श्रीभूसूक्तम् PDF संस्कृत
Download PDF of Bhusuktam Sanskrit
Misc ✦ Suktam (सूक्तम संग्रह) ✦ संस्कृत
श्रीभूसूक्तम् संस्कृत Lyrics
|| श्रीभूसूक्तम् ||
मेदिनीदेवी वसुन्धरा स्याद्वसुधादेवि वासवी ।
ब्रह्मवर्चसः पितृणां श्रोत्रं चक्षुर्मनः ।
देवी हिरण्यगर्भिणी, देवी प्रसोवरी ।
सदने सत्यायने सीद ।
समुद्रवती सावित्रीह नो देवी मह्यङ्गी ।
महीधरणी महोव्यथिष्ठा-श्शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषणी ।
इन्द्रपत्नी व्यापिनी सुरसरिदिह ।
वायुमती जलशयनी श्रियन्धाराजा सत्यन्तोपरिमेदिनी ।
श्वोपरिधत्तं परिगाया ॥
विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम् ।
लक्ष्मीप्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥
ॐ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि । तन्नो धरा प्रचोदयात् ।
महीं देवीं विष्णुपत्नीमजुर्याम् । प्रतीचीं मेनाग्ं हविषा यजामः ।
त्रेधा विष्णुरुरुगायो विचक्रमे । मबीं दिवं पृथिवीमन्तरिक्षम् ।
तचछ्रोणैतिश्रव-इचछमाना । पुण्यग्ग्श्लोकं यजमानाय कृण्वती ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इक्षुशालि यवसस्य फलाढ्यै, पारिजाततरुशोभितमूले ।
स्वर्णरत्नमणिमण्डपमध्ये, चिन्तयेत्सकललोकधरित्रीम् ॥
श्यामां विचित्रांशुकरत्नभूषितां चतुर्भुजां तुङ्गपयोधरान्विताम् ।
इन्दीवराक्षीन्नवशालिमञ्जरीं सुखं दधानां शरणं भजाम्यहम् ॥
विष्णुशक्तिसमाभूते शङ्खवर्णस्तु मेदिनी ॥
अनेकरत्न सञ्छन्ने भूमिदेवि नमोऽस्तु ते ॥
इति भूसूक्तं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीभूसूक्तम्
READ
श्रीभूसूक्तम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
