श्रीनीलकण्ठदीक्षितप्रणीता चतुःषष्टिलीलास्तुतिः PDF संस्कृत
Download PDF of Chatuhshashtililastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीनीलकण्ठदीक्षितप्रणीता चतुःषष्टिलीलास्तुतिः संस्कृत Lyrics
|| श्रीनीलकण्ठदीक्षितप्रणीता चतुःषष्टिलीलास्तुतिः ||
शिवलिलार्णवतः
क्व ते दया वाङ्मनसातिभूमिः क्व दुर्लभो वा त्वदवाप्त्युपायः ।
अहो जितं सुन्दरनाथ! मर्त्त्यैरहो जितं तत्र च दीनदीनैः ॥ १॥
गुप्तं वृथा कोटिभिरागमानां गुप्तं वृथाहो गुरुभिः पुराणैः ।
कोणे यदत्र त्वमिहानुकम्पाकोशालयद्वारमपावृणोषि ॥ २॥
अस्माभिरज्ञानपि तारयद्भिः कियान् प्रकर्षो विबुधेषु कार्यः ।
इति त्वया चिन्तयता किमीश! प्रतारिता स्मस्त्रिदिवार्पणेन ॥ ३॥
पाण्ड्यप्रियं त्वां विदती शिवापि पाण्ड्यात्मजासीद्यदि का कथा नः ।
पाण्ड्येषु जायेमहि खञ्जरीटाः कोयष्टयः कोलकिशोरका वा ॥ ४॥
लीलासु ते लब्धसरूपभावा ग्राम्या इमे पाण्डुषु चन्द्रमौले! ।
जिघ्रन्ति केचिद् विलिखन्ति केचिच्चर्वन्ति केचिच्च वतंसमिन्दुम् ॥ ५॥
त्वं तावदत्यन्तमृदुः प्रजासु त्वत्तोऽपि मृद्वी गृहिणी तवेयम् ।
अद्यायतौ वा चरतोः किलैवमात्मैकशेषो भविता ध्रुवं वाम् ॥ ६॥
कैवल्यदानाय कृतप्रतिज्ञौ काशीपतिः पाण्ड्यपतिर्युवां द्वौ ।
शिष्यैकविश्रान्तममुष्य दानं सार्वत्रिकं तावकमेव शम्भो! ॥ ७॥
विश्वस्य दीर्घां श्रवणादिभङ्गी वीतोद्यमाः स्मश्चिरमीश! मोक्षे ।
सम्प्रत्यवाबुध्द्यत वाक्यशेषपञ्चाक्षरीयं मधुरा विनेति ॥ ८॥
ये ये जना यद्यदिहार्थयन्ते तत्तन्निरस्तोपधि तेषु तेषु ।
मोमित्यलोभादनुजानतः किमोमित्यभिख्यैव तवेयमासीत् ॥ ९॥
अन्वेषणीयं किमनाहते ते तत्त्वं हताः स्मो वयमागमौधैः ।
विस्पष्टमत्राहत एव तत्त्वं वेत्रेण पाण्ड्यस्य यदीक्षितं तत् ॥ १०॥
स्वरूपमेतत् तव सुन्दरेश! शुद्धा दयेत्येव तु लक्षयामः ।
कदम्बमूलन्तु तटस्थलक्ष्म कारुण्यसिन्धो! तव तर्कयामः ॥ ११॥
यद्धामसीमाक्रममात्र एव वृत्रद्रुहस्तत् कलुषं विलिल्ये ।
सकृद् विगाह्यैव यदीयतीर्थे शापं मुनेरिन्द्रगजो मुमोच ॥ १२॥
नीपाटवीं यः कुलशेखरेण निर्मापयामास च राजधानीम् ।
प्राप्ता शिवा पाण्ड्यकुलेऽवतारमनुज्ञया यस्य तटातकेति ॥ १३॥
उपायत स्वं युधि जेतुकामामुपायतस्तामपि लीलया यः ।
