श्रीदयानन्दमङ्गलाष्टकम् PDF संस्कृत
Download PDF of Dayanandamangalashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीदयानन्दमङ्गलाष्टकम् संस्कृत Lyrics
|| श्रीदयानन्दमङ्गलाष्टकम् ||
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
अथ श्रीदयानन्दमङ्गलाष्टकम् ।
शतकुम्भहृदब्जाय शतायुर्मङ्गलाय च ।
शताभिषेकवन्द्याय दयानन्दाय मङ्गलम् ॥ १॥
सहस्राब्जसुदर्शाय सहस्रायुतकीर्तये ।
सहजस्मेरवक्त्राय दयानन्दाय मङ्गलम् ॥ २॥
गङ्गादर्शनपुण्याय गङ्गास्नानफलाय च ।
गङ्गातीराश्रमावासदयानन्दाय मङ्गलम् ॥ ३॥
वेदोपनिषदागुप्तनित्यवस्तुप्रकाशिने ।
वेदान्तसत्यतत्त्वज्ञदयानन्दाय मङ्गलम् ॥ ४॥
शुद्धज्ञानप्रकाशाय शुद्धान्तरङ्गसाधवे ।
शुद्धसत्तत्त्वबोधाय दयानन्दाय मङ्गलम् ॥ ५॥
दमादिशमरूपाय यानन्दवाक्प्रबोधिने ।
स्वामिने सत्त्वबोधाय यथानाम्ने सुमङ्गलम् ॥ ६॥
अक्षरागुप्तसद्वाणीपूर्णप्रसादवाग्मिने ।
अक्षरश्लोकमालाय दयानन्दाय मङ्गलम् ॥ ७॥
त्यागब्रह्मगुरुस्वामिशिष्यापुष्पासुगीतये ।
दयानन्दसुपूर्णाय पूर्णायुषे सुमङ्गलम् ॥ ८॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीदयानन्दमङ्गलाष्टकं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीदयानन्दमङ्गलाष्टकम्
READ
श्रीदयानन्दमङ्गलाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
