोवर्धनधरं भजे ॥ २॥ व्रजस्त्री विप्रयोगाग्नि निवारिकमहर्निशम् । महामरकतश्यामं गोवर्धनधरं भजे ॥ ३॥ नवकञ्जनिभाक्षं च गोपीजनमनोहरम् । वनमालाधरं शश्वद्गोवर्धनधरं भजे ॥ ४॥ भक्तवाञ्छाकल्पवृक्षं नवनीतपयोमुखम् । यशोदामातृसानन्दं गोवर्धनधरं भजे ॥ ५॥ अनन्यकृतहृद्भावपूरकं पीतवसनम् । रासमन्डलमध्यस्थं गोवर्धनधरं भजे ॥ ६॥ ध्वजवज्रादिसच्चिह्न…

श्रीगोपीजनवल्लभाष्टकम्

|| श्रीगोपीजनवल्लभाष्टकम् || ॥ अथ श्रीगोपीजनवल्लभाष्टकम् ॥ सरोजनेत्राय कृपायुताय मन्दारमालापरिभूषिताय । उदारहासाय ससन्मुखाय नमोऽस्तु गोपीजनवल्लभाय ॥ १॥ आनन्दनन्दादिकदायकाय बकीबकप्राणविनाशकाय । मृगेन्द्रहस्ताग्रजभूषणाय नमोऽस्तु गोपीजनवल्लभाय ॥ २॥ गोपाललीलाकृतकौतुकाय गोपालकाजीवनजीवनाय । भक्तैकगम्याय नवप्रियाय नमोऽस्तु गोपीजनवल्लभाय ॥ ३॥ मन्थानभाण्डाखिलभञ्जनाय हैयङ्गवीनाशनरञ्जनाय । गोस्वादुदुग्धामृतपोषिताय नमोऽस्तु गोपीजनवल्लभाय ॥ ४॥ कलिन्दजाकूलकुतूहलाय किशोररूपाय मनोहराय । पिशङ्गवस्त्राय नरोत्तमाय नमोऽस्तु गोपीजनवल्लभाय ॥ ५॥ धराधराभाय धराधराय श‍ृङ्गारहारावलिशोभिताय…

श्रीगोपाललालाष्टकम्

|| श्रीगोपाललालाष्टकम् || श्रीमदाचार्यचरणौ साष्टाङ्गं प्रणिपन्पतौ । विरच्यतेऽष्टकमिदं श्रीमद्गोपालपुष्टिदम् ॥ १॥ यस्यानुकम्पावशतः सुदुर्लभं मानुष्यमाप्तं परमस्य पुंसः । सर्वार्थदं दीनदयालुमेकं गोपाललालं शरणं प्रपद्ये ॥ २॥ योऽदात्स्वसेवोपयिकं शरीरं साङ्गं समर्थं शुभमर्थदं च । सेवाऽनभिज्ञः परमस्य तस्य गोपाललालं शरणं प्रपद्ये ॥ ३॥ निजाङ्गसन्दर्शनयोगयोग्यता योऽदाद्दृशं मे परमो दयालुः । तदङ्गसौन्दर्य्यरसावभिज्ञो गोपाललालं शरणं प्रपद्ये ॥ ४॥ श्रीमत्कथासंश्रवणोपयोगि- श्रोत्रं ददौ यः…

श्रीगोकुलेशशयनाष्टकम्

|| श्रीगोकुलेशशयनाष्टकम् || प्रातः स्मरामि गुरुगोकुलनाथसंज्ञं संसारसागरसमुत्तरणैकसेतुम् । श्रीकृष्णचन्द्रचरणाम्बुजसर्वकाल संशुद्धसेवनविधौ कमलावतारम् ॥ १॥ प्रस्वाप्य नन्दतनयं प्रणयेन पश्चा दानन्दपूर्णनिजमन्दिरमभ्युपेतम् । स्थूलोपधानसहितासनसन्निषण्णं श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ २॥ अभ्यग्रभक्तकरदत्तसिताभ्रयुक्तं ताम्बूलपूर्णवदनं सदनं रसाब्धेः । आवेष्टितं परित आत्मजनैरशेषैः श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ ३॥ जाते तथा प्रभुकथाकथने तदानी मुत्थापिते परिचयेण पृथूपधाने । गन्तुं गृहाय सुहृदः स्वयमुक्तवन्तं श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ ४॥…

