श्रीदत्तगोरक्षनाथकवचस्तवराजः PDF संस्कृत
Download PDF of Dattagorakshanathakavachastavaraja Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्रीदत्तगोरक्षनाथकवचस्तवराजः संस्कृत Lyrics
|| श्रीदत्तगोरक्षनाथकवचस्तवराजः ||
श्रीगणेशाय नमः ।
श्रीदत्तात्रेयाय नमः ।
ॐ नमो दत्तगोरक्षनाथाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
पूर्वायै इन्द्राय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
आग्नेय्यै अग्नेदेवतायै नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
दक्षिणायै यमाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
नैरृत्यै निरृतिनाथाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
पश्चिमे वरुणाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
वायव्यां वायवे नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
उत्तराशायां कुबेराय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
ईशान्यां ईश्वराय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
ऊर्ध्वायां अर्थश्वेदपाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
अधो दिशि भूमिदेवतायै नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ।
मध्ये प्रकाशा ज्योतिदेवतायै नमः ॥
पार्वत्युवाच –
नमस्ते देवदेवेश विश्वव्यापिन्महेश्वर ।
श्रीदत्तगोरक्षकवचं स्तवराजं वद प्रभो ॥ १॥
श्री ईश्वर उवाच –
शृणु शैलसुते सत्यसिद्धमार्गमयोदितम् ।
ज्ञानविज्ञानमार्गेण जीवन्मुक्तो भवेन्नरः ॥ २॥
सर्वज्ञत्वं कार्यसिद्धिं लभते वरमुत्तमम् ।
वाक्सिद्धिं योगसिद्धिं च लभते चिन्तितार्थकम् ॥ ३॥
न दुष्टेभ्यः प्रदातव्यं न दातव्यं कुलेश्वरि ।
निष्प्रपञ्चाय शिष्याय दद्यात्सविधिपूर्वकम् ॥ ४॥
रहस्यातिरहस्यं च मम वक्त्राद्विनिर्गतम् ।
एकान्ते निर्जले रम्ये सरित्सिन्धुतटे नगे ॥ ५॥
बिल्वस्थलालये जप्त्वा कुलमार्गे शुभस्थले ।
सर्वसिद्धेश्वरो साक्षात्प्राप्यते नात्र संशयः ॥ ६॥
पार्वत्युवाच –
अल्पायासेन देवेश पठेन्नित्यं स लभ्यते ।
दत्तगोरक्षकवचं स्तवराजं मयोदितम् ॥ ७॥
न्यासं ध्यानं च संयुक्तो जपपूजा विशेषतः ।
सर्वसिद्धिप्रदो नित्यं मयानुग्रहकारकम् ॥ ८॥
श्री ईश्वर उवाच –
तव भक्ताय शान्ताय पठनाच्चिन्तितं लभेत् ।
सुरासुरजनाग्रे च न मया कथितं प्रिये ॥ ९॥
ॐ अस्य श्रीदत्तगोरक्षकवचमन्त्रस्य सदाशिव ऋषिः ।
