चतुर्थाष्टकस्थार्जुनकृतस्तोत्रम् PDF संस्कृत
Download PDF of Chaturthashtakastharjunakrritastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
चतुर्थाष्टकस्थार्जुनकृतस्तोत्रम् संस्कृत Lyrics
|| चतुर्थाष्टकस्थार्जुनकृतस्तोत्रम् ||
मोहतमो मम नष्टं त्वद्वचनान्नहि कष्टम् ।
शिष्टमिदं मयि हृष्टं हृत्परमात्मनि तुष्टम् ॥ १॥
ज्ञानरविर्हृदि भातः स्वावरणाख्यतमोऽतः ।
क्वापि गतं भवदीक्षासौ खलु काममदीक्षा ॥ २॥
क्लेशरुजां हरणेन त्वच्चरणस्मरणेन ।
अस्मि कृतार्थ इहेश श्रीश परेश महेश ॥ ३॥
प्रेमदुघं तव पादं को न भजेदविवादम् ।
दैववशाद्धृदि पेयं दर्शितवानसि मे यम् ॥ ४॥
चित्रमिदं सदमेयः सोऽप्यभवद्धृदि मेयः ।
देवसुरर्षिसुगेयः सोऽद्य कथं मम हेयः ॥ ५॥
आश्रिततापहरं तं पातकदैन्यहरं तम् ।
नौमि शिवं भगवन्तं पादमहं तव सन्तम् ॥ ६॥
यत्र जगद्भ्रम एषः कल्पित एव सशेषः ।
भ्रान्तिलयेऽद्वय एवावेदि मयाद्य स एव ॥ ७॥
शान्तिपदं तव पादं नौमि सुसेव्यमखेदम् ।
स्वार्थदमाद्यमनन्तं हापितकामधनं तम् ॥ ८॥
देवोऽभावो राद्धः सिद्धः सत्यो नित्यो बुद्धः शुद्धः ।
सर्वोऽपूर्वो हर्ताऽकर्ताऽभिन्नस्त्वं नः पाता माता ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
चतुर्थाष्टकस्थार्जुनकृतस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowचतुर्थाष्टकस्थार्जुनकृतस्तोत्रम्
READ
चतुर्थाष्टकस्थार्जुनकृतस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