श्रीगोकुलेशद्वात्रिंशन्नामाष्टकम्

|| श्रीगोकुलेशद्वात्रिंशन्नामाष्टकम् || श्रीगोकुलेशो जयति नमस्ते गोकुलाधिप । नमस्ते गोकुलाराध्य नमस्ते गोकुलप्रभो ॥ १॥ नमस्ते गोकुलमणे नमस्ते गोकुलोत्सव । नमस्ते गोकुलैकाश नमस्ते गोकुलोदय ॥ २॥ नमस्ते गोकुलपते नमस्ते गोकुलात्मक । नमस्ते गोकुलस्वामिन् नमस्ते गोकुलेश्वर ॥ ३॥ नमस्ते गोकुलानन्द नमस्ते गोकुलप्रिय । नमस्ते गोकुलाह्लाद नमस्ते गोकुलव्रज ॥ ४॥ नमस्ते गोकुलोत्साह नमस्ते गोकुलावन । नमस्ते गोकुलोद्गीत नमस्ते…

श्रीगोकुलनन्दगोविन्ददेवाष्टकम्

|| श्रीगोकुलनन्दगोविन्ददेवाष्टकम् || कोटिकन्दर्पसन्दर्पविध्वंसन स्वीयरूपामृताप्लावितक्ष्मातल । भक्तलोकेक्षणं सक्षणं तर्षयन् गोकुलानन्द गोविन्द तुभ्यं नामः ॥ १॥ यस्य सौरभ्यसौलभ्यभाग्गोपिका भाग्यलेशाय लक्ष्म्यापि तप्तं तपः । निन्दितेन्दीवरश्रीक तस्मै मुहु- र्गोकुलानन्द गोविन्द तुभ्यं नामः ॥ २॥ वंशिकाकण्ठयोर्यः स्वरस्ते स चेत् तालरागादिमान् श्रुत्यनुभ्राजितः । का सुधा ब्रह्म किं का नु वैकुण्ठमु- द्गोकुलानन्द गोविन्द तुभ्यं नामः ॥ ३॥ यत्पदस्पर्शमाधुर्यमज्जत्कुचा धन्यतां यान्ति गोप्यो…

रोगहरश्रीगुरुवातपुराधिपाष्टकम्

|| रोगहरश्रीगुरुवातपुराधिपाष्टकम् || गुरुपुरमन्दिर गोकुलसुन्दर गोपपुरन्दर गोपतनो गुणगणसागर भक्तशिवङ्कर कौस्तुभकन्धर केलितनो । गणपतिहोमजधूमसुवासितगव्यपयोर्पणतुष्टमते जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥ १॥ मुरहर माधव मङ्गलसम्भव मान्यसुवैभव रम्यतनो मधुरिपुसूदन मातृसुपूजन मङ्गलवादन मोदमते । मधुमयभाषण चोद्धववन्दन तातसुपूजन तृप्तमते जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥ २॥ प्रतिदिनमादरपूर्वदिनार्चितमाल्यविसर्जनदत्ततनो प्रतिदिनमर्पिततैलसुषेवणनाशितदुस्सहरोगरिपो । प्रतिदिनमद्भुतचन्दनचर्चित चम्पककल्पितमाल्यतते जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥…

Shri Durga Ashtakam

|| Shri Durga Ashtakam || Katyayani Mahamaye Khadga Bana Dhanur Dhare, Khadga Dharini Chandika Shri Durga Devi Namo’stu Te. Vasudeva Sute Kali Vasudeva Sahodari, Vasundhara Shriye Nande Durga Devi Namo’stu Te. Yoga Nidre Maha Nidre Yogamaye Maheshvari, Yoga Siddhi Kari Shudhe Durga Devi Namo’stu Te. Shankha Chakra Gada Pane Sharngajyayatabāhave, Pītāmbaradhare Dhanye Durga Devi Namo’stu…