अनुष्टुप्छन्दः । श्रीदत्तात्रेयगोरक्षपरमात्मा देवता ।
ॐ बीजम् । अनुभव शक्तिः ।
श्रीदत्तगोरक्षप्रसादसिद्धर्थे जपे विनियोगः ॥ १०॥
अथ करन्यासः ।
ॐ द्रां घ्रां अङ्गुष्ठाभ्यां नमः ॥
ॐ तं रं तर्जनीभ्यां नमः ॥
ॐ त्रं क्षं मध्यमाभ्यां नमः ॥
ॐ अं नं अनामिकाभ्यां नमः ॥
ॐ बं थं कनिष्ठिकाभ्यां नमः ॥
ॐ द्रां ह्रीं करतलकरपृष्ठाभ्यां नमः ॥ ११॥
अथ हृदयादिन्यासः ।
ॐ द्रां घ्रां हृदयाय नमः ।
ॐ तं रं शिरसे स्वाहा ।
ॐ त्रं क्षं शिखायै वषट् ।
ॐ अं नं कवचाय हुम् ।
ॐ बं थं नेत्रत्रयाय वौषट् ।
ॐ द्रां ह्रीं अस्राय फट् ॥ इति दिग्बन्धः ॥
सर्वरक्षणार्थे सर्वसिद्ध्यर्थे जपे विनियोगः ॥ १२॥
॥ अथ गायत्री ॥
ॐ आदिरूपाय विद्महे ॐ अनादिरूपाय धीमहि ।
तन्नो दत्तगोरक्षप्रचोदयात् ॥ १३॥
॥ अथ मन्त्रः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ॥
इति जप्त्वा शतत्रयम् ॥ १४॥
॥ अथ ध्यानम् ॥
दिगम्बरं त्रिगुणात्मकं नारायणं निरञ्जनं योगेश्वरम् ॥
ॐ अनादिनाथं सर्वव्यापियोगिं सकलेश्वरम् ॥
चिन्मयं ज्योतिरूपं निराधारं सोऽहं ब्रह्मसनातनम् ॥
घोररूपं महाघोरं अष्टाङ्गयोगसिद्धिसिद्धेश्वरम् ॥ १५॥
ॐ नमो भगवते दत्तात्रेयाय विष्णवे ।
गुरुपरमात्मने वासुदेवाय नमोऽस्तुते ।
ॐ नमो गोरक्षनाथाय रुद्राय त्रैलोक्याधिपतये ।
जितेन्द्रियाय सनातनाय नमोऽस्तुते ॥ १६॥
शिखायां पातु गोरक्षं ब्रह्मरन्ध्रेच दत्तकम् ।
भाले गोरक्षनाथश्च दत्तात्रेयो भुवस्थले ॥ १७॥
चक्षुभ्यां घोरयोगीन्द्र गर्भयोगीन्द्र कर्णकौ ।
पाहि मां दत्तगोरक्ष वामदक्षिणनासिकाम् ॥ १८॥
मुखे गोरक्षनाथं च दत्तं चैवाधरोष्ठके ।
जिह्वाया पातु गोरक्षं दन्तान्पातु चिबुत्रकम् ॥ १९॥
अनसूयासुतं कण्ठे गोरक्षं कण्ठपृष्ठके ।
वामदक्षिणहस्तौ च दत्तगोरक्ष पाहि माम् ॥ २०॥
सत्सेना हृदये पातु दत्तगोरक्षदैवतम् ।
कट्या नाभिं च मां पातु दत्तगोरक्ष योगिनाम् ॥ २१॥
ऊरौ जङ्घादिलिङ्गातं पातु गोरक्षदत्तकम् ।
पादौ पादतलान्तं च दत्तगोरक्ष पाहिमाम् ॥ २२॥
मस्तकापादपर्यन्तं आपादतलमस्तकम् ।
दत्तात्रेयं च गोरक्षं पातु मां सर्वतस्तनुः ॥ २३॥
दिशाष्टौ च तथाऽऽकाशं पाताले विदिशाष्टके ।
दिवारात्रौ त्रिवेलायां दत्तगोरक्ष पाहि माम् ॥ २४॥
जलाग्निघोरयुद्धे च शस्त्रघाते विषत्तके ।
रक्ष रक्ष सदा देव दत्तगोरक्षदैवतम् ॥ २५॥
मन्त्रादि यन्त्रतन्त्राणां कल्पकोटिन्यकृत्तिमम् ।
रक्ष रक्ष सदा देव दत्तगोरक्षदैवतम् ॥ २६॥
