श्रीब्रह्मण्यतीर्थपञ्चरत्नमालिकास्तोत्रम् PDF संस्कृत
Download PDF of Brahmanyatirthapancharatnamalikastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीब्रह्मण्यतीर्थपञ्चरत्नमालिकास्तोत्रम् संस्कृत Lyrics
|| श्रीब्रह्मण्यतीर्थपञ्चरत्नमालिकास्तोत्रम् ||
वन्दे ब्रह्मण्यतीर्थं शुभतमचरितं सेवितश्रीसमेतम्
शान्तं दान्तं महान्तं गुरुगुणभरितं योगिसङ्घैरुपेतम् ।
कामक्रोधाद्यतीतं कुमतिभिरजितं कल्मषाम्भोधिपोतम्
धीरं भूदेवगीतं शुभजनमहितं धन्यमानं विनीतम् ॥ १॥
माद्यन्मायिगजेन्द्रपञ्चवदनः प्रख्यातकीर्तिर्महान्
श्रीमद्विट्ठलपादपद्ममधुपः सर्वेष्टचिन्तामणिः ।
निर्व्याजोरुदयाकटाक्षलसितो ज्ञानादिभाग्योज्वलः
श्रीब्रह्मण्ययतीन्द्र मस्तकमणिः पायादपायात्स माम् ॥ २॥
भिभ्रत्काषायचेलं विलसिततुलसीपङ्कजाक्षादिमालम्
धूताज्ञानाघजालं मृदुवचनकलं चारुसौन्दर्यशीलम् ।
आर्तत्राणैकलोलं प्रणतमुनिकुलं वैष्णवाग्र्यानुकूलम्
ब्रह्मण्यार्यं दयालुं स्मितमुखकमलं तं भजेलम् ॥ ३॥
यद्वृन्दावनदर्शनेन नितरां पापानि यान्ति क्षयम्
यद्वृन्दावनमृत्तिका सुविधृता तापत्र यध्वंसिनी ।
यद्वृन्दावनसेवया भुवि जनः प्राप्नोति विद्यां सुखम्
सर्वारिष्टनिवृत्तयेस्तु स च मे ब्रह्मण्यतीर्थो गुरुः ॥ ४॥
कुष्ठश्वेतोरुगुल्म क्षयकठिणतरव्याधिवैद्याधिनाथो
भूतप्रेतग्रहोच्चाटनकुशलमहामन्त्र मूर्तिर्मुनीन्द्रः ।
सर्वाभीष्टप्रदाता सरससुहृदयःपुण्यचारित्रनामा
भूयाद्ब्रह्मण्यतीर्थो गुरुकुलतिलको भूयसे श्रेयसे मे ॥ ५॥
इति श्रीमद्व्यासराजविरचितं
श्रीब्रह्मण्यतीर्थ पञ्चरत्नमालिकास्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीब्रह्मण्यतीर्थपञ्चरत्नमालिकास्तोत्रम्
READ
श्रीब्रह्मण्यतीर्थपञ्चरत्नमालिकास्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
