श्री बलराम स्तुति PDF संस्कृत
Download PDF of Balaramastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्री बलराम स्तुति संस्कृत Lyrics
|| श्री बलराम स्तुतिः (Balarama Stuti PDF) ||
निष्पात्याशु हिमांशुमण्डलमधः पीत्वा तदन्तः सुधां
कृत्वैनं चषकं हसन्निति हलापानाय कौतूहलात् ।
भो देव द्विजराजि मादृशि सुरास्पर्शोऽपि न श्रेयसे
मां मुञ्चेति तदर्थितो हलधरः पायादपायाज्जगत् ॥ १॥
प्रेमोन्नामितरेवतीमुखगतामास्वाद्य कादम्बरीं
उन्मत्तं क्वचिदुत्पतत्क्वचिदपि भ्राम्यत्क्वचित्प्रस्खलत् ।
रक्तापाङ्गमधीरलाङ्गलमलिश्यामाम्बराडम्बरं
क्लेशं नः कवलीकरोतु सकलं पाकाभिरामं महः ॥ २॥
उष्णालु क्वचिदर्कधामनि मनाङ् निद्रालु शीतानिले
हालानां गृहयालु चुम्बदसकृल्लज्जालु जायामुखम् ।
नित्यं निष्पतयालु तिर्यगवनीशय्याशयालु क्षणं
गीतेभ्यः स्पृहयालु धाम धवलं दीने दयालु श्रये ॥ ३॥
इति श्रीबलरामस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री बलराम स्तुति
READ
श्री बलराम स्तुति
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
