भक्तशरणस्तोत्रम् PDF संस्कृत
Download PDF of Bhaktasharanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
भक्तशरणस्तोत्रम् संस्कृत Lyrics
|| भक्तशरणस्तोत्रम् ||
‘
श्रीगणेशाय नमः ॥
आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु ।
आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ १॥
द्रष्टॄंस्तवोत्सवस्य हि लोकान्यपात्तथा मृत्योः ।
भा भीरस्त्विति शम्भो मध्ये तिर्यग्गतागतैर्ब्रूषे ॥ २॥
प्रकरोति करुणयाऽऽर्द्रान् शम्भुर्नम्रानिति प्रबोधाय ।
धर्मोऽयं किल लोकानार्द्रान्कुरुतेऽद्य गौरीश ॥ ३॥
आद्रा नटेशस्य मनोऽब्जवृत्तिरित्यर्थसम्बोधकृते जनानाम् ।
आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश ॥ ४॥
बाणार्चने भगवतः परमेश्वरस्य
प्रीतिभवेन्निरुपमेति यतः पुराणैः ।
सम्बोध्यते परशिवस्य ततः करोति
बाणार्चनं जगति भक्तियुता जनालिः ॥ ५॥
यथान्धकं त्वं विनिहत्य शीघ्रं लोकस्य रक्षामकरोः कृपाब्धे ।
तथाज्ञतां मे विनिवार्य शीघ्रं विद्यां प्रयच्छाशु सभाधिनाथ ॥ ६॥
इति भक्तशरणस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowभक्तशरणस्तोत्रम्
READ
भक्तशरणस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
