श्रीभैरवपञ्जरकवचम् PDF संस्कृत
Download PDF of Bhairavapanjarakavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्रीभैरवपञ्जरकवचम् संस्कृत Lyrics
|| श्रीभैरवपञ्जरकवचम् ||
पार्वत्युवाच
देव देव महादेव संसार प्रियकारक ।
पञ्जरं बटुकस्यास्य कथनीयं मम प्रभो ॥ १॥
श्रीशिव उवाच
पूर्वम् भस्मासुरत्रासाद् भय विह्वलतां स्वयम् ।
पठनादेव मे प्राणा रक्षितः परमेश्वरि ॥ २॥
सर्वदुष्टविनाशाय सर्वरोगनिवारणम् ।
दुःखशान्तिकरं देवि ह्यल्पमृत्युभयापहम् ॥ ३॥
राज्ञां वश्यकरं चैव त्रैलोक्य विजयप्रदम् ।
सर्वलोकेषु पूज्यश्च लक्ष्मीस्तस्य गृहे स्थिरा ॥ ४॥
अनुष्ठानं कृतं देवि पूजनं च दिने दिने ।
विना पञ्जरपाठेन तत्सर्वं निष्फलं भवेत् ॥ ६॥
अस्य श्रीबटुकभैरवपञ्जरकवचमन्त्रस्य कालाग्निरुद्रः ऋषिः ।
अनुष्टुप्छन्दः । ॐ बटुकभैरवो देवता ।
ह्रां बीजं ॐ भैरवी वल्लभा शक्तिः ।
ॐ दण्डपाणये नमः कीलकम् ।
मम सकलकामनासिद्ध्यर्धे जपे विनियोगः ॥
ॐ ह्रां प्राच्यां डमरुहस्तो रक्तवर्णो महाबलः ।
प्रत्यक्षमहमीशान बटुकाय नमो नमः ॥
ॐ ह्रीं दण्डधारी दक्षिणे च पश्चिमे खड्गधारिणे ।
ॐ ह्रूं घटावादी मूतिरुत्तरस्यां दिशिस्तथा ।
ॐ ह्रैं अग्निरूपो ह्याग्नेय्यां नैरृत्यां च दिगम्बरः ।
ॐ ह्रौं सर्वभूतस्थो वायव्ये भूतानां हितकारकः ॥
ॐ ह्रश्चवाष्टसिद्धिश्च ईशाने सर्वसिद्धिकरः परः ।
प्रत्यक्षमहमीशान बटुकाय नमो नमः ॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः स्वाहा ऊर्ध्वं खेचरिणं न्यसेत् ।
रुद्ररूपस्तु पाताले बटुकाय नमो नमः ॥
ॐ ह्रीं बटुकाय मूर्ध्नि ललाटे भीमरूपिणम् ।
आपदुद्धरणं नेत्रे मुखे च बटुकं न्यसेत् ॥ १॥
कुरु कुरु सर्वसिद्धिर्देहे गेहे व्यवस्थितः ।
बटुकाय ह्रीं सर्वदेहे विश्वस्य सर्वतो दिशि ॥ २॥
आपदुद्धारकः पातु ह्यापादतलमस्तकम् ।
हसक्षमलवरयुं पातु पूर्वे दण्डहस्तस्तु दक्षिणे ॥ ३॥
हसक्षमलवरयुं नैरृत्ये हसक्षमलवरयुं पश्चिमेऽवतु ।
सर्वभूतस्थो वायव्ये हसक्षमलवरयुं घटावादिन उत्तरे ॥ ४॥
हंसः सोऽहं तु ईशाने चाष्टसिद्धिकरः परः ।
शंक्षेत्रपाल ऊर्ध्वे तु पाताले शिव सन्निभः ॥ ५॥
एवं दशदिशो रक्षेद्बटुकाय नमो नमः ।
इति ते कथितं ह्रीं श्रीं क्लीं ऐं सदाऽवतु ॥ ६॥
ॐ फ्रें हुं फट् च सर्वत्र त्रैलोक्ये विजयी भवेत् ।
लक्ष्मीं ऐं श्रीं लं पृथिव्यां च आकारो हं ममावतु ॥ ७॥
स्रौं प्रौं ज्रौं ऊँ यं वायव्यां रं रं रं तेजोरूपिणम् ।
ॐ कं खं गं घं ङं बटुकं चं छं जं झं ञं कपालिनम् ॥ ८॥
टं ठं डं ढं णं क्षेत्रेशं तं थं दं धं नं उमाप्रियम् ।
पं फं बं भं मं ममरक्ष यं रं लं भैरवोत्तमम् ॥ ९॥
वं शं षं सं आदिनाथं लं क्षं वै क्षेत्रपालकम् ।
(फलश्रुतिः)
एवं पञ्जरमाख्यातं सर्वसिद्धिकरं भवेत् ॥ १०॥
दुःखदारिद्र्यशमनं रक्षकः सर्वतो दिशः ।
आवश्यं सर्वतो वक्ष्यं सर्वबीजैश्च सम्पुटम् ॥ ११॥
सर्वरोगहरं दिव्यं सर्वत्र सुखमाप्नुयात् ।
एवं रहस्यमाख्यातं देवानामपि दुर्लभम् ॥ १२॥
वज्रपञ्जरनामेदं ये शृण्वन्ति वरानने ।
आयुरारोग्यमैश्वर्यं कीर्तिलाभः सुखं जयः ॥ १३॥
लक्ष्मी मनोरमा बुद्धिस्तेषां गेहे व्यवस्थिता ।
सुशीलाय सुदान्ताय गुरुभक्तिपराय च ॥ १४॥
तस्य शीघ्रं च दातव्यमन्यथा न कदाचन ।
गोपनीयं प्रयत्नेन सर्वगोप्यमयं भवेत् ॥ १५॥
यस्मै कस्मै न दातव्यं न दातव्यं कदाचन ।
राज्यं देयं शिरो देयं न देयं भैरवाक्षरम् ॥ १६॥
एककालं द्विकालं वा त्रिकालं पठते नरः ।
सर्वपापविनिर्मुक्तो शिवेन सह मोदते ॥ १७॥
॥ इति श्रीभैरवपञ्जरकवचं समाप्तम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीभैरवपञ्जरकवचम्
READ
श्रीभैरवपञ्जरकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
