अवलोकितेश्वराष्टकस्तोत्रम् PDF संस्कृत
Download PDF of Avalokiteshvarashtakastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
अवलोकितेश्वराष्टकस्तोत्रम् संस्कृत Lyrics
|| अवलोकितेश्वराष्टकस्तोत्रम् ||
ॐ नमोऽवलोकितेश्वराय ।
स्तुत्वा गुणैरनुपमैरनुबिन्दुपात्रं स्तोत्रं मया कृतमिदं जडवालिशेन ।
लोकेश्वरं गुणनिधिं गुणसागरं च नित्यं नमामि शिरसाञ्जलिसम्पुटेन ॥ १॥
प्राणेषु यन् स्रवति येन रसाम्बुपारान् क्षुत्तृष्णदुःखपरिपीडितसर्वसत्त्वान् ।
एवंविधं जगदिदं परिपालनाय तस्मै नमोऽस्तु सततं हि यथार्थनाम्ने ॥ २॥
सत्कुङ्कुमात्तमरुणाङ्कसमानवर्णं द्वात्रिंशलक्षणविभूषितगात्रशोभम् ।
सर्वेषु यस्य करुणामयवत्सलत्वं तस्मै नमामि भवते करुणामयाय ॥ ३॥
संसारसागरमहालयनाशदक्ष एकस्त्वमेव शरणं भुवि नैकनाथ ।
केनापि त्वद्गुणगणा गणने न शक्यास्तं लोकनाथमवलोकितनामसंज्ञम् ॥ ४॥
नानाविधाभरणमण्डितदिव्यरूपं बालेन्दुलग्नजटभूषितलोकनाथम् ।
वामे च मण्डलधरं वरदं च सव्ये त्वां लोकनाथ शरणं प्रव्रजामि नित्यम् ॥ ५॥
ब्रह्मादिभिः परिवृतं सुरसिद्धसङ्घैर्गन्धर्वकिन्नरमहोरगनागयक्षैः ।
नाथस्य यस्य भवतश्चरणाम्बुजं च तं लोकनाथचरणं शरणं व्रजामि ॥ ६॥
भूतैः पिशाचगरुडोरगराक्षसीभिः कुम्भाण्डपूतनमहल्लकराजराजैः ।
वैश्वानरासुरशतैः परिवारभूतं तं लोकनाथचरणं शरणं गतोऽस्मि ॥ ७॥
अब्धिर्दिवाकरकरैर्नहि शोषमेति तद्वत्कवीश्वरशतैर्गुणसागरस्ते ।
लोकेश्वर प्रथितकीर्तिनिधानभूतो न क्षीयते गुणनिधिर्गुणसागरस्य ॥ ८॥
श्लोकाष्टकं प्रतिदिनं खलु ये पठन्ति ते प्राप्नुवन्ति सहसा धनपुत्रमोक्षान् ।
कुष्ठादिरोगनिकरं क्षमतां प्रयाति वन्दामहे च नितरां तव पादयुग्मे ॥ ९॥
इति श्री आर्यावलोकितेश्वरस्य श्लोकाष्टकं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअवलोकितेश्वराष्टकस्तोत्रम्
READ
अवलोकितेश्वराष्टकस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
