श्रीचामुण्डा स्तुतिः PDF संस्कृत
Download PDF of Chamundastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीचामुण्डा स्तुतिः संस्कृत Lyrics
|| श्रीचामुण्डा स्तुतिः ||
जयस्व देवि चामुण्डे जय भूताऽपहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥
विश्वमूर्तियुते शुद्धे विरूपाक्षी त्रिलोचने ।
भीमरूपे शिवे विद्ये महामाये महोदरे ॥ २॥
मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये ।
महामारि विचित्राङ्गि गीतनृत्यप्रिये शुभे ॥ ३॥
विकरालि महाकालि कालिके पापहारिणि ।
पाशहस्ते दण्डहस्ते भीमहस्ते भयानके ॥ ४॥
चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले ।
शिवयानप्रिये देवी प्रेतासनगते शिवे ॥ ५॥
भीमाक्षि भीषणे देवि सर्वभूतभयङ्करि ।
करालि विकरालि च महाकालि करालिनि ॥ ६॥
कालि करालविक्रान्ते कालरात्रि नमोऽस्तु ते ।
सर्वशस्त्रभृते देवि नमो देवनमस्कृते ॥ ७॥
॥फलश्रुतिः ॥
एवं स्तुता शिवदूती रुद्रेण परमेष्ठिना ।
तुतोष परमा देवी वाक्यं चैवमुवाच ह ॥ ८॥
वरं वृष्णीष्व देवेश यत्ते मनसि वर्तते ।
श्रीरुद्र उवाच
स्तोत्रेणाऽनेन ये देवि स्तोष्यन्ति त्वां वरानने ॥ ९॥
तेषां त्वं वरदा देवि भव सर्वगता सती ।
इमं पर्वतमारुह्य यः पूजयति भक्तितः ॥ १०॥
स पुत्रपौत्रपशुमान् समृद्धिमुपगच्छतु ।
यश्चैवं शृणुयाद्भक्त्या स्तवं देवि समुद्भवम् ॥ ११॥
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छतु ।
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ॥ १२॥
अष्टम्यां च चतुर्दश्यां सोपवासो नरोत्तम ।
संवत्सरेण लभतां राज्यं निष्कण्टकं पुनः ॥ १३॥
एषा ज्ञानान्विता शाक्तिः शिवदूतीति चोच्यते ।
य एवं शृणुयान्नित्यं भक्त्या परमया नृप ॥ १४॥
सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ।
यश्चैनं पठते भक्त्या स्नात्वा वै पुष्करे जले ॥ १५॥
सर्वमेतत्फलं प्राप्य ब्रह्मलोके महीयते ।
यत्रैतल्लिखितं गेहे सदा तिष्ठति पार्थिव ॥ १६॥
न तत्राऽग्निभयं घोरं सर्वचोरादि सम्भवम् ।
यश्चेदं पूजयेद्भक्त्या पुस्तकेऽपि स्थितं बुधाः ॥ १७॥
तेन चेष्टं भवेत्सर्वं त्रैलोक्यं सचराचरम् ।
जायन्ते बहवः पुत्राः धनं धान्यं वरा स्त्रियः ॥ १८॥
रत्नान्यश्वा गजा भृत्यास्तेषामाशु भवन्ति च ।
यत्रेदं लिख्यते गेहे तत्राप्येवं ध्रुवं भवेत् ॥ १९॥
॥ इति पाद्मे पुराणे सृष्टिखण्डे श्रीचामुण्डा स्तुतिः समाप्ता ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीचामुण्डा स्तुतिः
READ
श्रीचामुण्डा स्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
