श्रीब्रह्मास्त्रबगलामुखीकवचम् PDF संस्कृत
Download PDF of Brahmastrabagalamukhikavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्रीब्रह्मास्त्रबगलामुखीकवचम् संस्कृत Lyrics
|| श्रीब्रह्मास्त्रबगलामुखीकवचम् ||
श्री गणेशाय नमः । श्री बगलायै नमः ।
अथ ब्रह्मास्त्रबगलाकवचम् ।
श्रीब्रह्मोवाच ।
विश्वेश दक्षिणामूर्ते निगमागमवित् प्रभो ।
मह्यं पुरा त्वया दत्ता विद्या ब्रह्मास्त्रसंज्ञिता ॥ १॥
तस्य मे कवचं ब्रूहि येनाहं सिद्धिमाप्नुयाम् ॥
भवामि वज्रकवचं ब्रह्मास्त्रन्यासमात्रतः ॥ २॥
श्रीदक्षिणामूर्तिरुवाच ।
शृणु ब्रह्मन् परं गुह्य ब्रह्मास्त्रकवचं शुभम् ।
यस्योच्चारणमात्रेण भवेद् वै सूर्यसन्निभः ॥ ३॥
सुदर्शनं मया दत्तं कृपया विष्णवे तथा ।
तद्वत् ब्रह्मास्त्रविद्यायाः कवचं कवयाम्यहम् ॥ ४॥
अष्टाविंशत्यस्त्रहेतुमाद्यं ब्रह्मास्त्रमुत्तमम् ।
सर्वतेजोमयं सर्वं सामर्थ्यं विग्रहं परम् ॥ ५॥
सर्वशत्रुक्षयकरं सर्वदारिद्र्यनाशनम् ।
सर्वापच्छैलराशीनामस्त्रकं कुलिशोपमम् ॥ ६॥
न तस्य शत्रवश्चापि भयं चौर्यभयं जरा ।
नरा नार्यश्च राजेन्द्र खगा व्याघ्रादयोऽपि च ॥ ७॥
तं दृष्ट्वा वशमायान्ति किमन्यत् साधवो जनाः ।
यस्य देहे न्यसेद् धीमान् कवचं बगलामयम् ॥ ८॥
स एव पुरुषो लोके केवलः शङ्करोपमः ।
न देयं परशिष्याय शठाय पिशुनाय च ॥ ९॥
दातव्यं भक्तियुक्ताय गुरुदासाय धीमते ।
कवचस्य ऋषिः श्रीमान् दक्षिणामूर्तिरेव च ॥ १०॥
अस्यानुष्टप् छन्दः स्यात् श्रीबगला चास्य देवता ।
बीजं श्रीवह्निजाया च शक्तिः श्रीबगलामुखी ॥ ११॥
कीलकं विनियोगश्च स्वकार्ये सर्वसाधके ।
अथ ध्यानम् ।
शुद्धस्वर्णनिभां रामां पीतेन्दुखण्डशेखराम् ।
पीतगन्धानुलिप्ताङ्गीं पीतरत्नविभूषणाम् ॥ १॥
पीनोन्नतकुचां स्निग्धां पीतलाङ्गीं सुपेशलाम् ।
त्रिलोचनां चतुर्हस्तां गम्भीरां मदविह्वलाम् ॥ २॥
वज्रारिरसनापाशमुद्गरं दधतीं करैः ।
महाव्याघ्रासनां देवीं सर्वदेवनमस्कृताम् ॥ ३॥
प्रसन्नां सुस्मितां क्लिन्नां सुपीतां प्रमदोत्तमाम् ।
सुभक्तदुःखहरणे दयार्द्रां दीनवत्सलाम् ॥ ४॥
एवं ध्यात्वा परेशानि बगलाकवचं स्मरेत् ।
अथ रक्षाकवचम् ।
बगला मे शिरः पातुः ललाटं ब्रह्मसंस्तुता ।
बगला मे भ्रुवौ नित्यं कर्णयोः क्लेशहारिणी ॥ १॥
त्रिनेत्रा चक्षुषी पातु स्तम्भिनी गण्डयोस्तथा ।
मोहिनी नासिकां पातु श्रीदेवी बगलामुखी ॥ २॥
ओष्ठयोर्दुर्धरा पातु सर्वदन्तेषु चञ्चला ।
सिद्धान्नपूर्णा जिह्वायां जिह्वाग्रे शारदाम्बिके ॥ ३॥
अकल्मषा मुखे पातु चिबुके बगलामुखी ।
धीरा मे कण्ठदेशे तु कण्ठाग्रे कालकर्षिणी ॥ ४॥
शुद्धस्वर्णनिभा पातु कण्ठमध्ये तथाऽम्बिका ।
कण्ठमूले महाभोगा स्कन्धौ शत्रुविनाशिनी ॥ ५॥
भुजौ मे पातु सततं बगला सुस्मिता परा ।
बगला मे सदा पातु कूर्परे कमलोद्भवा ॥ ६॥
