श्रीभगवन्नारायणाचार्याष्टकम् PDF संस्कृत
Download PDF of Bhagavannarayanacharyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीभगवन्नारायणाचार्याष्टकम् संस्कृत Lyrics
|| श्रीभगवन्नारायणाचार्याष्टकम् ||
आनन्दभाष्यवेत्तारं विशिष्टाद्वैतवादिनम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ १॥
दीक्षितं धर्मरक्षायां भक्तिसाधनसंयुतम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ २॥
असन्मार्गान्निवार्याथ सन्मार्गस्य च दर्शकम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ३॥
भवरोगाकुलानां च राममन्त्रौषधिप्रदम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ४॥
मुद्रामालोर्ध्वपुण्ड्रादिधारकै सिद्धसेवितम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ५॥
रामानन्दमतासक्तं योगीन्द्रं रामचिन्तकम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ६॥
रहस्यत्रयबोधेन शिष्याज्ञानस्य हारकम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ७॥
सत्याहिंसादयादीनां सद्धर्माणां महोदधिम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ८॥
इति श्रीभगवन्नारायणाचार्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीभगवन्नारायणाचार्याष्टकम्
READ
श्रीभगवन्नारायणाचार्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