श्री अनन्तकृष्णवरदराजाष्टकम्

|| श्री अनन्तकृष्णवरदराजाष्टकम् || श्री-भूमि-नीला-परिसेव्यमान मनन्तकृष्णं वरदाख्य-विष्णुम् । अघौघविध्वंसकरं जनानां अघंहरेशं प्रभजे सदाऽहम् ॥ १॥ तिष्ठन् स्वधिष्ण्ये परितो विपश्यन् आनन्दयन् स्वानभिराममूर्त्या । योऽघंहरग्रामजनान् पुनीते ह्यनन्तकृष्णं वरदेशमीडे ॥ २॥ भक्तान् जनान् पालनदक्षमेकं विभुं श्रियाऽऽश्लिष्यतनुं महान्तम् । सुपर्णपक्षोपरिरोचमान मनन्तकृष्णं वरदेशमीडे ॥ ३॥ सूर्यस्य कान्त्या सदृशैर्विराजद् रत्नैः समालङ्कृतवेषभूषम् । तमो विनाशाय मुहुर्मुहुस्त्वा मनन्तकृष्णं वरदेशमीडे ॥ ४॥ अनन्तसंसार-समुद्रतार नौकायितं…

अद्वैताष्टकं २

|| अद्वैताष्टकं २ || गङ्गातीरे तत्पयोभिस्तुलस्यः पत्रैः पुष्पैः प्रेमहुङ्कारघोषैः । प्राकट्यार्थं गौरमाराधयद्यः श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ १॥ यद्धुङ्करैः प्रेमसिन्धोर्विकारै- राकृष्टः सन् गौरगोलोकनाथः । आविर्भुतः श्रीनवद्वीपमध्ये श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ २॥ ब्रह्मादीमां दुर्लभप्रेमपूरै- रादिनां यः प्लावयामास लोकम् । आविर्भाव्य श्रीलचैतन्यचन्द्रं श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ३॥ श्रीचैतन्यः सर्वशक्तिप्रपूर्णो यस्यैवाजमात्रतोऽन्तर्ददेऽपि । दुर्विजेयं यस्य कारुण्यकृत्यं श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ४॥ सृष्टिस्थित्यन्तं विधातुं प्रवृत्त…

अच्युताष्टकं २

|| अच्युताष्टकं २ || अथ अच्युताष्टकम् ॥ अभिलपननिसर्गादच्युताख्ये भजे त्वां हरसि मदघवृन्दं त्वद्भुबुक्षावशात् त्वम् । अघहृदिति तवांब प्रत्युत ख्यातिदोऽहं त्वयि मम वद का वा संगतिर्दैन्यवाचाम् ॥ १॥ चिरातीता सान्दीपनितनुभुवः कालभवन- प्रपत्तिस्तं पित्रोः पुनरगमयत् सन्निधिमिति । यशः कृष्णस्येदं कथमहह न त्वां रसनया यदि श्रीकृष्णाख्ये भजति स तादनीं मुनिसुतः ॥ २॥ हरेर्यच्चोरत्वं यदपि च तथा जारचरितं तदेतत्…

सूर्याष्टकम् २

|| सूर्याष्टकम् २ || श्रीगणेशाय नमः । प्रभाते यस्मिन्नभ्युदितसमये कर्मसु नृणां प्रवर्तेद्वै चेतो गतिरपि च शीतापहरणम् । गतो मैत्र्यं पृथ्वीसुरकुलपतेर्यश्च तमहं नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ १॥ त्रिनेत्रोऽप्यञ्जल्या सुरमुकुटसंवृष्टचरणे बलिं नीत्वा नित्यं स्तुतिमुदितकालास्तसमये । निधानं यस्यायं कुरुत इति धाम्नामधिपति नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ २॥ मृगाङ्के मूर्तित्वं ह्यमरगण भर्ताकृत इति नृणां वर्त्मात्मात्मोक्षिणितविदुषां यश्च यजताम् ।…