बगलाऽम्बा प्रकोष्ठौ तु मणिबन्धे महाबला ।
बगलाश्रीर्हस्तयोश्च कुरुकुल्ला कराङ्गुलिम् ॥ ७॥
नखेषु वज्रहस्ता च हृदये ब्रह्मवादिनी ।
स्तनौ मे मन्दगमना कुक्षयोर्योगिनी तथा ॥ ८॥
उदरं बगला माता नाभिं ब्रह्मास्त्रदेवता ।
पुष्टिं मुद्गरहस्ता च पातु नो देववन्दिता ॥ ९॥
पार्श्वयोर्हनुमद्वन्द्या पशुपाशविमोचिनी ।
करौ रामप्रिया पातु ऊरुयुग्मं महेश्वरी ॥ १०॥
भगमाला तु गुह्यं मे लिङ्गं कामेश्वरी तथा ।
लिङ्गमूले महाक्लिन्ना वृषणौ पातु दूतिका ॥ ११॥
बगला जानुनी पातु जानुयुग्मं च नित्यशः ।
जङ्घे पातु जगद्धात्री गुल्फौ रावणपूजिता ॥ १२॥
चरणौ दुर्जया पातु पीताम्बा चरणाङ्गुलीः ।
पादपृष्ठं पद्महस्ता पादाधश्चक्रधारिणी ॥ १३॥
सर्वाङ्गं बगला देवी पातु श्रीबगलामुखी ।
ब्राह्मी मे पूर्वतः पातु माहेशी वह्निभागतः ॥ १४॥
कौमारी दक्षिणे पातु वैष्णवी स्वर्गमार्गतः ।
ऊर्ध्वं पाशधरा पातु शत्रुजिह्वाधरा ह्यधः ॥ १५॥
रणे राजकुले वादे महायोगे महाभये ।
बगला भैरवी पातु नित्यं क्लीङ्काररूपिणी ॥ १६॥
फलश्रुतिः ।
इत्येवं वज्रकवचं महाब्रह्मास्त्रसंज्ञकम् ।
त्रिसन्ध्यं यः पठेद् धीमान् सर्वैश्वर्यमवाप्नुयात् ॥ १॥
न तस्य शत्रवः केऽपि सखायः सर्व एव च ।
बलेनाकृष्य शत्रुं स्यात् सोऽपि मित्रत्वमाप्नुयात् ॥ २॥
शत्रुत्वे मरुता तुल्यो धनेन धनदोपमः ।
रूपेण कामतुल्यः स्याद् आयुषा शूलधृक्समः ॥ ३॥
सनकादिसमो धैर्ये श्रिया विष्णुसमो भवेत् ।
तत्तुल्यो विद्यया ब्रह्मन् यो जपेत् कवचं नरः ॥ ४॥
नारी वापि प्रयत्नेन वाञ्छितार्थमवाप्नुयात् ।
द्वितीया सूर्यवारेण यदा भवति पद्मभूः ॥ ५॥
तस्यां जातं शतावृत्या शीघ्रं प्रत्यक्षमाप्नुयात् ।
याता तुरीयं सन्ध्यायां भूशय्यायां प्रयत्नतः ॥ ६॥
सर्वान् शत्रून् क्षयं कृत्वा विजयं प्राप्नुयान् नरः ।
दारिद्र्यान् मुच्यते चाऽऽशु स्थिरा लक्ष्मीर्भवेद् गृहे ॥ ७॥
सर्वान् कामानवाप्नोति सविषो निर्विषो भवेत् ।
ऋणं निर्मोचनं स्याद् वै सहस्रावर्तनाद् विधे ॥ ८॥
भूतप्रेतपिशाचादिपीडा तस्य न जायते ।
द्युमणिर्भ्राजते यद्वत् तद्वत् स्याच्छ्रीप्रभावतः ॥ ९॥
स्थिराभया भवेत् तस्य यः स्मरेद् बगलामुखीम् ।
जयदं बोधनं कामममुकं देहि मे शिवे ॥ १०॥
जपस्यान्ते स्मरेद् यो वै सोऽभीष्टफलमाप्नुयात् ।
इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥ ११॥
न स सिद्धिमवाप्नोति साक्षाद् वै लोकपूजितः ।
तस्मात् सर्वप्रयत्नेन कवचं ब्रह्मतेजसम् ॥ १२॥
नित्यं पदाम्बुजध्यानान् महेशानसमो भवेत् ।
इति श्रीदक्षिणामूर्तिसंहितायां ब्रह्मास्त्रबगलामुखीकवचं
समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीब्रह्मास्त्रबगलामुखीकवचम्
READ
श्रीब्रह्मास्त्रबगलामुखीकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
