श्री महादेव स्तुतिः (ब्रह्मादिदेव कृतम्) PDF संस्कृत
Download PDF of Brahmaadi Deva Krita Mahadeva Stuti Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्री महादेव स्तुतिः (ब्रह्मादिदेव कृतम्) संस्कृत Lyrics
|| श्री महादेव स्तुतिः (ब्रह्मादिदेव कृतम्) ||
देवा ऊचुः –
नमो भवाय शर्वाय रुद्राय वरदाय च ।
पशूनां पतये नित्यमुग्राय च कपर्दिने ॥ १ ॥
महादेवाय भीमाय त्र्यम्बकाय विशाम्पते ।
ईश्वराय भगघ्नाय नमस्त्वन्धकघातिने ॥ २ ॥
नीलग्रीवाय भीमाय वेधसां पतये नमः ।
कुमारशत्रुविघ्नाय कुमारजननाय च ॥ ३ ॥
विलोहिताय धूम्राय धराय क्रथनाय च ।
नित्यं नीलशिखण्डाय शूलिने दिव्यशालिने ॥ ४ ॥
उरगाय सुनेत्राय हिरण्यवसुरेतसे ।
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥ ५ ॥
वृषध्वजाय चण्डाय जटिने ब्रह्मचारिणे ।
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥ ६ ॥
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ।
नमोऽस्तु दिव्यसेव्याय प्रभवे सर्वसम्पदाम् ॥ ७ ॥
अभिगम्याय काम्याय सव्यापाराय सर्वदा ।
भक्तानुकम्पिने तुभ्यं दिश मे जन्मनो गतिम् ॥ ८ ॥
इति श्रीमत्स्यपुराणे ब्रह्मादिदेवकृत महादेवस्तुतिः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री महादेव स्तुतिः (ब्रह्मादिदेव कृतम्)
READ
श्री महादेव स्तुतिः (ब्रह्मादिदेव कृतम्)
on HinduNidhi Android App