श्रीभूतराजस्तोत्रम् PDF संस्कृत
Download PDF of Bhutarajastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीभूतराजस्तोत्रम् संस्कृत Lyrics
|| श्रीभूतराजस्तोत्रम् ||
प्रसादार्थं सदा नारायणभूताख्यमादरात् ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ १॥
स्मरतां नियमेनैव भूतभीत्यादिभञ्जनम् ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ २॥
गुरोर्दक्षिणभागस्थं भजतां भद्रदं द्रुतम् ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ ३॥
भृतैः कर्णविकर्णाख्यैर्युक्तं भूतगणैः सदा ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ ४॥
क्रूरं घोरं तथा शूरं धनुःखड्गादि धारिणम् ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ ५॥
प्रतापवन्तं वीराग्र्यं वीरभद्रोपमं हृदि ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ ६॥
रक्ताम्बरधरं रम्यपुष्पमालासुशोभितम् ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ ७॥
रत्नौघवलयोपेतं मुक्ताहारविभूषितम् ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ ८॥
अर्काभाङ्गदसंयुक्तं रत्नकुण्डलमण्डितम् ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ ९॥
उत्तुङ्गतुरगारूढं छत्रचामरसेवितम् ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ १०॥
दिव्यचन्दनलिप्ताङ्गं कस्तूरीतिलकाञ्चनम् ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ ११॥
अचिन्त्याद्भुतसन्मूर्तिं किरिटोज्जलमस्तकम् ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ १२॥
कुबेरकोशादानीतं दिव्यमौलीन्दुपार्षदम् ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ १३॥
मस्तकार्पित तन्मौलिं वादिराजस्य सन्मुनेः ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ १४॥
मानेन गुरुणा दत्ते नूपरे दधतं मुदा ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ १५॥
तस्माद् गुरोः प्रसादस्य पूर्णपात्रं तपोनिधिम् ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ १६॥
रक्षकं महिमासक्तं सदा सर्वत्र सर्वदा ।
वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ १७॥
वादिराजगुरोर्दूत भूतराजस्तुतिं सदा ।
यः पठेच्चिन्तितं क्षिप्रं भवेत्तस्य न संशयः ॥ १८॥
श्रीवादिराजहृत्पद्मसंस्थितं तुरगाननम् ।
भजामि सततं सर्वविनुतं चित्तशुद्धये ॥ १९॥
॥ इति श्रीभूतराजस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीभूतराजस्तोत्रम्
READ
श्रीभूतराजस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
