श्रीभोगापुरेशाष्टकम् PDF संस्कृत
Download PDF of Bhogapureshashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीभोगापुरेशाष्टकम् संस्कृत Lyrics
|| श्रीभोगापुरेशाष्टकम् ||
श्रीमद्भोगापुरेशो भवतु भवगुरुर्भूतये मे दयालुः
ज्ञानं भक्तिं विरक्तिं प्रदित शमदमाद्यङ्गजातं सुखाय ।
स्तोतुं वाऽऽराधितुं त्वां न च मम सुमतिः कल्यदीनेन्द्रियेशैः
सन्मार्गाद्भ्रान्तितोऽयं पुरुगुण दयया पाहि भोगापुरेश ॥ १॥
मूढोऽहं ज्ञानहीनस्तव पदयुगले भक्तिहीनो दुरात्मा-
थापि त्वामेव जाने गुरुवर वचसा स्वामिनं नापरं वा ।
तस्मादस्मत्कृतागः क्षमय कुरु कृपां सत्त्वसिन्धो हनूमन्
दास्यं मे देहि नित्यं दशरथतनयप्रीत भोगापुरेश ॥ २॥
त्वद्धृत्पद्मान्तरङ्गे सकलगुणगणालङ्कृताङ्गो विदोषः
स्वामी वेदान्तवेद्यो मम मनसि तथा वर्ततां श्रीमनोज्ञः ।
श्रीमद्भोगापुरेशानिलतनय हितं मामकं वेत्सि सर्वं
किं मे विज्ञापनीयं सकलमपि सदा जानतः पूर्णशक्तेः ॥ ३॥
रक्षःपुत्रप्रणाशो जलनिधितरणं द्रोणगिर्याहृतिश्चे-
त्याद्यं दुःसाध्यकर्म त्वयि कृतवति मे संशयं याति चेतः ।
यद्यस्मन्मानसस्थप्रबलतरमहाकाममुख्यारिनाशो
भूयाच्छीघ्रं त्वयायं सकलमपि बलं वेद्मि ते सत्यमेव ॥ ४॥
सर्वात्मप्रेरकेशाद्भुतबलनिखिलप्राणिवृन्दप्रविष्टा-
नेकै रूपै रमेशं परिचरसि हरे वेत्ति कस्ते महत्त्वम् ।
वत्सानुक्रोशदृष्टिर्भवतु मयि चिरं संसृतिव्याधिरुग्णे
श्रीमद्भोगापुरेशाभयद विरतिविज्ञानभक्त्यादिपूर्ण ॥ ५॥
भग्ने बिम्बे कदाचित् पुनरपि गुरुसत्पाणिलब्धप्रतिष्ठः
सान्निध्यं व्यञ्जितुं यो निहितद्युतिमहादीपतप्तो व्यतानीत् ।
सर्वत्राद्धा पतङ्गान् मुहुरथ सुजनैः प्रार्थितः सञ्जहार
श्रीमद्भोगापुरेशं तमखिलफलदं सम्भजे पूर्वज्येष्ठम् ॥ ६॥
दुर्बुद्धिं दुर्विकारं हर हर हनुमन् पापजालं मदीयं
त्वत्सेवैकोपयुक्तां श्रियमपि दिश मे योग्यतां नातिलङ्घ्य ।
भूयो वृद्धिर्यथा स्यात्तव पदयुगलद्वन्द्वभक्तेरजस्रं
नर्ते त्वां मे गतिः स्यादिति धृतमनसा पालय स्वप्रपन्नम् ॥ ७॥
इष्टानिष्टाप्तिनाशप्रकटितनिजसद्भक्तिवर्गात्मशक्तिः
स्वस्वान्तध्यातसीतारमणसुचरणो मुक्तिविघ्नेभसिंहः ।
स्मृत्याशेषाघहर्ताभिलषितफलदः शेषरुद्रादिवन्द्यः
पायाद्भोगापुरेशश्चरणसुरशिरोरत्नमस्मान् सुदीनान् ॥ ८॥
श्रीमद्भोगापुरेशस्तुतिमिति कृतवान् भक्तिपूतान्तरात्मा
प्राणश्लोकाष्टकेन त्रिदशमुनिसमादिष्टमन्त्राङ्गजन्मा ।
यस्तां भक्त्या समेतः शुचिरिह पठते नित्यमस्याखिलेष्टं
दत्वानिष्टं च हन्ति प्रथितसुमहिमा प्राणिवृन्दप्रणेता ॥ ९॥
इति श्रीभोगापुरेशाष्टकम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीभोगापुरेशाष्टकम्
READ
श्रीभोगापुरेशाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
