श्रीदत्तात्रेयापराधक्षमापणस्तोत्रम् PDF संस्कृत
Download PDF of Dattaparadhakshamapana Stotram
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीदत्तात्रेयापराधक्षमापणस्तोत्रम् संस्कृत Lyrics
|| श्रीदत्तात्रेयापराध क्षमापण स्तोत्रम् ||
रसज्ञावशातारकं स्वादुलभ्यम्
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ १॥
वियोन्यन्तरे दैवदार्ढ्या विभोप्राग्
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ २॥
मया मातृगर्भस्थितिप्राप्तकष्टात्
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ३॥
मया जातमात्रेण संमोहितेन
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ४॥
मया क्रीडनासक्तचित्तेन बाल्ये
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ५॥
मया यौवनेऽज्ञानतो भोगतोषाद्
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ६॥
मया स्थाविरेनिघ्नसर्वेन्द्रियेण
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ७॥
हृषीकेश मे वाङ्मनःकायजातम्
हरेज्ञानतोऽज्ञानतो विश्वसाक्षिन् ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ८॥
स्मृतो ध्यात आवाहितोऽस्यर्चितो वा
न गीतः स्तुतो वन्दितो वा न जप्तः ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ९॥
दयाब्धिर्भवाद्दङ्न सागाश्च मादृग्
भवत्यात्पमन्तोर्भवान्मे शरण्यः ।
यथालम्बनं भूर्हि भूनिःसृतांघ्रे
रिति प्रार्थितं दत्तशिष्येण सारम् ॥ १०॥
॥ इति परमपूज्य श्रीमद् वासुदेवानन्दसरस्वती
स्वामीमहाराजकृत अपराधक्षमापन स्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीदत्तात्रेयापराधक्षमापणस्तोत्रम्
READ
श्रीदत्तात्रेयापराधक्षमापणस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
