श्रीदत्तापराधक्षमापणस्तोत्रम् PDF संस्कृत
Download PDF of Dattaaparaadhakshamaa Stotram
Misc ✦ Bhajan (भजन संग्रह) ✦ संस्कृत
श्रीदत्तापराधक्षमापणस्तोत्रम् संस्कृत Lyrics
|| श्रीदत्तापराधक्षमापणस्तोत्रम् ||
दत्तात्रेयं त्वां नमामि प्रसीद त्वं सर्वात्मा सर्वकर्ता न वेद ।
कोऽप्यन्तं ते सर्वदेवाधिदेव ज्ञाताऽज्ञातान्मेऽपराधान् क्षमस्व ॥ १॥
त्वदुद्भवत्वात्वदधीनधीत्वात्तवमेव मे वन्द्य उपास्य आत्मन् ।
अथापि मौढ्यात् स्मरणं न ते मे कृतं क्षमस्व प्रियकृन्महात्मन् ॥ २॥
भोगापवर्गप्रदमार्तबंधुं कारुण्यसिन्धुं परिहाय बन्धुम् ।
हिताय चाऽन्यं परिमार्गयन्ति हा मादृशो नष्टदृशो विमूढाः ॥ ३॥
न मत्समो यद्यपि पापकर्ता न त्वत्समोऽथापि हि पापहर्ता ।
न मत्समोऽन्यो दयनीय आर्य न त्वत्समः क्वापि दयालुवर्यः ॥ ४॥
अनाथनाथोऽसि सुदीनबन्धो श्रीशाऽनुकम्पामृतपूर्णसिन्धो ।
त्वत्पादभक्तिं तव दासदास्यं त्वदीयमंत्रार्थदृढैकनिष्ठाम् ॥ ५॥
गुरूस्मृतिं निर्मलबुद्धिमाधिव्याधिक्षयं मे विजय च देहि ।
इष्टार्थसिद्धिं वरलोकवश्यं धनान्नवृद्धिं वरगोसमृद्धिम् ॥ ६॥
पुत्रादिलब्धिं म उदारतां च देहीश मे चास्त्वभय हि सर्वतः ।
ब्रह्माऽग्निभूम्यो नम ओषधीभ्यो वाचे नमो वाक्पतये च विष्णवे ॥ ७॥
शान्ताऽस्तु भूर्नः शिवमन्तरिक्ष द्यौश्चाऽभयं नोऽस्तु दिश शिवाश्च ।
आपश्च विद्युत्परिपान्तु देवाः श सर्वतो मेऽभयमस्तु शान्तिः ॥ ८॥
॥इति श्रीवासुदेवानन्दसरस्वतीविरचितं
दत्तापराधक्षमापणस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीदत्तापराधक्षमापणस्तोत्रम्
READ
श्रीदत्तापराधक्षमापणस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
