ब्रह्मकमण्डलुतीर्थस्तोत्रम् PDF संस्कृत
Download PDF of Brahmakamandalutirthastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
ब्रह्मकमण्डलुतीर्थस्तोत्रम् संस्कृत Lyrics
|| ब्रह्मकमण्डलुतीर्थस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
सर्वादिभूतं त्रिगुणेषु संस्थं तीर्थेषु यत् सर्वविकारहीनम् ।
तीर्थं तुरीयं च नमामहे तत्तीर्थात्मकं पापविनाशदक्षम् ॥ ४॥
गङ्गादिनद्यः प्रभवा यतश्च सर्वान्तरस्थं स्थितमात्मरूपम् ।
नादात्मकं रूपमथो विधाय तच्चालकं यत्तु नमामहे तत् ॥ ५॥
पुराणगीतं विधिपापनाशं कमण्डलुस्थं परमप्रमेयम् ।
अपारतीर्थेषु तदात्मभावं भविष्यते देहधरं नमामः ॥ ६॥
नाथो विधाता च भवेन्महात्मन् पापेन युक्तश्च तथा स्थितश्चेत् ।
विश्वं परं नाशमुपैष्यति त्वं प्रत्यक्षतामेहि दयाकरातः ॥ ७॥
गङ्गास्वरूपाय नमो नमस्ते ब्रह्मात्मजारूपधराय तुभ्यम् ।
तुभ्यं प्रयागाय च नार्मदाय कालिन्दिकास्थाय नमो नमो वै ॥ ८॥
कृष्णास्वरूपाय ककुद्मतीस्थ यद्देवनद्यै च पयोष्णिकायै ।
वेणीस्वरूपाय च पुष्कराय तापीप्रभासाय च सर्वतीर्थ ॥ ९॥
गोदावरीरूपधराय तुभ्यं क्षिप्रास्थसिन्धुस्थ महीस्वरूप ।
कावेरिकास्थं सरयूस्वरूपं पूर्णे नमस्तेऽस्तु कमण्डलुस्थम् ॥ १०॥
सार्धत्रिकोटीप्रवरस्थकाय तीर्थेश्वरायैव नमो नमस्ते ।
अनन्ततीर्थप्रवराय नित्यं क्षेत्रे मयूरे तु समास्थिताय ॥ ११॥
वाराम्पतिस्थाय सरोवराय वापीस्थकूपाय नमो नमस्ते ।
यद्यज्जलं भानुघनस्थरूपं तत्रस्थकायैव नमो नमस्ते ॥ १२॥
त्वया ततं सर्वमिदं विभाति चराचरस्थं च जलं परेश ।
कृपाकटाक्षामृतधारयाऽस्मान् रक्षस्व सन्दर्शय ते स्वरूपम् ॥ १३॥
(फलश्रुतिः)
भृशुण्ड्युवाच ।
एवं संस्तुवतां तेषां पुरस्तेजोमयं जलम् ।
प्रादुर्बभूव तत् दृष्ट्वा प्रणेमुः ससुरर्षयः ॥ १४॥
तानुवाच महातीर्थं हर्षयुक्तेन चेतसा ।
वरं वृणुत देवेशा मुनयस्तं ददाम्यहम् ॥ १५॥
भवत्कृतमिदं पुण्यं स्तोत्रं मे प्रीतिवर्धनम् ।
भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ १६॥
पठते शृण्वते नित्यं मयि स्नानफलप्रदम् ।
सर्वाघनाशनं सद्यो भविष्यति विशेषतः ॥ १७॥
इति ब्रह्मकमण्डलुतीर्थस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowब्रह्मकमण्डलुतीर्थस्तोत्रम्
READ
ब्रह्मकमण्डलुतीर्थस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