अग्निपार्थे चौरसर्पे व्याघ्रदुष्टभये वने ।
रक्ष रक्ष सदा देव दत्तगोरक्षदैवतम् ॥ २७॥
भूतप्रेतपिशाचोग्रकूष्माण्डा भैरवादयः ।
डाकिनीशाकिनीकृत्या पादगोरक्षदत्तकम् ॥ २८॥
स्वर्गपातालभूलोके यत्र यत्र भवेत्शिवम् ।
तत्र रक्षतु गोरक्षं दत्तात्रेयश्च पातु माम् ॥ २९॥
ॐ नमो देवदेवेश नमो देवाधिनायक ।
नमो गोरक्षनाथाय दत्तात्रेय नमो नमः ॥ ३०॥
नमो ऋग्वेदरूपाय नमो यजुस्वरूपिणे ।
नमो गोरक्षनाथाय दत्तात्रेय नमो नमः ॥ ३१॥
नमो सामस्वरूपाय नमोऽथर्वणरूपिणे ।
नमोऽस्तु नवनाथाय नमो षोडशसिद्धये ॥ ३२॥
नमो अनादिदेवाय नमो आदिस्वरूपिणे ।
नमो वेदस्वरूपाय नमो सिद्धान्तरूपिणे ॥ ३३॥
नमो निर्मलरूपाय नमो चिन्मयव्यापिने ।
नमो विद्युत्स्वरूपाय नमो ज्योतिस्वरूपिणे ॥ ३४॥
नमो अघोररूपाय नमो निष्कर्मरूपिणे ।
नमो विश्वस्वरूपाय नमो सर्वस्वरूपिणे ॥ ३५॥
नमो अनन्तरूपाय नमो बोधस्वरूपिणे ।
नमो सकलस्वरूपाय नमो वज्रस्वरूपिणे ॥ ३६॥
नमो कल्मषनाशाय नमो पापप्रणाशिने ।
नमो चारुस्वरूपाय नमो दिव्यस्वरूपिणे ॥ ३७॥
नमो दुष्टप्रणाशाय नमो दैत्यान्तकाय च ।
नमो अधर्मनाशाय नमो धर्मस्वरूपिणे ॥ ३८॥
नमो निष्कर्मरूपाय नमो कर्मान्तकाय च ।
नमो भस्माङ्गरागाय नमो दिगम्बराय च ॥ ३९॥
नमो सुस्मितवक्त्राय नमो सुस्मितलोचन ।
नमो द्वेषविनाशाय नमो क्रोधान्तकाय च ॥ ४०॥
नमो निःशङ्करूपाय नमो वैराग्यरूपिणे ।
नमो मङ्गलरूपाय नमो कल्याणरूपिणे ॥ ४१॥
ऋद्धिसिद्धिफलं दाता भुक्तिमुक्तिप्रदायकम् ।
नमोऽस्तु दत्तगोरक्षं संसारार्णवतारणम् ॥ ४२॥
इति दत्तस्तवं दिव्यं दत्तगोरक्षकं शुभम् ।
पठनाल्लभते शैवं वाक्सिद्धिर्देहसिद्धिदम् ॥ ४३॥
योगसिद्धिः सर्वसिद्धिः इष्टसिद्धिर्लभन्ति च ।
दुष्टदानवसंहर्ता निर्भयो जायते नरः ॥ ४४॥
न मृत्युर्न जरा रोगं निर्भयो जायते नरः ।
तत्रैव विजयो लाभो यत्र तिष्ठति साधकः ॥ ४५॥
स्वशक्तिसहितादेव नवनाथेषु बोधना ।
सगणशक्तिसहिता देव प्रसन्नसङ्क्रमात् ॥ ४६॥
ॐ नमो दत्तात्रेयाय नमो नमोऽस्तु
ॐ विष्णुस्वरूपाय नमो नमोऽस्तु ।
ॐ नमो गोरक्षनाथाय नमो नमस्ते
ॐ शिवस्वरूपाय नमो नमस्ते ॥ ४७॥
इति श्रीरुद्रयामले श्रीईश्वरपार्वतीसंवादे
दत्तगोरक्षनाथकवचस्तवराजं सम्पूर्णम् ।
श्रीदत्तात्रेयार्पणमस्तु । शुभमस्तु । श्रीरस्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीदत्तगोरक्षनाथकवचस्तवराजः
READ
श्रीदत्तगोरक्षनाथकवचस्तवराजः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