श्रीसूर्याष्टकम्

|| श्रीसूर्याष्टकम् || ॥ श्रीगणेशाय नमः ॥ जगन्नाथमेकं जगत्प्राणरूपं जगत्कारणं सर्वदा रक्षकं च । जगत्स्वामिनं व्यापकं ह्येकमात्रं स्वयं ज्योतिरूपं च सूर्यं नमामि ॥ १॥ जगन्नायकं विश्ववन्द्यं वरेण्यं जगत्स्वामिनं सूर्यमूर्तिं सुपूज्यम् । जगच्चक्षुरूपं प्रकाशं ह्यनन्तं स्वयं ज्योतिरूपं च सूर्यं नमामि ॥ २॥ सदा ह्येकचक्रं प्रभं देवदेवं प्रदीपं महातेजरूपं च शुभ्रम् । सदैवं प्रभुं वेदवेदान्त वेद्यं स्वयं…

श्रीपवनजाष्टकम्

|| श्रीपवनजाष्टकम् || भवभयापहं भारतीपतिं भजकसौख्यदं भानुदीधितिम् । भुवनसुन्दरं भूतिदं हरिं भजत सज्जना मारुतात्मजम् ॥ १॥ अमितविक्रमं ह्यञ्जनासुतं भयविनाशनं त्वब्जलोचनम् । असुरघातिनं ह्यब्धिलङ्घिनं भजत सज्जना मारुतात्मजम् ॥ २॥ परभयङ्करं पाण्डुनन्दनं पतितपावनं पापहारिणम् । परमसुन्दरं पङ्कजाननं भजत सज्जना मारुतात्मजम् ॥ ३॥ कलिविनाशकं कौरवान्तकं कलुषसंहरं कामितप्रदम् । कुरुकुलोद्भवं कुम्भिणीपतिं भजत सज्जना मारुतात्मजम् ॥ ४॥ मतविवर्धनं मायिमर्दनं मणिविभञ्जनं…

श्रीभोगापुरेशाष्टकम्

|| श्रीभोगापुरेशाष्टकम् || श्रीमद्भोगापुरेशो भवतु भवगुरुर्भूतये मे दयालुः ज्ञानं भक्तिं विरक्तिं प्रदित शमदमाद्यङ्गजातं सुखाय । स्तोतुं वाऽऽराधितुं त्वां न च मम सुमतिः कल्यदीनेन्द्रियेशैः सन्मार्गाद्भ्रान्तितोऽयं पुरुगुण दयया पाहि भोगापुरेश ॥ १॥ मूढोऽहं ज्ञानहीनस्तव पदयुगले भक्तिहीनो दुरात्मा- थापि त्वामेव जाने गुरुवर वचसा स्वामिनं नापरं वा । तस्मादस्मत्कृतागः क्षमय कुरु कृपां सत्त्वसिन्धो हनूमन् दास्यं मे देहि नित्यं दशरथतनयप्रीत…

गायत्र्यष्टकम्

|| गायत्र्यष्टकम् || विश्वामित्रपःफलां प्रियतरां विप्रालिसंसेवितां नित्यानित्यविवेकदां स्मितमुखीं खण्डेन्दुभूषोज्ज्वलाम् । ताम्बूलारुणभासमानवदनां मार्ताण्डमध्यस्थितां गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ १ ॥ जातीपङ्कजकेतकीकुवलयैः संपूजिताङ्घ्रिद्वयां तत्त्वार्थात्मिकवर्णपङ्क्तिसहितां तत्त्वार्थबुद्धिप्रदाम् । प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ २ ॥ मञ्जीरध्वनिभिः समस्तजगतां मञ्जुत्वसंवर्धनीं विप्रप्रेङ्खितवारिवारितमहारक्षोगणां मृण्मयीम् । जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ ३ ॥…

Join WhatsApp Channel Download App