दक्षिणामूर्तिस्तोत्रं सूतसंहिता PDF संस्कृत
Download PDF of Dakshinamurtistotrasutasamhita Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
दक्षिणामूर्तिस्तोत्रं सूतसंहिता संस्कृत Lyrics
|| दक्षिणामूर्तिस्तोत्रं सूतसंहिता ||
प्रलम्बितजटाबद्धं चन्द्ररेखावतंसकम् ।
नीलग्रीवं शरच्चन्द्र-चन्द्रिकाभिर्विराजितम् ॥ १॥
गोक्षीरधवलाकारं चन्द्रबिम्बसमाननम् ।
सुस्मितं सुप्रसन्नं च स्वात्मतत्त्वैकसंस्थितम् ॥ २॥
गङ्गाधरं शिवं शान्तं लसत्केयूरमण्डितम् ।
सर्वाभरणसंयुक्तं सर्वलक्षणसंयुतम् ॥ ३॥
वीरासने समासीनं वेदयज्ञोपवीतिनम् ।
भस्मधाराभिरामं तं नागाभरणभूषितम् ॥ ४॥
व्याघ्रचर्माम्बरं शुद्धं योगपट्टावृतं शुभम् ।
सर्वेषां प्राणिनामात्म-ज्ञानापस्मार-पृष्टतः ॥ ५॥
विन्यस्तचरणं सम्यग् ज्ञानमुद्राधरं हरम् ।
सर्वविज्ञानरत्नानां कोशभूतं सुपुस्तकम् ॥ ६॥
दधानं सर्वतत्त्वाक्षमालिकां कुण्डिकामपि ।
स्वात्मभूतपरानन्दपराशक्त्यर्ध-विग्रहम् ॥ ७॥
धर्मरूपवृषोपेतं धार्मिकैर्वेदपारगैः ।
मुनिभिस्संवृतं मायावटमूलाश्रितं शुभम् ॥ ८॥
ईशानं सर्वविद्यानामीश्वरेश्वरमव्ययम् ।
उत्पत्त्यादिविनिर्मुक्तं ओङ्कारकमलासनम् ॥ ९॥
स्वात्मविद्याप्रदानेन सदा संसारमोचकम् ।
रुद्रं परमकारुण्यात्सर्वप्राणिहिते रतम् ॥ १०॥
उपासकानां सर्वेषामभीष्टसकलप्रदम् ।
दक्षिणामूर्तिदेवाख्यं जगत्स्वर्गादिकारणम् ॥ ११॥
समागत्य महाभक्त्या दण्डवत्पृथिवीतले ।
प्रणम्य बहुशो देवं समाराध्य यथा बलम् ॥ १२॥
रुद्र यत्ते मुखं तेन दक्षिणं पाहि मामिति ।
उक्त्वा पुनः पुनर्देवं पूजयामास भक्तितः ॥ १३॥
॥ इति सूतसंहितान्तर्गतम् दक्षिणामूर्तिस्तोत्रम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदक्षिणामूर्तिस्तोत्रं सूतसंहिता
READ
दक्षिणामूर्तिस्तोत्रं सूतसंहिता
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