पतञ्जलेभक्तिमवेत्य नृत्तं प्रादर्शयद् रूप्यसभान्तरे यः ॥ १४॥
कुण्डोदरस्योदरपूरणेऽपि कुण्ठोद्यमा येन कृतान्नपूर्णा ।
नालं पिपासोपशमाय यस्य नदी च सा वेगवती यतोऽभूत् ॥ १५॥
समाहृताः काञ्चनमालिकायाः स्नानाय येनाम्बुधयः समस्ताः ।
महीपतिं यो मलयध्वजं च दिवं गतं दर्शयति स्म पत्नीम् ॥ १६॥
मीनेक्षणायां सुतमुग्रपाण्ड्यमवाप यः सुन्दरपाण्ड्यदेवः ।
तस्मै च यं शक्तिधराय वज्रं चण्डायुधं चक्रमपि व्यतारीत् ॥ १७॥
उद्वेलमप्यर्णवमुग्रपाण्ड्यो यद्दत्तया शोषयति स्म शक्त्या ।
वज्रेण मौलिं बिभिदे मघोनश्चण्डायुधेनापि जघान मेरुम् ॥ १८॥
आचष्ट यश्चाशयमागमानां जिज्ञासमानेषु तपोधनेषु ।
यद्दत्तरत्नाहितमौलिनैव पाण्ड्यार्भको राजपदेऽभिषिक्तः ॥ १९॥
कपर्दजैर्यस्य घनाफ्नौधैः पपे पयोधिः परिजृम्भमाणः ।
प्राप्तैश्च तैर्यः पटमण्डपत्वमवारयद् वृष्टिमतिप्रवृद्धाम् ॥ २०॥
सिद्धात्मना यो विततार सर्वाः सिद्धीः प्रजानां मधुरानगर्याम् ।
यः सुन्दरेशानविमानसक्तं शिलागजञ्चाशयदिक्षुकाण्डान् ॥ २१॥
अस्त्रेण तुर्यावतरेण शौरर्हस्ती हतो येन तथागतानाम् ।
श्वश्रूदुरालापविवासिताया यः प्रादुरासीद् द्विजकन्यकायाः ॥ २२॥
व्यत्यस्य नृत्तं विदधे दयालुः पाण्ड्यस्य यः प्रार्थनया महत्या ।
पान्थद्विजस्त्रीवधपापवादं व्याजेन यो व्याधवटोरहार्षीत् ॥ २३॥
स्वमातृजारं पितृघातिनं च विप्राधमं यो विमलीचकार ।
अङ्कस्य भार्याहरमस्त्रशिष्यमङ्कात्मनैवाजयदाहवे यः ॥ २४॥
मायोरगं यः शमयाम्बभूव मायागवीं यस्य पुनर्महोक्षः ।
यः पाण्ड्यसेनान्यमनुग्रहीतुं सन्दर्शयामास चमूं नृपालम् ॥ २५॥
पाण्ड्याय यः प्रादित हेम यश्च वैश्याङ्गनाभ्यो वलमान् दयार्द्रः ।
अष्टापि सिद्धीः प्रतिपादयन् यो यक्षाङ्गनासु प्रससाद भूयः ॥ २६॥
द्वारं समुद्धाट्य निशि स्वयं यश्चोलाय सेवामदिशन्निगूढम् ।
पानीयदानेन च पाण्ड्यसेनामुज्जीव्य चोलेन्द्रमजापयद् यः ॥ २७॥
स्वर्णं दिशन् सिद्धरसं प्रयुज्य पुपोष वेश्यां शिवधर्मिणीं यः ।
पाण्ड्यस्य यः स्वैकपरायणस्य सादी भवन् साधयति स्म चोलम् ॥ २८॥
अक्षय्यमप्यक्षतमर्पयन् यो भक्ताय भक्तार्पणमन्वगृह्णात् ।
येनादृतो। मातुलरूपभाजा वैश्यो वटुर्झतिजनान् विजिग्ये ॥ २९॥
आस्थाय यश्चार्जुननाथलिङ्गं पाण्ड्ये महत् पातकमुन्ममार्ज ।
