श्रीचिदम्बरेशस्तुतिः PDF संस्कृत
Download PDF of Chidambareshastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीचिदम्बरेशस्तुतिः संस्कृत Lyrics
|| श्रीचिदम्बरेशस्तुतिः ||
कल्याणमूर्तिं कनकाद्रिचापं
कान्तासमाक्रान्तनिजार्धदेहम् ।
कालान्तकं कामरिपुं पुरारिं
चिदम्बरेशं हृदि भावयामि ॥ १॥
विश्वाधिकं विष्णुमुखैरुपास्यं
त्रिलोचनं चन्द्रकलावतंसम् ।
उमापतिं पापहरं प्रशान्तं
चिदम्बरेशं हृदि भावयामि ॥ २॥
विश्वेश्वरं नित्यमनन्तरूपं
बालेन्दुचूडं सुरवन्द्यपादम् ।
पतिं पशूनां हृदि सन्निविष्टं
चिदम्बरेशं हृदि भावयामि ॥ ३॥
विशालनेत्रं परिपूर्णगात्रं
गौरीकलत्रं सुरवैरिशत्रुम् ।
कुबेरमित्रं जगदेकपात्रं
चिदम्बरेशं हृदि भावयामि ॥ ४॥
कैलासवासं जगतामधीशं
मुरारिमित्रं पुरुहूतवन्द्यम् ।
महेशमूर्तिं सुरसेव्यमानं
चिदम्बरेशं हृदि भावयामि ॥ ५॥
कर्पूरगात्रं कमनीयपात्रं
कंसारिमित्रं कमलेन्दुवक्त्रम् ।
कन्दर्पशत्रुं कमलेशमित्रं
चिदम्बरेशं हृदि भावयामि ॥ ६॥
त्वमेव बन्धुस्त्वयि भाति सर्वं
अनेकरूपं परमन्त्रमेकम् ।
पिनाकपाणिं भयनाशहेतुं
चिदम्बरेशं हृदि भावयामि ॥ ७॥
कृपासमुद्रं सुमुखं त्रिनेत्रं
जटाधरं पार्वतिवामभागम् ।
सदाशिवं रुद्रमनन्तरूपं
चिदम्बरेशं हृदि भावयामि ॥ ८॥
॥ इति श्रीचिदम्बरेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीचिदम्बरेशस्तुतिः
READ
श्रीचिदम्बरेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
