भेदभङ्गाभिधानस्तोत्रम् PDF संस्कृत
Download PDF of Bhedabhangabhidhanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
भेदभङ्गाभिधानस्तोत्रम् संस्कृत Lyrics
|| भेदभङ्गाभिधानस्तोत्रम् ||
चतुर्वाहनाभ्यम्बुजाद्भूतवन्तं भवन्तं भवच्छेदकर्तारमुग्रम् ।
मुखानां चतुष्कं दधानं प्रधानं शिवं सृष्टिकर्तारमीशानमीडे ॥ १॥
उमाङ्कश्रितं स्वं करं चोत्क्षिपन्तं गिरीशोत्तमाङ्गस्थचन्द्रं दिधीर्षुम् ।
मुहुर्गर्जितं सस्मितं सर्वपूज्यं शिवं विघ्नहर्तारमीशानमीडे ॥ २॥
सुमेरोः समन्तात्सदैवाशु यन्तं सहस्रोस्रभासा नभो भासयन्तम् ।
जगद्भद्रहेतोर्धृतानेकरूपं शिवं व्याधिहर्तारमीशानमीडे ॥ ३॥
रमाजानकीरुक्मिणीजाम्बवत्याद्यनेकस्वशक्तिस्फुरद्वामभागम् ।
हृषीकेशरामाघशित्र्वादिसंज्ञं शिवं सर्वदातारमीशानमीडे ॥ ४॥
धनाध्यक्षरूपेण ऋक्थान्यवन्तं कुबेरालकेशादिनामौघवन्तम् ।
पुलस्त्यान्वयोत्पत्तिभाजं विराजं शिवं द्रव्यदातारमीशानमीडे ॥ ५॥
प्रशस्तारुविद्यानिधानं सुधानं स्वभूस्वापपर्यङ्कतां सन्दधानम् ।
अनन्तावतारच्छलेनाधिशीर्षं शिवं भूमिधर्तारमीशानमीडे ॥ ६॥
अनेकक्रियारूपनामप्रकाशैर्निजं देवतापञ्चकं दर्शयन्तम् ।
तथैवावतारान् दशान्यांश्च लोके नटं वाखिलं दैवतं ज्योतिरीडे ॥ ७॥
श्रुतेर्नेह नानेति शब्दप्रमाणैर्मुनिभ्यस्तदर्थावयवैः पुराणैः ।
निजामेकतां द्योतयन्तां सुधीभ्यः सदासच्चिदात्मानमीशानमीडे ॥ ८॥
अजस्रेश्वराराधने दत्तचेता महात्माच्युताद्याश्रमान्तः परिव्राट् ।
अकार्षीदिदं भेदभङ्गाभिधानं मुदे स्तोत्रमन्तर्भिदाभङ्गभाजाम् ॥ ९॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदच्युताश्रमविरचितं
भेदभङ्गाभिधानस्तोत्रं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowभेदभङ्गाभिधानस्तोत्रम्
READ
भेदभङ्गाभिधानस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
