श्रीभगवत्स्तुतिः सायङ्कालीन PDF संस्कृत
Download PDF of Bhagavatstutihsayankalina Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीभगवत्स्तुतिः सायङ्कालीन संस्कृत Lyrics
|| श्रीभगवत्स्तुतिः सायङ्कालीन ||
श्रीहंसञ्च सनत्कुमारप्रभृतीन् वीणाधरं नारदं
निम्बादित्यगुरूंश्च द्वादशगुरून् श्रीश्रीनिवासादिकान् ।
वन्दे सुन्दरभट्टदेशिकमुखान् वस्विन्दुसङ्ख्यायुतान्
श्रीव्यासाद्धरिमध्यगाच्च परतः सर्वान् गुरून्सादरम् ॥ १॥
हे निम्बार्क! दयानिधे! गुणनिधे! हे भक्तचिन्तामणे!
हे आचार्यशिरोमणे! मुनिगणैरामृग्यपादाम्बुज! ।
हे सृष्टिस्थितिपालक! प्रभवन! हे नाथ! मायाधिप!
हे गोवर्द्धनकन्दरालय! विभो! मां पाहि सर्वेश्वर! ॥ २॥
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुः करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ ३॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ ४॥
हे राधे! वृषभानुभूपतनये! हे पूर्णचन्द्रानने!
हे कान्ते! कमनीय-कोकिलरवे! वृन्दावनाधीश्वरि! ।
हे मत्प्राणपरायणे! च रसिके! हे सर्वयूथेश्वरि!
आगत्य त्वरितं प्रतप्तमनिशं मां दीनमानन्दय ॥ ५॥
हे राधे! वृषभानुभूपतनये! सर्वेश्वरी! राधिके,
हे कृष्णानन-पङ्कज-भ्रमरिके कृष्णप्रिये माधवि ।
हे वृन्दावननागरी गुणगुरो दामोदरप्रेयसि
हे हे श्रीललितादिक-प्रियसखि प्राणाधिके पाहि माम् ॥ ६॥
सिञ्जन्नूपुरपादपद्मयुगलां हंसीगतिं विभ्रतीं
चञ्चत्खञ्जनमञ्जुलोचनयुगां पीनोल्लसत्कन्धराम् ।
शुम्भत्काञ्चनकङ्कणद्युतिमिलत्पाणौ चलच्चामरं
कुर्वाणां हरिराधिकोपरि सदा श्रीरङ्गदेवीं भजे ॥ ७॥
श्रीरङ्गादिसुदेविका च ललिता वैशाखिका चम्पिका
चित्रा तुङ्गसखीन्दुलेखिक-परा चाष्टौ प्रधानप्रियाः ।
अन्याः सन्ति मनोहराः प्रियतमा नित्यं नवीनायिताः
वन्दे तच्चरणारविन्दमनिशं दासोऽस्म्यहं श्रद्धया ॥ ८॥
स्वभावतोऽपास्तसमस्तदोष-
मशेषकल्याणगुणैकराशिम् ।
व्यूहाङ्गिनं ब्रह्म परं वरेण्यं
ध्यायेम कृष्णं कमलेक्षणं हरिम् ॥ ९॥
अङ्गे तु वामे वृषभानुजां मुदा
विराजमानामनुरूपसौभगाम् ।
सखीसहस्रैः परिसेवितां सदा
स्मरेम देवीं सकलेष्टकामदाम् ॥ १०॥
नान्या गतिः कृष्णपदारविन्दात्
सन्दृश्यते ब्रह्मशिवादिवन्दितात् ।
भक्तेच्छयोपात्तसुचिन्त्यविग्रहा-
दचिन्त्यशक्तेरविचिन्त्यसाशयात् ॥ ११॥
अहो दयालो स्वदयावशेन वै
प्रपश्य मां प्रापय पादसेवने ।
यथा पुनर्मे विषयेषु माधव !
रतिर्न भूयाद्धि तथैव साधय ॥ १२॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥ १३॥
इति सायङ्कालीन श्रीभगवत्स्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीभगवत्स्तुतिः सायङ्कालीन
READ
श्रीभगवत्स्तुतिः सायङ्कालीन
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
