श्रीदाननिर्वर्तनकुण्डाष्टकम् PDF संस्कृत
Download PDF of Dananirvartanakundashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीदाननिर्वर्तनकुण्डाष्टकम् संस्कृत Lyrics
|| श्रीदाननिर्वर्तनकुण्डाष्टकम् ||
स्वदयितगिरिकच्छे गव्यदानार्थमुच्चैः
कपटकलहकेलिं कुर्वतोर्नव्ययूनोः ।
निजजनकृतदर्पैः फुल्लतोरीक्षकेऽस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ १॥
निभृतमजनि यस्माद्दाननिर्वृत्तिरस्मि-
नत इदमभिधानं प्राप यत्तत्सभायाम् ।
रसविमुखनिगूढे तत्र तज्ञैकवेद्ये
सरसि भवतु वासो दाननिर्वर्तने नः ॥ २॥
अभिनवमधुगन्धोन्मत्तरोलम्बसङ्घ
ध्वनिललितसरोजव्रातसौरभ्यशीते ।
नवमधुरखगालीक्ष्वेलिसञ्चारकाम्रे
सरसि भवतु वासो दाननिर्वर्तने नः ॥ ३॥
हिमकुसुमसुवासस्फारपानीयपूरे
रसपरिलसदालीशालिनोर्नव्ययूनोः ।
अतुलसलिलखेलालब्धसौभाग्यफुल्ले
सरसि भवतु वासो दाननिर्वर्तने नः ॥ ४॥
दरविकसितपुष्पैर्वासितान्तर्दिगन्तः
खगमधुपनिनादैर्मोदितप्राणिजातः ।
परितौपरि यस्य क्ष्मारुहा भान्ति तस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ५॥
निजनिजनवकुञ्जे गुञ्जिरोलम्बपुञ्जे
प्रणयिनवसखीभिः संप्रवेश्य प्रियौ तौ ।
निरुपमनवरङ्गस्तन्यते यत्र तस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ६॥
स्फटिकसममतुच्छं यस्य पानीयमच्छं
खगनरपशुगोभिः सम्पिबन्तीभिरुच्चैः ।
निजनिजगुणवृद्धिर्लभ्यते द्रागमुस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ७॥
सुरभिमधुरशीतं यत्पयः प्रत्यहं ताः
सखिगणपरिवीतो व्याहरन्पाययन्गाः ।
स्वयमथ पिबति श्रीगोपचन्द्रोऽपि तस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ८॥
पठति सुमतिरेतद्दाननिर्वर्तनाख्यं
प्रथितमहिमकुण्डस्याष्टकं यो यतात्मा ।
स च नियतनिवासं सुष्ठु संलभ्य काले
कलयति किल राधाकृष्णयोर्दानलीलाम् ॥ ९॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीदाननिर्वर्तनकुण्डाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीदाननिर्वर्तनकुण्डाष्टकम्
READ
श्रीदाननिर्वर्तनकुण्डाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
