श्रीदक्षिणास्यभुजङ्गप्रयातस्तुतिः PDF संस्कृत
Download PDF of Dakshinasyabhujangaprayatastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीदक्षिणास्यभुजङ्गप्रयातस्तुतिः संस्कृत Lyrics
|| श्रीदक्षिणास्यभुजङ्गप्रयातस्तुतिः ||
भवाम्भोधिपारे नयन्तं स्वभक्तान्
कृपापूरपूर्णैरपाङ्गैः स्वकीयैः ।
समस्तागमान्तप्रगीतापदानं
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ १॥
चतुर्विंशदर्णस्य मन्त्रोत्तमस्य
प्रजापाद्दृढं वश्यभावं समेत्य ।
प्रयच्छत्यरं यश्च विद्याममोघां
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ २॥
जडायापि विद्यां प्रयच्छन्तमाशु
प्रपन्नार्तिविध्वंसदक्षाभिधानम् ।
जराजन्ममृत्यून्हरन्तं प्रमोदात्
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ३॥
यमाराध्य पद्माक्षपद्मोद्भवाद्याः
सुराग्र्याः स्वकार्येषु शक्ता बभूवुः ।
रमाभारतीपार्वतीस्तूयमानं
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ४॥
सुधासूतिबालोल्लसन्मौलिभागं
सुधाकुम्भमालालसत्पाणिपद्मम् ।
सपुत्रं सदारं सशिष्यं सवाहं
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ५॥
गजास्याग्निभूसेव्यपादारविन्दं
गजाश्वादिसम्पत्तिहेतुप्रणामम् ।
निजानन्दवाराशिराकासुधांशुं
शुचीन्द्वर्कनेत्रं भजे दक्षिणास्यम् ॥ ६॥
गुणान्षट्शमादीनिहामुत्र भोगे
विरक्तिं विवेकं ध्रुवानित्ययोश्च ।
मुमुक्षां च शीघ्रं लभेत प्रसादा-
त्तमानन्दकन्दं भजे दक्षिणास्यम् ॥ ७॥
जडो जन्ममूकोऽपि यन्मन्त्रजप्तुः
करस्पर्शनात्स्यात्सुराचार्यतुल्यः ।
तमज्ञानवारान्निधेर्बाडवाग्निं
मुदा सर्वकालं भजे दक्षिणास्यम् ॥ ८॥
जहौ मृत्युभीतिं यदीयाङ्घ्रिपद्मं
सदा पूजयित्वा मृकण्डोस्तनूजः ।
तमद्रीन्द्रकन्यासमाश्लिष्टदेहं
कृपावारिराशिं भजे दक्षिणास्यम् ॥ ९॥
पुरा कामयाना पतिं स्वानुरूपां
चरित्वा तपो दुष्करं शैलकन्या ।
अवापादराद्या रुचा कामगर्वं
हरन्तं तमन्तर्भजे दक्षिणास्यम् ॥ १०॥
यदीयाङ्घ्रिसेवापराणां नराणां
सुसाध्या भवेयुर्जवात्सर्वयोगाः ।
हठाद्याः शिवान्ता यमाद्यङ्गयुक्ता
मुदा सन्ततं तं भजे दक्षिणास्यम् ॥ ११॥
वटागस्य मूले वसन्तं सुरस्त्री-
कदम्बैः सदा सेव्यमानं प्रमोदात् ।
वरान् कामितान्नम्रपङ्क्त्यै दिशन्तं
दयाजन्मभूभिं भजे दक्षिणास्यम् ॥ १२॥
विधूताभिमानैस्तनौ चक्षुरादा-
वहन्त्वेन सम्प्राप्यमेकाग्रचित्तैः ।
यतीन्द्रैर्गुरुश्रेष्ठविज्ञाततत्त्वै-
र्महावाक्यगूढं भजे दक्षिणास्यम् ॥ १३॥
शुकाद्या मुनीन्द्रा विरक्ताग्रगण्याः
समाराध्य यं ब्रह्मविद्यामवापुः ।
तमल्पार्चनातुष्टचेतोऽम्बुजातं
चिदानन्दरूपं भजे दक्षिणास्यम् ॥ १४॥
श्रुतेर्युक्तितश्चिन्तनाद्ध्यानयोगा-
द्भवेद्यस्य साक्षात्कृतिः पुण्यभाजाम् ।
अखण्डं सदानन्दचिद्रूपमन्तः
सदाहं मुदा तं भजे दक्षिणास्यम् ॥ १५॥
सुवर्णाद्रिचापं रमानाथबाणं
दिनेशेन्दुचक्रं धरास्यन्दनाग्र्यम् ।
विधिं सारथिं नागनाथं च मौर्वीं
प्रकुर्वाणमीशं भजे दक्षिणास्यम् ॥ १६॥
कराम्भोरुहैः पुस्तकं बोधमुद्रां
सुधापूर्णकुम्भं स्रजं मौक्तिकानाम् ।
दधानं धराधीशमौलौ शयानं
शशाङ्कार्धचूडं भजे दक्षिणास्यम् ॥ १७॥
कलादानदक्षं तुलाशून्यवक्त्रं
शिलादात्मजेड्यं वलारातिपूज्यम् ।
जलाद्यष्टमूर्तिं कलालापयुक्तं
फलालिं दिशन्तं भजे दक्षिणास्यम् ॥ १८॥
यदालोकमात्रान्नतानां हृदब्जे
शमाद्या गुणाः सत्वरं सम्भवन्ति ।
प्रणम्रालिचेतःसरोजातभानुं
गुरुं तं सुरेड्यं नमामो भजामः ॥ १९॥
पिनद्धानि भक्त्याख्यसूत्रेण कण्ठे
सदेमानि रत्नानि धत्ते दृढं यः ।
मुदा मुक्तिकान्ता द्रुतं तं वृणीते
स्वयं शान्तिदान्तिप्रमुख्यालियुक्ता ॥ २०॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीदक्षिणास्यभुजङ्गप्रयातस्तुतिः सम्पूर्णा ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीदक्षिणास्यभुजङ्गप्रयातस्तुतिः
READ
श्रीदक्षिणास्यभुजङ्गप्रयातस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