काष्ठानि मूर्धा कलयन् न्यधत्त काष्ठां परां गायति यः स्वभक्ते ॥ ३०॥
भद्राय भूरि द्रविणं दिदेश पुत्रं ददौ चेरमहीभुजे यः ।
भद्राय दिव्यं फलकं दिदेश वृष्टौ महत्यामपि गायते यः ॥ ३१॥
द्वीपान्तरीयामवमापि गीत्या भद्रा विजिग्ये यदनुग्रहेण ।
वाराहमास्थाय वपुर्ददौ यः स्तन्यामृतं कोलकिशोरकाणाम् ॥ ३२॥
प्रापय्य मानुष्यकमद्भुतं यः पाण्ड्यस्य तान् मन्त्रिपदेऽभ्यषिञ्चत् ।
यः खञ्जरीटं शरणं प्रपन्नं चक्रे बलिभ्यो बलिनं खगेभ्यः ॥ ३३॥
जहार कोयष्टिमनुग्रहीतुं यादांसि यः काञ्चनपङ्कजिन्याः ।
कल्पान्तलुप्तां कटकाहिना यः सीमा विवत्रे मधुरानगर्याः ॥ ३४॥
प्राद्रावयत् पाण्ड्यकृतेऽरिसेनां बाणैः स्वनामाक्षरलाञ्छितैर्यः ।
दुरासदं दुष्कविभिः स्क्यं यः प्रादाद् विचित्रं फलकं कवीनाम् ॥ ३५॥
पाण्ड्यस्य चिन्तानुगुणं निबध्य पद्यं ददौ यश्च निजार्चकाय ।
विद्याविवादे विहितातिवादं कीरं कविं यः पुनरन्वगृह्णात् ॥ ३६॥
अपि स्वयं कुम्भभवेन यस्तमबोधयद् द्रामिडसूत्रतत्त्वम् ।
व्यवेचयन्मूकमुखेन यश्च तत्तत्कृता द्रामिडसूत्रवृत्तीः ॥ ३७॥
भक्ते कवौ क्वापि विमाननेन पाण्ड्याय कुप्यन्नगराद्ययौ यः ।
दाशो भवन् दाशकुलेऽवतीर्णा जग्राह पाणौ जगदाम्बिकां यः ॥ ३८॥
आचार्यमूर्तिं परिगृह्य नम्रमदीक्षयद् वातपुरीश्वरं यः ।
अदर्शयद् यस्तुरगान् सृगालानभ्यर्थितो वातपुरीश्वरेण ॥ ३९॥
प्रावर्तयद् वेगवतीमथैनं पाण्ड्येन यः पालयितुं निरुद्धम् ।
विश्वात्मता यो विशदीचकार वेत्राहतिं स्वां भुवने विवृण्वन् ॥ ४०॥
सम्बन्धनाथस्य मुखादकार्षीच्छान्तं ज्वरं पाण्ड्यमहीपतेर्यः ।
विद्याविवादे विजिताननेन यः शूलमारोपयति स्म बौद्धान् ॥ ४१॥
आनीय यः कूपशमीमहेशान् वैश्याविवाहे विववार साक्ष्यम् ।
लीलास्वनन्तास्वपि यस्य दृष्टा लीला चतुष्षष्टिरियं पुराणे ॥ ४२॥
आलम्बमेकं जगतां त्रयाणामव्याजकारुण्यसुधानिधानम् ।
तं तादृशं त्वामपहाय शम्भो! किं तावदन्यैरिह किम्पचानैः ॥ ४३॥
इति श्रीनीलकण्ठदीक्षितप्रणीता शिवलीलार्णवान्तर्गता
चतुःषष्टिलीलास्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीनीलकण्ठदीक्षितप्रणीता चतुःषष्टिलीलास्तुतिः
READ
श्रीनीलकण्ठदीक्षितप्रणीता चतुःषष्टिलीलास्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
