श्रीभवानीकवचम् PDF संस्कृत
Download PDF of Bhavaaniikavach Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्रीभवानीकवचम् संस्कृत Lyrics
|| श्रीभवानीकवचम् ||
श्रीगणेशाय नमः ।
श्री पार्वत्युवाच ।
भगवन् सर्वमाख्यातं मन्त्रं यन्त्रं शुभ प्रदम् ।
भवान्याः कवचं ब्रूहि यद्यहं वल्लभा तव ॥ १॥
ईश्वर उवाच ।
गुह्याद्गुह्यतरं गोप्यं भवान्याः सर्वकामदम् ।
कवचं मोहनं देवि गुरुभक्त्या प्रकाशितम् ॥ २॥
राज्यं देयं च सर्वस्वं कवचं न प्रकाशयेत् ।
गुरु भक्ताय दातव्यमन्यथा सिद्धिदं नहि ॥ ३॥
ॐ अस्य श्रीभवानी कवचस्य सदाशिव ऋषिरनुष्टुप छन्दः,
मम सर्वकामना सिद्धयर्थे श्रीभवानी त्रैलोक्यमोहनकवच
पाठे विनियोगः
पद्मबीजाशिरः पातु ललाटे पञ्चमीपरा ।
नेत्रे काम प्रदा पातु मुखं भुवन सुन्दरी ॥ ४॥
नासिकां नारसिंही च जिह्वां ज्वालामुखी तथा ।
श्रोत्रे च जगतां धात्री करौ सा विन्ध्यवासिनी ॥ ५॥
स्तनौ च कामकामा च पातु देवी सदाशुचिः ।
उदरं मोहदमनी कण्डली नाभमण्डलम् ॥ ६॥
पार्श्वं पृष्ठकटी गुह्यस्थाननिवासिनी ।
ऊरू मे हिङ्गुला चैव जानुनी कमठा तथा ॥ ७॥
पादौ विघ्नविनाशा च अङ्गुलीः पृथिवी तथा ।
रक्ष-रक्ष महामाये पद्मे पद्मालये शिवे ॥ ८॥
वाञ्छितं पूरयित्वा तु भवानी पातु सर्वदा ।
य इदं कवचं देव्या जानाति सच मन्त्रवित् ॥ ९॥
राजद्वारे श्मशाने च भूतप्रेतोपचारिके ।
बन्धने च महादुःखे पठेच्छत्रुसमागमे ॥ १०॥
स्मरणात्कवचस्यास्य निर्भयो जायते नरः ।
प्रयोगमुपचारस्य भवान्याः कर्तुमिच्छति ॥ ११॥
कवचं प्रपठेदादौ ततः सिद्धिमवाप्नुयात् ।
भूर्जपत्रे लिखित्वा तु कवचं यस्तुधारयेत् ॥ १२॥
देहे च यत्र कुत्रापि सर्व सिद्धिर्भवेन्नरः ।
शस्त्रास्त्रस्य भयं नैव भूतादि भयनाशनम् ॥ १३॥
गुरु भक्तिं समासाद्य भवान्यास्तवनं कुरु ।
सहस्र नाम पठने कवचं प्रथमं गुरु ॥ १४॥
नन्दिने कथितं देवि तवाग्रे च प्रकाशितम् ।
सागन्ता जायते देवि नान्यथा गिरिनन्दिनि ॥ १५॥
इदं कवचमज्ञात्वा भवानीं स्तौतियो नरः ।
कल्प कोटि शतेनापि नभवेत्सिद्धिदायिनी ॥ १६॥
॥ इति श्रीभवानी त्रैलोक्यमोहनकवचं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीभवानीकवचम्
READ
श्रीभवानीकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
